________________
१८६ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व ससङ्गं च प्रातिपदं न्यस्य गोवाटके तदा । याचिष्यते स भिक्षायाः षष्ठं भागं दुराशयः ॥११०॥ सङ्घः शक्राऽऽराधनाय कायोत्सर्ग करिष्यति । शासनदेव्यो वक्ष्यन्ति कल्किन् ! क्षेमाय न ह्यदः ॥१११॥ सङ्घस्य कायोत्सर्गानुभावेन चलितासनः । वृद्धद्विजवपुर्भूत्वा शक्रस्तत्राऽऽगमिष्यति ॥११२।। महासिंहासनासीनं कल्किनं पर्षदि स्थितम् । शक्रो वक्ष्यति किं न्वेते निरुद्धाः साधवस्त्वया ? ॥११३।। कल्की भाषिष्यते शक्रं मत्पुरे निवसन्त्यमी । न मे करं तु यच्छन्ति भिक्षाषष्ठांशमप्यहो ! ॥११४|| पाखण्डाः करदाः सर्वे ममाऽभूवन्नमी तु न । दुर्गवीव बलाद्दोग्धुं निरुद्धास्तेन वाटके ॥११५॥ तं जल्पिष्यति शक्रोऽपि नैतेषामस्ति किञ्चन । भिक्षांशमपि दास्यन्ति न कस्यापि कदाऽप्यमी ॥११६।। भिक्षुभ्यो याचमानस्त्वं भिक्षांशं लज्जसे न किम् ? । तन्मुञ्चाऽमूनन्यथा ते भाव्यनर्थो महान् खलु ॥११७|| कुप्यन्निति गिरा कल्की वदिष्यत्यररे भटाः ! । कण्ठे धृत्वा द्विजममुमपसारयत द्रुतम् ॥११८।। इत्युक्ते कल्किनं कल्कपर्वतं पाकशासनः । चपेटाताडनात् सद्यो भस्मराशीकरिष्यति ॥११९।। षडशीतिं वत्सराणामायुः सम्पूर्य कल्किराट् । नारको नरकावन्यां दुरन्तायां भविष्यति ॥१२०|| अनुशिष्याऽऽर्हतं धर्मं दत्ताख्यं कल्किनः सुतम् । राज्ये निवेश्य वन्दित्वा सङ्घ शक्रो गमिष्यति ॥१२१।। पितुः पापफलं घोरं शक्रशिक्षां च संस्मरन् । दत्तः करिष्यति महीमर्हच्चैत्यविभूषिताम् ॥१२२।। पापञ्चमारकपर्यन्तं यावदेवमतः परम् । प्रवृत्तिजिनधर्मस्य भविष्यति निरन्तरा ॥१२३॥ इदं हि भरतक्षेत्रं ग्रामाकरपुराऽऽकुलम् । धनधान्याऽऽचितमहत्कालेऽभूत् स्वर्गसन्निभम् ॥१२४।। ग्रामा नगरवत् स्वर्गसमानि नगराणि च । कुटुम्बिनो नृपसमा नृपा वैश्रवणोपमाः ॥१२५।। आचार्याश्चन्द्रमस्तुल्याः पितरो देवतासमाः । श्वश्र्वश्च जननीतुल्याः श्वशुराः पितृसन्निभाः ॥१२६।। सत्यशौचपरो धर्माऽधर्मज्ञो विनयप्रियः । गुरुदेवार्चकः स्वस्त्रीसन्तुष्टश्च तदा जनः ॥१२७।। अर्घति स्म च विज्ञानं विद्या शीलं कुलं तथा । परचक्रेतिदस्युभ्योऽभून्न भीन करो नवः ॥१२८॥
अर्हद्रक्ताश्च राजानोऽवगीताश्च कुतीथिकाः । बभूवुरुपसर्गादीन्याश्चर्याणि दशापि च ॥१२९॥ पाअतः परं दुःषमायां कषायैलुप्तधर्मधीः । भावी लोकोऽपमर्यादोऽत्युदकक्षेत्रभूरिव ॥१३०॥ यथा यथा यास्यति च कालो लोकस्तथा तथा । कुतीथिमोहितमतिर्भाव्यहिंसादिवर्जितः ॥१३१।। ग्रामाः श्मशानवत् प्रेतलोकवन्नगराणि च । कुटुम्बिनश्चेटसमा यमदण्डसमा नृपाः ॥१३२॥ लुब्धा नृपतयो भृत्यान् ग्रहीष्यन्ति धनं निजान् । तद्धृत्याश्च जनमिति मात्स्यो न्यायः प्रवत्य॑ते ॥१३३।। येऽन्त्यास्ते भाविनो मध्ये ये मध्यास्तेऽन्तिमाः क्रमात् । देशाश्च दोलायिष्यन्ते नावोऽसितपटा इव ॥१३४|| चौर्याच्चौरा: पीडयिष्यन्त्यर्वी भपाः करेण तु । श्रेण्यो भतग्रहप्राया लञ्चालब्धा नियोगिनः ॥१३५।। भावी विरोधी स्वजने जनः स्वार्थकतत्परः । परार्थविमुखः सत्य-लज्जा-दाक्षिण्यवर्जितः ॥१३६।। गुरून्नाराधयिष्यन्ति शिष्याः शिष्येषु तेऽपि हि । श्रुतज्ञानोपदेशं न प्रदास्यन्ति कथञ्चन ॥१३७|| एवं गुरुकुलवासः क्रमादपगमिष्यति । मन्दा धीर्भाविनी धर्मे बहुसत्त्वाऽऽकुला च भूः ॥१३८।। न साक्षाद्भाविनो देवा विमस्यन्ते सुताः पितॄन् । सीभूताः स्नुषाः श्वश्रूः कालरात्रिसमाः पुनः ॥१३९।।
१. कल्कोऽसार: पदार्थस्तस्य पर्वतम् । २. ईतिः-उपद्रवः । ३. निन्दिताः । ४. प्रवर्त्यति खं. १ विना, मु. नू. मु. । ५. अधिकारिणो 'लांच' लुब्धाः । ६. विरोध: नू. मु. । ७. श्वश्चः नू. मु. । पुत्रवध्वः सर्पतुल्याः श्वश्रूविमस्यन्ते इत्यर्थः ।