________________
१७८
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[ दशमं पर्व
न कर्कशां न मधुरां गुरोः शिक्षाममंस्त सः । लघुकर्मणि शिष्ये हि प्रभवन्ति गुरोर्गिरः ||३३४ || q[विहरन्तोऽन्यदाऽऽचार्यास्ते गिरेर्नगरं ययुः । उज्जयन्तं चाऽऽरुरुहुः सह क्षुल्लेन तेन तु ॥ ३३५ ॥ क्षुल्लेन देवं वन्दित्वा गुरोरुत्तरतो गिरेः । मुमुचे गण्डपाषाणः पेषणाय दुरात्मना ||३३६|| श्रुत्वा खडखडाशब्दं गुरुराकुञ्चितेक्षणः । आलुलोके तमश्मानं पतन्तं पविगोलवत् ॥३३७|| चक्रे च वितते जङ्घे स ग्रावाऽपि तदन्तरे । निरियायाऽऽपदः प्रायः प्रभवन्ति न धीमति ॥ ३३८ ॥ शशाप च गुरुः क्षुल्लं कुपितस्तेन कर्मणा । स्त्रीसकाशादरे पाप ! व्रतभङ्गमवाप्स्यसि ॥३३९॥ क्षुल्लोऽब्रवीद् गुरो ! शापं करिष्यामि तवाऽन्यथा । तत्र वत्स्याम्यरण्येऽहं यत्र द्रक्ष्यामि न स्त्रियम् ॥३४०|| इति सद्यो गुरुं त्यक्त्वा मर्यादामिव दुर्मतिः । निर्मानुषामरण्यानीं स शार्दूल इवाऽविशत् ॥३४१॥ गिरिकूलङ्कषामूले स्थितः प्रतिमया सदा । स मासादर्धमासाद्वा पथिकादेरपारयत् ॥३४२॥ [एवं कूलङ्कषामूले मुनेस्तस्य तपस्यतः । प्रावृट् प्रादुर्बभूवाऽब्दवितानितनभस्तला ||३४३॥ रसोद्रेकेण लुम्पन्त्य उभे कूले कुले इव । नद्य उन्मार्गगामिन्यो बभूवुः कुलटा इव ॥ ३४४॥ क्षुल्लाधिष्ठितकूलायामुत्पूरायां सरित्यथ । दध्यौ तद्देवता भक्ता शासने श्रीमदर्हताम् ||३४५|| कूलस्थितो मुनिरयं कूलद्रुम इवाऽधुना । नेष्यते वारिपूरेण यद्युपेक्षां करोम्यहम् ||३४६|| ततो गिरिणदीदेव्या निजं कूलं दिशाऽन्यया । प्रावर्ति यत्र तत्रापि क्षेममेव तपोजुषाम् ॥३४७॥ कूलवालक इत्याख्या तदा तस्य मुनेरभूत् । साम्प्रतं वर्ततेऽमुत्र प्रदेशे स महातपाः ||३४८|| [[कृतकृत्येव सा सद्यः स्मयमानेक्षणा ययौ । कूलवालकविज्ञानात् फलितच्छद्मपादपा ॥३४९॥ वन्दमानाऽथ चैत्यानि तीर्थयात्राच्छलेन सा । तमुद्देशमुपेयाय यत्रर्षिः कूलवालकः ||३५०|| वन्दित्वा तं मुनिवरं सा मायाश्राविकाऽवदत् । उज्जयन्तादितीर्थानि वन्दयेऽहं मुने ! त्वया ||३५१|| कायोत्सर्गं मुनिर्मुक्त्वा धर्मलाभाशिषं ददौ । तीर्थान्यवन्दताऽपृच्छच्चाऽऽगताऽसि कुतः शुभे !? || ३५२।। साऽऽख्यन्महर्षे ! चम्पाया आगां तीर्थानि वन्दितुम् । तीर्थेभ्यः परमं तीर्थमिह यूयं च वन्दिताः || ३५३ || तदस्मदीयं पाथेयं भिक्षादोषविवर्जितम् । आदाय पारणं कृत्वा महर्षेऽनुगृहाण ! माम् ॥३५४॥ भक्तिभावनया तस्या मुनिरार्द्रमनाः स तु । जगाम भिक्षामादातुं तत्सार्थेऽनर्थसद्मनि ॥ ३५५॥ ददिरे च स्वयं तस्मै कूटश्राविकया तया । पुरा संयोजितद्रव्या मोदका मोदमानया ॥ ३५५॥ [[अभूत् प्राशितमात्रैस्तैर्मोदकैः सोऽतिसारकी । रसवीर्यविपाको हि द्रव्याणां जातु नान्यथा ||३५७|| अतिसारेण स ग्लानो महर्षिरभवत्तथा । संवरीतुं क्षीणबलो यथाऽङ्गान्यपि नाऽऽशकत् ॥३५८॥ तं च मागधिका प्रोचे समर्यस्मृतवैशिका । कृतपारणकोऽसि त्वं मदनुग्रहकाम्यया ॥ ३५९|| स्वामिन् ! मदीयपाथेयप्राशनादप्यनन्तरम् । प्राप्तोऽसि दुर्दशामेवं धिग्मां पापतरङ्गिणीम् ॥३६०॥ तत्त्वामेकाकिनं मुक्त्वा प्राप्तमेतावतीं दशाम् । न गन्तुमुत्सहेते में पादौ निगडिताविव ॥३६२॥ इत्युक्वा सा स्थिता तत्रोपससर्प क्षणे क्षणे । उद्वर्तयितुमङ्गानि प्रदातुं भेषजानि च ॥३६२॥
१. वज्रस्य गोलकं इव । २. गिरिनदीमूले । ३. फलितः छद्म-कपटरूपः पादपो यस्याः सा । ४. ०भावतया खं. २-४, मु. ५. अतिसारग्रस्तः । ६ समये स्मृतं वैशिकं यया सा ।