________________
१८४ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व अकल्पान्तर्गतं कल्पमज्ञानाः श्रावकास्तथा । पात्रे दानं करिष्यन्ति बीजस्वप्नफलं ह्यदः ॥५३॥ क्षमादिगुणपद्माङ्काः सुचरित्राम्बुपूरिताः । रह:स्था भाविनः कुम्भा इव स्तोका महर्षयः ॥५४|| श्रलथाचारचरित्राश्च कलशा मलिना इव । यत्र तत्र भविष्यन्ति बहवो लिङ्गिनः पुनः ॥५५।। समत्सराः करिष्यन्ति कलहं ते महर्षिभिः । उभयेषामपि तेषां साम्यं लोके भविष्यति ॥५६।। गीतार्था लिङ्गिनश्च स्युः साम्येन व्यवहारिणः । जनेन ग्रहिलेनेवाऽग्रहिलंग्रहिलो नृपः ॥५७।। पातथाहि पृथिवीपुर्यां पूर्णो नाम महीपतिः । सुबुद्धिस्तस्य चाऽमात्यो निधानं बुद्धिसम्पदः ॥५८॥ कालं तेनाऽऽगमिष्यन्तं पृष्टोऽन्येयुः सुबुद्धिना । लोकदेवोऽभिधानेन नैमित्तिकवरोऽवदत् ॥५९॥ मासादनन्तरं मेघो वर्षिता तज्जलं पुनः । यः पास्यति स सर्वोऽपि ग्रहग्रस्तो भविष्यति ॥६॥ कियत्यपि गते काले सुवृष्टिश्च भविष्यति । पुनः सज्जा भविष्यन्ति तत्पय:पानतो जनाः ॥६१।। राज्ञे मन्त्री तदाचख्यौ राजाऽप्यानकताडनात् । आख्यापयज्जने वारिसङ्ग्रहार्थमथाऽऽदिशत् ॥६२।। सर्वोऽपि हि तथा चक्रे ववर्षोक्तेऽह्नि चाऽम्बुदः । कियत्यपि गते काले सङ्ग्रहीताम्बु निष्ठितम् ॥६३।। अक्षीणसङ्ग्रहाम्भस्कौ राजामात्यौ तु तौ विना । नवाम्बु लोकाः सामन्तप्रमुखाश्च पपुस्ततः ॥६४|| तत्पानाद् ग्रहिलाः सर्वे ननृतुर्जहसुर्जगुः । स्वैरं चिचेष्टिरेऽन्यत्र विना तौ राज-मन्त्रिणौ ॥६५।। राजामात्यौ विसदृशौ सामन्ताद्या निरीक्ष्य ते । मन्त्रयाञ्चक्रिरे नूनं ग्रहिलौ राज-मन्त्रिणौ ॥६६।। अस्मद्विलक्षणाचाराविमकावपसार्य तत् । अपरौ स्थापयिष्यामः स्वोचितौ राज-मन्त्रिणौ ॥६७|| मन्त्री ज्ञात्वेति तन्मन्त्रं नृपायाऽऽख्यन्नृपोऽवदत् । आत्मरक्षा कथं कार्या तेभ्यो वृन्दं हि राजवत् ॥६८।। मन्त्र्यूचे ग्रहिलीभूय स्थातव्यं ग्रहिलैः सह । त्राणोपायो न कोऽप्यन्य इदं हि समयोचितम् ॥६९।। कृत्रिमं ग्रहिलीभूय ततस्तौ राज-मन्त्रिणौ । तेषां मध्ये ववृताते रक्षन्तौ निजसम्पदम् ॥७०॥ ततः सुसमये जाते शुभवृष्टौ नवोदके । पीते सर्वेऽभवन् स्वस्था मूलप्रकृतिधारिणः ॥७१।। एवं च दु:षमाकाले गीतार्था लिङ्गिभिः सह । सदृशीभूय वत्स्यन्ति भाविस्वसमयेच्छवः ॥७२॥ इति श्रुत्वा स्वप्नफलं पुण्यपालो महामनाः । प्रबुद्धः प्राव्रजत्तत्र क्रमान्मोक्षमियाय च ॥७३|| पाभगवन्तं प्रणम्याऽथ गणभृद् गौतमोऽभ्यधात् । तृतीयारकपर्यन्ते भगवानृषभोऽभवत् ॥७४|| त्रयोविंशतिरर्हन्तस्तुरीयारेऽजितादयः। अभवन्नवसर्पिण्यां यावद्यूयं जगद्गुरो ! ॥७५।।
अतः परं पञ्चमारे दुःषमानामनि प्रभो ! । यद्भविष्यति तच्छंस प्रसीद परमेश्वर ! ॥७६।। पास्वाम्याख्यान्मम निर्वाणादतीतैर्वत्सरैस्त्रिभिः । सार्धाष्टमाससहितैः पञ्चमाऽर: प्रवेक्ष्यति ॥७७|| मन्निर्वाणाद् गतेष्वब्दशतेष्वेकोनविंशतौ । चतुर्दशाब्द्यां च म्लेच्छकुले चैत्राष्टमीदिने ॥७८॥ विष्टौ भावी नृपः कल्की स स्टोऽथ चतुर्मुखः । नामत्रयेण विख्यातः पाटलीपुत्रपत्तने ॥७९॥ तदा च मथुरापुर्यामकस्माद् राम-कृष्णयोः । निपतिष्यत्यायतनं वाताहतजद्रुवत् ॥८०॥
१. अकल्प्यान्त० खं. ३ । २. अग्रहिलोपि ग्रहिल:-ग्रहग्रस्त इव । ३. ननृताते खं. ३ । ४. ०वान् वृषभो० खं. १ । ५. पञ्चमार: मु., नू. मु. ।