________________
द्वादशः सर्गः] श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
१७७ पाकुमारौ दध्यतुधिग्धिगावाभ्यां किमनुष्ठितम् ? । पशुत्वमावयोर्व्यक्तं न तु सेचनकः पशुः ॥३०६।। आर्यपादा यस्य कृते क्षिप्ता दुर्व्यसने चिरम् । तं स्वयं निधनं नीत्वा जीवावोऽद्यापि दुधियौ ! ॥३०७|| आर्यसैन्यस्य महतो नाशप्रतिभुवाविव । अकृष्वहि वृथा नाशं नीतो बन्धुरबन्धुताम् ॥३०८।। तन्नाऽद्य जीवितुं युक्तं जीवावश्चेदतः परम् । शिष्यीभूयाऽर्हतो वीरस्वामिनः खलु नान्यथा ॥३०९।। पातदा शासनदेव्या तौ भावश्रमणतां गतौ । नीतौ श्रीवीरपादान्ते परिवव्रजतुर्दृतम् ॥३१०॥ तदा च प्रव्रजितयोरपि हल्लविहल्लयोः । अशोकचन्द्रो वैशालीमादातुमशकन्न हि ॥३११।। एवं सति च चम्पेश: प्रतिज्ञामकृतेदृशीम् । प्रतिज्ञया पौरुषं हि दोष्मतां भृशमेधते ॥३१२।। न खनामि पुरीमेतां खरयुक्तहलेन चेत् । तदाऽहं भृगुपातेनाऽग्निप्रवेशेन वा म्रिये ॥३१३।। कृतसन्धोऽपि वैशाली पुरी भतुमनीश्वरः । खेदमासादयामास कूणिकः क्रमयोगतः ॥३१४|| तदा चाऽशोकचन्द्रस्य खिन्नस्य गगनस्थिता । देव्याख्यदीदृशं रुष्टा श्रमणे कूलवालके ॥३१५|| "गनियं चे मागधियं शमने कूलवालके । लमिज्ज कूणिए लाए तो वेशालि गहिस्सदि" ॥३१६।। आकाशदेवतावाचमिमामाकर्ण्य कूणिकः । बभाण सद्यः सञ्जातजयप्रत्याशयोच्छ्वसन् ॥३१७।। बालकानां हि भाषा या भाषा या योषितामपि । औत्पातिकी च भाषा या सा वै भवति नाऽन्यथा ॥३१८।। तत् क्वाऽस्ति श्रमणः कूलवालकः? प्राप्स्यते कथम् ? । पण्याङ्गना मागधिकाभिधाना विद्यते क्व वा? ॥३१९।। तच्छ्रुत्वा मन्त्रिणः प्रोचुस्तवैव पुरि विद्यते । वेश्या मागधिका देव ! न विद्मः कूलवालकम् ॥३२०॥ पातदैव मुक्त्वा सैन्यार्धं वैशालीरोधहेतवे । सैन्यार्धेन ययौ चम्पां चम्पापतिरिलापतिः ॥३२१।। पण्याङ्गनां मागधिकां मगधाधिपनन्दनः । आह्वास्त गतमात्रोऽपि त्वरितं वरमन्त्रिवत् ॥३२२।। आदिदेश च भद्रे ! त्वं धीमती त्वं कलावती । त्वया चाऽनेकपुंसां धीराजन्माऽप्युपजीविता ॥३२३।। सफलीकुरु मत्कार्ये तद् वैशिककलां निजाम् । रमयित्वा पतित्वेन श्रमणं कूलवालकम् ॥३२४|| करोम्येवमिति च सा प्रपेदाना मनस्विनी । चम्पानाथेन सच्चक्रे वस्त्रालङ्करणादिना ॥३२५॥ पाविसृष्टा च गृहं गत्वा विमृश्य च धियां निधिः । तदैव मूर्त्ता मायेव सा मायाश्राविकाऽभवत् ॥३२६।। सा गर्भश्राविकाप्राया गृहिधर्मं यथाविधि । अपि द्वादशधा लोके दर्शयामास सत्यवत् ॥३२७॥ चैत्यपूजादिनिरतां धर्मश्रवणतत्पराम् । ऋज्वाशयाश्च विविदुराचार्याः श्राविकेति ताम् ॥३२८॥ सान्यदाऽपृच्छदाचार्यान् कः साधुः कूलवालकः ? | तद्भावमविदन्तश्च कथयन्ति स्म तेऽप्यदः ॥३२९।। धर्मज्ञे ! पञ्चधाऽऽचारनिरतो मुनिपुङ्गवः । एकोऽस्ति तस्य च क्षुल्ल एकः कपिरिवाऽस्थिरः ॥३३०।। सामाचारीपरिभ्रष्टो वारणा-स्मारणादिभिः । नोद्यमानो याति रोषं स तु क्षुल्लोऽतिदुर्नयः ॥३३१॥ गुरुस्तु तस्य क्षुल्लस्य दुःश्रवामपि सादरः । आचारशिक्षा प्रददौ यदुक्तमिदमागमे ॥३३२॥ "परो रुष्यतु वा मा वा विषवत् प्रतिभातु वा । भाषितव्या हिता भाषा स्वपक्षगुणकारिणी" ॥३३३।।
१. नाशस्य साक्षिणौ । २. ०वालुके मु. । ३. गणियं खं. १ । ४. सम० खं. १-३ । ०मणे खं. १ । ५. कुलबा० मु. । ६. लमया खं. ३ । लभिज्ज नू. मु. । ७. ता खं. १ । ८. वेसा० खं. १ । ९. ०स्सिदि नू. मु. । १०. अनेकेषां पुरुषाणां सेवनेन तेभ्यो बुद्धिः संस्कृता तवेत्याशयः । ११. वेश्यायाः कलाम् ।