________________
१८२
[दशमं पर्व
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं ॥ अथ त्रयोदशः सर्गः ॥
अथ तत्र सुराश्चक्रुर्वप्रत्रितयभूषितम् । रम्यं समवरसणं स्वामिनो देशनासंदः ॥१॥ ज्ञात्वा निजायु:पर्यन्तमन्तिमां देशनां प्रभुः । कर्तुं तस्मिन्नुपाविक्षत् सुरासुरनिषेवितः ॥२॥ स्वामिनं समवसृतं ज्ञात्वाऽपापापुरीपतिः । हस्तिपालः समागत्य नत्वा च समुपाविशत् ॥३|| शुश्रूषमाणास्तत्राऽस्थुर्यथास्थानं सुरादयः । एत्य नत्वा सहस्राक्ष इति स्वामिनमस्तीवत् ॥४॥ पा“धर्माधर्मी विना नाऽङ्गं विनाऽङ्गेन मुखं कुतः । मुखाद्विना न वक्तृत्वं तच्छास्तारः परे कथम् ? ॥५॥ अदेहस्य जगत्सर्गे प्रवृत्तिरपि नोचिता । न च प्रयोजनं किञ्चित् स्वातन्त्र्यान्न पराऽऽज्ञया ॥६॥ क्रीडया चेत् प्रवर्तेत रागवान् स्यात् कुमारवत् । कृपयाऽथ सृजेत्तर्हि सुख्येव सकलं सृजेत् ॥७|| दुःख-दौर्गत्य-दुर्योनिजन्मादिक्लेशविह्वलम् । जनं तु सृजतस्तस्य कृपालोः का कृपालुता ? ||८|| कर्मापेक्षः स चेत्तर्हि न स्वतन्त्रोऽस्मदादिवत् । कर्मजन्ये च वैचित्र्ये किमनेन शिखण्डिना ? ॥९॥ अथ स्वभावतो वृत्तिरविता महेशितुः । परीक्षकाणां तद्देष परीक्षाक्षेपडिण्डिमः ॥१०॥ सर्वभावेषु कर्तृत्वं ज्ञातृत्वं यदि संमतम् । मतं नः सन्ति सर्वज्ञा मुक्ताः कायभृतोऽपि च ॥११॥ सृष्टिवादकुहेवाकमुन्मुच्येत्यप्रमाणकम् । त्वच्छासने रमन्ते ते येषां नाथ ! प्रसीदसि" ॥१२॥ इति स्तुत्वा सुनासीरे स्थितेऽपापापुरीपतिः । हस्तिपालनृपोऽप्येवं वीरस्वामिनमस्तवीत् ॥१३|| q["न परं नाम मृद्वेव कठोरमपि किञ्चन । विशेषज्ञाय विज्ञप्यं स्वामिने स्वान्तशुद्धये ॥१४|| न पक्षिपशुसिंहादिवाहनाऽऽसीनविग्रहः । न नेत्रवक्त्रगात्रादिविकारविकृताकृतिः ॥१५॥ न शूलचापचक्रादिशस्त्राङ्ककरपल्लवः । नाङ्गनाकमनीयाङ्गपरिष्वङ्गपरायणः ॥१६।। न गर्हणीयचरितप्रकम्पितमहाजनः । न प्रकोपप्रसादादिविडम्बितनरामरः ॥१७|| न जगज्जनन-स्थेम-विनाशविहितादरः । न लास्यहास्यगीतादिविप्लवोपप्लुतस्थितिः ॥१८॥ तदेवं सर्वदेवेभ्यः सर्वथा त्वं विलक्षणः । देवत्वेन प्रतिष्ठाप्यः कथं नाम परीक्षकैः ? ॥१९॥ अनुश्रोतः सरत्पर्णतृणकाष्ठादि युक्तिमत् । प्रतिश्रोतः श्रयद्वस्तु कया युक्त्या प्रतीयताम् ? ॥२०॥ अथवाऽलं मन्दबुद्धिपरीक्षकपरीक्षणैः । ममापि कृतमेतेन वैयात्येन जगत्प्रभो ! ॥२१॥ यदेव सर्वसंसारिजन्तुरूपविलक्षणम् । परीक्षन्तां कृतधियस्तदेव तव लक्षणम् ।।२२।। क्रोधलोभभयाक्रान्तं जगदस्माद्विलक्षणः । न गोचरो मृदुधियां वीतराग ! कथञ्चन" ॥२३॥ एवं स्तुत्वा हस्तिपाले विरतेऽर्हन्नपश्चिमः । अपश्चिमामित्यकरोद् भगवान् धर्मदेशनाम् ॥२४॥ पापुमर्था इह चत्वारः कामार्थों तत्र जन्मिनाम् । अर्थभूतौ नामधेयादनौँ परमार्थतः ॥२५॥ अर्थस्तु मोक्ष एवैको धर्मस्तस्य च कारणम् । संयमादिर्दशविधः संसाराम्भोधितारणः ॥२६॥ अनन्तदुःखः संसारो मोक्षोऽनन्तसुखः पुनः । तयोस्त्याग-परिप्राप्तिहेतुर्धर्मं विना न हि ॥२७||
१. सद:-सभागृहम् । २. अन्यदर्शनमान्याः सर्वज्ञाः । ३. इन्द्रे । ४. निर्लज्जत्वेन । ५. प्रभोः खं. १-३ ।