________________
१८० कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व पाअथ मृत्युश्रियमिव बद्ध्वाऽय:पुत्रिकां गले । चेटकोऽनशनं कृत्वाऽविक्षदस्ताघवारिणि ॥३९१॥ स मज्जन् धरणेन्द्रेण समीक्ष्य भवने निजे । निन्ये साधर्मिक इति मृत्यु ऽत्रुटितायुषाम् ॥३९२।। धरणेन श्रलाध्यमानधर्मध्यानो महामनाः । तस्थौ मृत्योरचकितश्चेटकः प्राग् रणादिव ॥३९३।।
अर्हत्सिद्धसाधुधर्मान्मङ्गल्यान्मङ्गलात्मनः । लोकोत्तमांश्च चतुरश्चतुरः सोऽस्मरत् स्वयम् ॥३९४|| पाजीवाजीवादितत्त्वोपदेशकाः परमेश्वराः । बोधिप्रदाः स्वयंबुद्धा अर्हन्तः शरणं मम ॥३९५।। ध्यानाग्निदग्धकर्माणस्तेजोरूपा अनश्वराः । अनन्तकेवलज्ञानाः सिद्धाश्च शरणं मम ॥३९६।। निरीहा निरहङ्कारा निर्ममाः समचेतसः । महाव्रतधरा धीराः साधवः शरणं मम ॥३९७॥ अहिंसा-सनताऽस्तेय-ब्रह्मा-5ऽकिञ्चनतामयः । केवल्यपज्ञः परमो धर्मश्च शरणं मम ॥३९८|| अपि जन्मशतैर्यद्यदपराद्धं शरीरिषु । त्रिविधं त्रिविधेनापि तन्निन्दामि समाहितः ॥३९९।। गृहिधर्मं द्वादशधा मया पालयता कृता । ये केचिदप्यतीचारास्तान् सर्वान् व्युत्सृजाम्यहम् ॥४००॥ क्रोध-मान-माया-लोभाभिभूतेन मया सदा । कृतं यद्यच्च हिंसाऽऽदि तत्त्रिधापि धिगस्तु मे ॥४०१॥
एवमाराधनां कृत्वा नमस्कारपरायणः । विपद्य चेटकः स्वर्गसुखभाजनतां ययौ ॥४०२।। १[अशोकचन्द्रोऽपि पुरीं तां हलैर्युक्तरासभैः । खेटयित्वा क्षेत्रमिव स्वां प्रतिज्ञामपूरयत् ॥४०३।।
ती| प्रतिज्ञां चम्पेशो दुस्तरामापगामिव । जगाम चम्पानगरीमुत्सवेन गरीयसा ॥४०४|| प[अन्यदा पावयन् पृथ्वी विहारेण जगद्गुरुः । जगाम चम्पां श्रीवीरस्तत्रैव समवासरत् ॥४०५।। श्रीवीरस्वामिनः पार्श्वे तत्र कालादिमातरः । विरक्ताः सूनुनिधनात् प्राव्रजञ्च्छ्रेणिकप्रियाः ॥४०६।। त्रैलोक्यसंशयच्छेदकारकं परमेश्वरम् । वन्दितुं तत्र समवसरणे कूणिकोऽप्यगात् ॥४०७।। नत्वा नाथं यथास्थानमुपविश्याऽथ कूणिकः । पप्रच्छ लब्धावसरः शिरस्यारचिताञ्जलिः ॥४०८।। आजन्माऽप्यपरित्यक्तकामभोगा भवन्ति ये । कां नाम ते गति यान्ति चक्रिणः परमेश्वर !? ॥४०९॥ स्वाम्याख्याते हि गच्छन्ति सप्तमी नरकावनिम् । पप्रच्छ कूणिको भूयो भाविनी मम का गतिः ? ॥४१०|| आचख्यौ भगवान् षष्ठी नरकोर्वी गमिष्यसि । कूणिकः स्माऽऽह किमहं न हि यास्यामि सप्तमीम् ? ॥४११।। भगवानप्युवाचैवं चक्रवत्र्येव न ह्यसि । सति धर्मिणि धर्मा हि चिन्त्यन्ते श्रेणिकात्मज ! ॥४१२।। अपृच्छत् कूणिकः किं न चक्रयहं परमेश्वर ! ? । ममापि चक्रितुल्याऽस्ति चतुरङ्गा वरूथिनी ॥४१३॥ स्वाम्यूचे तव रत्नानि चक्रादीनि न सन्ति भोः ! । विनैकेनापि रत्नेन चक्रभृन्नाम दुर्घटम् ॥४१४|| पातच्छ्रुत्वोत्थाय चम्पेशो महाऽहङ्कारपर्वतः । एकेन्द्रियाणि लौहानि महारत्नान्यकारयत् ॥४१५।। पद्मावती स स्त्रीरत्नं रत्नानीभादिकान्यपि । सोऽल्पधीः कल्पयामास मनोरथकदर्थितः ॥४१६।। साधयन् भरतक्षेत्रं कूणिकोऽसह्यविक्रमः । क्रमेण वैताढ्यगुहां तमिस्रामासदद् बलैः ॥४१७।। अनात्मज्ञः स उन्मत्त इव दुर्दैवदूषितः । गुहाद्वारकपाटानि दण्डेन त्रिरताडयत् ॥४१८|| कृतमालामर: प्रोचे तद्गुहाद्वाररक्षकः । मुमूर्षुः कोऽयमाहन्ति गुहाद्वारमनात्मवित् ? ॥४१९।।
कूणिकोऽप्यवदत् किं मां जिगीषू वेत्सि नाऽऽगतम् ? । अशोकचन्द्रनामाऽहमुत्पन्नश्चक्रवर्त्यहो ! ॥४२०|| १. लोहघटितां पुत्तलिकाम् । २. अगाधजले । ३. मृत्योरभीतः सन् । ४. तत्त्रेधा० खं. १ । ५. ०स्तथैव खं. ४ । ६. सेना । ७. जेतुमिच्छुम् ।