________________
त्रयोदशः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । क्रोधमानमायालोभाः सदा काष्ठे घुणा इव । नैसर्गिका भविष्यन्ति तस्मिन् क्रूरतराशये ॥८१॥ चौरा राजविरोधो राड्भयं गन्धरसक्षयः । दुर्भिक्षमीत्यवृष्टी च भविष्यन्ति तदा खलु ॥८२।। कुमारोऽष्टादशाब्दानि तावन्त्येव च डामरी । ततः परं प्रचण्डात्मा राजा कल्की भविष्यति ॥८३।। पानगरे पर्यटस्तत्र पञ्च स्तूपान्निरीक्ष्य सः । परिप्रक्ष्यति पार्श्वस्थान् केनैते कारिता इति ? ||८४|| कथयिष्यन्ति तेऽप्येवं पुराऽऽसीद्विश्वविश्रुतः । नन्दो नाम क्षितिपतिर्धनैर्धनदसन्निभः ॥८५।। हिरण्यमस्ति स्तूपेषु तेनेह निहितं बहु । नाऽऽदातुं तत् क्षम: कोपि बभूव पृथिवीपतिः ॥८६॥ कल्किराजस्तदाकर्ण्य भूरिलोभो निसर्गतः । खानयिष्यति तान् स्तूपान् हिरण्यं च ग्रहीष्यति ॥८७|| सर्वतोऽपि पुरं तच्च सोऽर्थार्थी खानयिष्यति । अखिलांश्च महीपालांस्तृणवद् गणयिष्यति ॥८८॥ qाकल्किना खान्यमानायास्तदा च स्वपुरावनेः । नाम्ना लवणदेवी गौरुत्थास्यति शिलामयी ॥८९।।
चतुष्पथेऽवस्थिता सा भिक्षार्थमटतो मुनीन् । तत्प्रातिहार्याच्छृङ्गाग्रभागेणाऽऽघट्टयिष्यति ॥१०॥ स्थविराश्च वदिष्यन्ति भाविनं सूचयत्यसौ । जलोपसर्गमत्यन्तं तत् क्वापि व्रजताऽन्यतः ॥९१॥ श्रुत्वा तत् केऽपि यास्यन्ति विहारेण महर्षयः । अन्ये तु भक्तवस्त्रादिलुब्धा वक्ष्यन्त्यदः खलु ॥९२।। कालात् कर्मवशाद् भावि शुभं वा यदि वाऽशुभम् । कस्तन्निषेधितुमलम्भूष्णुर्जिष्णुरपि स्वयम् ? ॥९३।। पाततः पाखण्डिनः सर्वान् कल्की याचिष्यते करम् । तं च तस्मै प्रदास्यन्ति ते सारम्भपरिग्रहाः ॥९४॥
अन्यैः पाखण्डिभिर्दत्तः करो यूयं न दत्थ किम् ? । इति ब्रुवाणो लुब्धात्मा स साधूनपि रोत्स्यते ॥९५।। साधवस्तं वदिष्यन्ति राजन् ! वयमकिञ्चनाः । भिक्षाभुजो धर्मलाभं विना किं दद्महे तव ? ॥९६।। पुराणेषूक्तमस्त्येवं ब्रह्मनिष्ठांस्तपोधनान् । रक्षस्तत्पुण्यषष्ठांशभाग् भवेदवनीपतिः ॥९७॥ अस्माद् दुष्कर्मणस्तस्माद्विरमाऽवनिशासन ! । व्यवसायोऽशुभायाऽयं पुरे राष्ट्रे च सर्वथा ॥९८|| एवं मुनिवचः श्रुत्वा कल्की कोपिष्यति द्रुतम् । उभृकुटि: करालास्यः कृतान्त इव भीषणः ॥९९।। किमरे ! मर्तुकामोऽसि माधम ! मुनीनपि । याचसेऽर्थं वक्ष्यतीति ततस्तं पुरदेवता ॥१००॥
देवतावचसा तेन सिंहनादेन दन्तिवत् । भीतः कल्की नतिपूर्वं तान् साधून् क्षमयिष्यति ॥१०१।। पाभविष्यन्ति च भूयांसस्तदोत्पाता भयङ्कराः । अन्वहं कल्किराजस्य नगरक्षयसूचकाः ॥१०२।।
अहोरात्रान् सप्तदश वर्षिष्यत्यथ वारिदः । गङ्गाप्रवाहश्चोवृत्ये तत्पुरं प्लावयिष्यति ॥१०३।। तत्राऽऽचार्यः प्रातिपदः कोऽपि सङ्घजनोऽपि च । पूर्लोकः कोऽपि कल्की च स्थास्यन्ति स्थलमूर्धनि ॥१०४|| गङ्गाप्रवाहपयसा परितोऽपि प्रसारिणा । यास्यन्ति निधनं सद्यो बहवः पुरवासिनः ॥१०५।। पाजलोपसर्गे विरते नन्दद्रव्येण तेन तु । कल्किराजः पुनरपि करिष्यति नवं पुरम् ॥१०६।। भविष्यन्त्यायतनानि विहरिष्यन्ति साधवः । वर्षिष्यति च कालेऽब्दः सस्यनिष्पत्तिकारणम् ॥१०७|| द्रम्मेणं कुम्भलाभेऽपि सस्यं न क्रेष्यते जनः । पञ्चाशदब्दीमेवं च सुभिक्षं भावि कल्किनि ॥१०८।। पाआसन्नमृत्युभूयोऽपि कल्की पाखण्डिनोऽखिलान् । त्याजयिष्यति लिङ्गानि व्युपद्रोष्यति चोच्चकैः ॥१०९॥ १. चौरराज० मु.। २. उपद्रवकारी । ३. ईश्वरः । ४. रोत्स्यति खं. ३।५. ०श्चोद्धृत्य मु., नू. मु. । ६. एकेन द्रम्मेण कुम्भमितसस्यलाभेऽपि ।