________________
त्रयोदशः सर्गः ]
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
मार्गं श्रितो यथा दूरं क्रमात् पङ्गुरपि व्रजेत् । धर्मस्थो घनकर्माऽपि तथा मोक्षमवाप्नुयात् ॥२८॥ q[एवं च देशनां कृत्वा विरते त्रिजगद्गुरौ । मण्डलेशः पुण्यपालः प्रभुं नत्वा व्यजिज्ञपत् ॥२९॥ स्वामिन् ! स्वप्ना मयाऽद्याऽष्टौ दृष्टास्तत्र गजः कपिः । क्षीरदुः काक - सिंहा - ऽब्ज - बीज - कुम्भा इमे क्रमात् ||३०|| तदाख्याहि फलं तेषां भीतोऽस्मि भगवन्नहम् । इति पृष्टो जगन्नाथो व्याचकारेति तत्फलम् ||३१|| [विवेर्कतौङ्ग्याद् भूत्वाऽपि हस्तितुल्या अतः परम् । वत्स्यन्ति श्रावका लुब्धाः क्षणिकर्द्धिसुखे गृहे ॥३२॥ न दौःस्थ्ये परचक्रे वा प्रव्रजिष्यन्त्युपस्थिते । आत्तामपि परिव्रज्यां त्यक्ष्यन्ति च कुसङ्गतः ||३३|| विरलाः पालयिष्यन्ति कुसङ्गेऽपि व्रतं खलु । इदं गजस्वप्नफलं कपिस्वप्नफलं त्वदः ||३४|| प्रायः कपिसमा लोलपरिणामाऽल्पसत्त्वकाः । आचार्यमुख्या गच्छस्थाः प्रमादं गामिनो व्रते ||३५|| ते विपर्यासयिष्यन्ति धर्मस्थानितरानपि । भाविनो विरला एव धर्मोद्योगपराः पुनः ||३६|| धर्मश्रलथेषु ये शिक्षां प्रदास्यन्त्यप्रमादिनः । ते तैरुपहसिष्यन्ते ग्राम्यैर्ग्रामस्थेपौरवत् ||३७|| इत्थं प्रवचनाऽवज्ञाऽतः परं हि भविष्यति । प्लवङ्गमस्वप्नफलमिदं जानीहि पार्थिव ! ||३८|| क्षीरद्रुतुल्याः सुक्षेत्रे दातारः शासनार्चकाः । श्रावकास्ते तु रोत्स्यन्ते लिङ्गिभिर्वञ्चनापरैः ॥३९॥ तेषां च प्रतिभास्यन्ति सिंहसत्त्वभृतोऽपि हि । महर्षयः सारमेया इवाऽसारमतिस्पृशाम् ॥४०॥ आदास्यन्ते सुविहितविहारक्षेत्रपद्धतिम् । लिङ्गिनो बब्बूलसमाः क्षीद्रुफलमीदृशम् ॥४१॥ धृष्टस्वभावा मुनयः प्रायो धर्मार्थिनोऽपि हि । रंस्यन्ते न हि गच्छेषु दीर्घिकाम्भः स्विव द्विकः ॥४२॥ ततोऽन्यगच्छिकैः सूरिप्रमुखैर्वञ्चनापरैः । मृगतृष्णानिभैः सार्धं चलिष्यन्ति जडाशयाः ||४३|| न युक्तमेभिर्गमनमिति तत्रोपदेशकान् । बाधिष्यन्ते नितान्तं ते काकस्वप्नफलं ह्यदः ||४४|| सिंहतुल्यं जिनमतं जातिस्मृत्याद्यैसूज्झितम् । विपत्स्यतेऽस्मिन् भरतवने धर्मज्ञवर्जिते ॥४५॥ न कुतीर्थिकतिर्यञ्चोऽभिभविष्यन्ति जातु तत् । स्वोत्पन्ना कृमिवत्किं तु लिङ्गिनोऽशुद्धबुद्धयः ॥४६॥ लिङ्गिनोऽपि प्राक्प्रभावात् श्वापदाभैः कुतीर्थिकैः । न जात्वभिभविष्यन्ते सिंहस्वप्नफलं ह्यदः ॥४७॥ अब्जाकरेष्वम्बुजानि सुगन्धीनीव देहिनः । धार्मिका न भविष्यन्ति संजाताः सुकुलेष्वपि ॥४८॥ अपि धर्मपरा भूत्वा भविष्यन्ति कुसङ्गतः । ग्रामावंकरकोत्पन्नगर्दभाब्जवदन्यथा ॥४९॥ कुदेशे कुकुले जाता धर्मस्था अपि भाविन: । हीना इत्यनुपादेयाः पद्मस्वप्नफलं दः ॥५०॥ यथा फलायाऽबीजानि बीजबुद्ध्यो खरे वपेत् । तथा वप्स्यन्त्यकल्पानि कुपात्रे कल्पबुद्धितः ॥५१॥ यद्वा घुणाक्षरन्यायाद्यथा कोऽपि कृषीवलः । अबीजान्तर्गतं बीजं वपेत् क्षेत्रे निराशयः ॥५२॥
१८३
१. विवेकवन्तो भूत्वापि मु. । विवेकतुङ्गत्वेन हस्तिवदुत्तुङ्गा भूत्वापीत्यर्थः । २. ग्रामे स्थितं पौरं - नगरवासिजनं यथा ग्राम्या हसिष्यन्ति तथा । ३. वापीजलेषु । ४. द्विकाः काका: । द्विजाः खं. ४ । ५. ०द्यनूज्ज्ञितम् मु., नू. मु. । जातिस्मृत्यादय एव असवःप्राणाः तैरुज्झितं -रहितम् । ६. जिनमतम् । ७. ०ष्यन्ति खं. १ । ८. ०न्धानीव खं. १ । ९. ग्रामस्य योऽवकरक :- ‘ऊकरडो’ तत्रोत्पन्नं यद् गर्दभाब्जं श्वेतपुष्पम्, तद्वत् । १०. ०फलाय बीजा० खं. १ । ११. ०द्धयोषरे खं. १ । १२. अकल्पानि - अनाचारान् । १३. ०र्गतबीजं खं. १ । १४. निराश्रयः खं. १ ।