Book Title: Trishashtishalakapurushcharitammahakavyam Parva 10
Author(s): Hemchandracharya, Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 204
________________ १८० कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं [दशमं पर्व पाअथ मृत्युश्रियमिव बद्ध्वाऽय:पुत्रिकां गले । चेटकोऽनशनं कृत्वाऽविक्षदस्ताघवारिणि ॥३९१॥ स मज्जन् धरणेन्द्रेण समीक्ष्य भवने निजे । निन्ये साधर्मिक इति मृत्यु ऽत्रुटितायुषाम् ॥३९२।। धरणेन श्रलाध्यमानधर्मध्यानो महामनाः । तस्थौ मृत्योरचकितश्चेटकः प्राग् रणादिव ॥३९३।। अर्हत्सिद्धसाधुधर्मान्मङ्गल्यान्मङ्गलात्मनः । लोकोत्तमांश्च चतुरश्चतुरः सोऽस्मरत् स्वयम् ॥३९४|| पाजीवाजीवादितत्त्वोपदेशकाः परमेश्वराः । बोधिप्रदाः स्वयंबुद्धा अर्हन्तः शरणं मम ॥३९५।। ध्यानाग्निदग्धकर्माणस्तेजोरूपा अनश्वराः । अनन्तकेवलज्ञानाः सिद्धाश्च शरणं मम ॥३९६।। निरीहा निरहङ्कारा निर्ममाः समचेतसः । महाव्रतधरा धीराः साधवः शरणं मम ॥३९७॥ अहिंसा-सनताऽस्तेय-ब्रह्मा-5ऽकिञ्चनतामयः । केवल्यपज्ञः परमो धर्मश्च शरणं मम ॥३९८|| अपि जन्मशतैर्यद्यदपराद्धं शरीरिषु । त्रिविधं त्रिविधेनापि तन्निन्दामि समाहितः ॥३९९।। गृहिधर्मं द्वादशधा मया पालयता कृता । ये केचिदप्यतीचारास्तान् सर्वान् व्युत्सृजाम्यहम् ॥४००॥ क्रोध-मान-माया-लोभाभिभूतेन मया सदा । कृतं यद्यच्च हिंसाऽऽदि तत्त्रिधापि धिगस्तु मे ॥४०१॥ एवमाराधनां कृत्वा नमस्कारपरायणः । विपद्य चेटकः स्वर्गसुखभाजनतां ययौ ॥४०२।। १[अशोकचन्द्रोऽपि पुरीं तां हलैर्युक्तरासभैः । खेटयित्वा क्षेत्रमिव स्वां प्रतिज्ञामपूरयत् ॥४०३।। ती| प्रतिज्ञां चम्पेशो दुस्तरामापगामिव । जगाम चम्पानगरीमुत्सवेन गरीयसा ॥४०४|| प[अन्यदा पावयन् पृथ्वी विहारेण जगद्गुरुः । जगाम चम्पां श्रीवीरस्तत्रैव समवासरत् ॥४०५।। श्रीवीरस्वामिनः पार्श्वे तत्र कालादिमातरः । विरक्ताः सूनुनिधनात् प्राव्रजञ्च्छ्रेणिकप्रियाः ॥४०६।। त्रैलोक्यसंशयच्छेदकारकं परमेश्वरम् । वन्दितुं तत्र समवसरणे कूणिकोऽप्यगात् ॥४०७।। नत्वा नाथं यथास्थानमुपविश्याऽथ कूणिकः । पप्रच्छ लब्धावसरः शिरस्यारचिताञ्जलिः ॥४०८।। आजन्माऽप्यपरित्यक्तकामभोगा भवन्ति ये । कां नाम ते गति यान्ति चक्रिणः परमेश्वर !? ॥४०९॥ स्वाम्याख्याते हि गच्छन्ति सप्तमी नरकावनिम् । पप्रच्छ कूणिको भूयो भाविनी मम का गतिः ? ॥४१०|| आचख्यौ भगवान् षष्ठी नरकोर्वी गमिष्यसि । कूणिकः स्माऽऽह किमहं न हि यास्यामि सप्तमीम् ? ॥४११।। भगवानप्युवाचैवं चक्रवत्र्येव न ह्यसि । सति धर्मिणि धर्मा हि चिन्त्यन्ते श्रेणिकात्मज ! ॥४१२।। अपृच्छत् कूणिकः किं न चक्रयहं परमेश्वर ! ? । ममापि चक्रितुल्याऽस्ति चतुरङ्गा वरूथिनी ॥४१३॥ स्वाम्यूचे तव रत्नानि चक्रादीनि न सन्ति भोः ! । विनैकेनापि रत्नेन चक्रभृन्नाम दुर्घटम् ॥४१४|| पातच्छ्रुत्वोत्थाय चम्पेशो महाऽहङ्कारपर्वतः । एकेन्द्रियाणि लौहानि महारत्नान्यकारयत् ॥४१५।। पद्मावती स स्त्रीरत्नं रत्नानीभादिकान्यपि । सोऽल्पधीः कल्पयामास मनोरथकदर्थितः ॥४१६।। साधयन् भरतक्षेत्रं कूणिकोऽसह्यविक्रमः । क्रमेण वैताढ्यगुहां तमिस्रामासदद् बलैः ॥४१७।। अनात्मज्ञः स उन्मत्त इव दुर्दैवदूषितः । गुहाद्वारकपाटानि दण्डेन त्रिरताडयत् ॥४१८|| कृतमालामर: प्रोचे तद्गुहाद्वाररक्षकः । मुमूर्षुः कोऽयमाहन्ति गुहाद्वारमनात्मवित् ? ॥४१९।। कूणिकोऽप्यवदत् किं मां जिगीषू वेत्सि नाऽऽगतम् ? । अशोकचन्द्रनामाऽहमुत्पन्नश्चक्रवर्त्यहो ! ॥४२०|| १. लोहघटितां पुत्तलिकाम् । २. अगाधजले । ३. मृत्योरभीतः सन् । ४. तत्त्रेधा० खं. १ । ५. ०स्तथैव खं. ४ । ६. सेना । ७. जेतुमिच्छुम् ।

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280