________________
१७९
द्वादशः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । उद्वर्तनादिकं तस्य तथा मागधिका व्यधात् । यथा तं कारयामास सर्वाङ्गस्पर्शमात्मनः ॥३६३।। उल्लाघः स शनैश्चकै तया शुश्रूषमाणया । चम्पकेनांऽशुकमिव तद्भक्त्या चाऽध्यवास्यत ॥३६४|| कटाक्षवीक्षणैस्तस्या अङ्गस्पर्शम॒दूक्तिभिः । मुनेस्तस्याऽचलच्चित्तं स्त्रीसङ्गे हि कियत्तपः ? ॥३६५।। पामुनेर्मागधिकायाश्च मिथः शय्यासनादिभिः । दम्पतिव्यवहारोऽभूदतिव्यक्तो दिने दिने ॥३६६।। निन्ये च मागधिकया चम्पायां कूलवालकः । नारीणां किङ्कर इव कामान्धः किं करोति न ? ॥३६७|| चम्पेशाय शशंसे च देवाऽयं कूलवालकः । पतीकृत्य मयाऽऽनीतः किं करोतु ? समादिश ॥३६८|| आदिदेश विशामीशोऽप्यादरात् कूलवालकम् । यथा भज्येत वैशाली मंक्षु भिक्षो ! तथा कुरु ॥३३९।। प्रतिश्रुत्य नृपादेशं धीनिधिः कूलवालकः । जगाम लिङ्गिरूपेण वैशालीमस्खलद्गतिः ॥३७०।।
चम्पानाथोऽपि तत्कालं वैशालीमखिलैर्बलैः । रुरोध रुद्धामग्रेऽपि जयप्रत्याशयोत्सुकः ॥३७१।। पाद्रव्याणि द्रष्टुमारेभे पुर्यां मागधिकापतिः । श्रीमुनिसुव्रतस्वामिस्तूपमेकं ददर्श च ॥३७२॥ सोऽचिन्तयच्च तं दृष्ट्वा प्रतिष्ठालग्नमस्य हि । बलीयस्तत्प्रभावेण निश्चितं पूर्न भज्यते ॥३७३॥ केनाप्यौपयिकेनेदं स्तूपमुत्थाप्यते यदि । तदा भज्येत वैशाली नाऽन्यथा वज्रिणाऽपि हि ॥३७४।। चिन्तयन्निति बभ्राम वैशाल्यां कूलवालकः । अपृच्छ्यत च तल्लोकैः पुरीरोधकदथितैः ॥३७५।। वयं भदन्त ! दान्ताः स्मः पुरीरोधेन विद्विषा । यदि वेत्सि तदाख्याहि कदोद्वेष्टो भविष्यति ? ॥३७६।। सोऽवदेद् वेम्यहं सम्यग् यावत् स्तूपमिहाऽस्त्यदः । नगर्यां तावदुद्वेष्टो न भविष्यति हे जनाः ! ॥३७७|| स्तूपेऽस्मिन् भज्यमानेऽपि भावी प्रत्यय एष वः । द्विट्सैन्यं वाद्धिवेलेवाऽकस्मादपसरिष्यति ॥३७८|| उत्कीलिते समन्तात्तु स्तूपे स्वस्त्यस्तु वो जनाः ! । कुलग्ने स्थापितमिदं मा मोहमिह यात भोः ! ॥३७९।। तं स्तूपं भक्तुमारेभे धूर्तधीवञ्चितो जनः । सुखप्रतार्यः प्रायेण सर्वोऽपि व्यसनादितः ॥३८०॥ भक्तुमारब्धमात्रेऽपि स्तूपे मागधिकापतिः । गत्वाऽपसारयामास द्विक्रोशीमथ कूणिकम् ॥३८१॥ उत्पन्नप्रत्ययो लोकस्तं स्तूपं कूपभेकधीः । कूर्मन्यासशिलां यावन्निर्मूलमुदमूलयत् ॥३८२।। बभञ्ज द्वादर्शाब्द्यन्ते वैशाली कूणिकस्ततः । स्तूपस्यैव प्रभावोऽभूत् पुरा हि दुरतिक्रमः ॥३८३॥ विरराम तदा चम्पावैशालीनाथयो रणः । एतस्यामवसर्पिण्यामीदृशो न कदाऽप्यभूत् ॥३८४|| भाणयामास वैशालीपतिं चम्पापतिस्तदा । आर्य ! चेटक ! पूज्योऽसि किं करोमि तव प्रियम् ? ॥३८५।।
चेटकोऽपि विषण्णात्मा कूणिकं प्रत्यभाणयत् । जयोत्सवोत्सुकोऽपि त्वं विलम्ब्य प्रविशेः पुरीम् ॥३८६।। दूतेन चेटकवचस्याख्याते कूणिकोऽपि हि । किं याचितमिति ह्रीणस्तथैव प्रत्यपद्यत ॥३८७।। पाइतश्च सत्यकिर्नाम सुज्येष्ठासूनभश्चरः । दौहित्रश्चेटकस्याऽऽगाच्चिन्तयामास चेति सः ॥३८८॥ मातामहप्रजामेतां लुण्ट्यमानामरातिभिः । कथं द्रक्ष्यामि तदिमां नयाम्यन्यत्र कुत्रचित् ॥३८९॥ इति तन्नगरीलोकं सर्वमुत्पाट्य विद्यया । निनाय नीलवत्यद्रौ लालयन् पुष्पदामवत् ॥३९०।।
१. चम्पकपुष्पेण वस्त्रं यथाऽधिवास्यते तथा । २. ०स्पर्शमृदू० मु., नू. मु. । ३. भिद्यते खं. ४ । ४. नगर्यास्ताव० खं. १-४, नू. मु. । ५. कूपमण्डूकबुद्धिः । ६. द्वादशाब्दान्ते खं. १ । ७. लज्जितः । ८. विद्याधरः । ९. नीलवंतनाम्नि पर्वते महाविदेह-रम्यकक्षेत्रमध्यवर्तिनि ।