________________
१७६ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व अज्ञानसेवितेनापि वरुणस्य तु वर्मना । विपद्य तत्सुहृद् भूयो मनुष्यः सुकुलेऽभवत् ॥२७७|| विदेहेषु मनुष्यत्वं पुनरासाद्य सत्कुले । मुक्तिमार्ग समाराध्य स मोक्षपदमाप्स्यति ॥२७८।। पाहते च वसणेऽभूवंश्चेटकस्य चमूभटाः । युद्धाय द्विगुणोत्साहाः काण्डस्पृष्टवराहवत् ॥२७९॥ गणराजसनाथैस्तैश्चेटकस्य चमूभटैः । अकुट्टि कूणिकचमूर्दशद्भिरधरं रुषा ॥२८०॥ कुट्यमानं बलं दृष्ट्वा स्वकीयमथ कूणिकः । लोष्टाहतः सिंह इव क्रोधोद्धतमधावत ॥२८१।। सरसीव रणे क्रीडन् कूणिको वीरकुञ्जरः । दिशो दिशि परबलं पद्मखण्डमिवाऽक्षिपत् ॥२८२।।
कूणिकं दुर्जयं ज्ञात्वा चेटकोऽथाऽत्यमर्षणः । तं दिव्यं मार्गणं शौर्यधनो धनुषि सन्दधे ॥२८३।। पाइतश्च वज्रकवचं कूणिकस्य पुरो हरिः । व्यधत्त चमरेन्दस्तु पृष्ठे सन्नाहमायसम् ॥२८४।। चापमाकर्णमाकृष्य वैशालीपतिनाऽप्यथ । स मुक्तः सायको वज्रवर्मणा स्खलितोऽन्तरा ॥२८५।। अमोघस्यापि बाणस्य तस्य मोघत्वदर्शनात् । चमूभटाश्चेटकस्य पुण्यक्षयममंसत ॥२८६।। द्वितीयं नाऽमुचद् बाणं सत्यसन्धस्तु चेटकः । अपसृत्य द्वितीयस्मिन् दिने तद्वदयुध्यत ॥२८७।। तथैव मोघबाणोऽभूद् द्वितीयेऽयपि चेटकः । एवं दिने दिने युद्धमतिघोरमभूत्तयोः ॥२८८॥ लक्षाशीत्याऽधिका कोटिर्भटानां पक्षयोर्द्वयोः । विपेदे या सोदपादि तिर्यक्षु नरकेषु च ॥२८९॥ पानंष्ट्वा स्वस्वपुरं यात्सु गणराजेषु चेटकः । प्रणश्य प्राविशत् पुर्यां कूणिकोऽपि रुरोध ताम् ॥२९०|| तदा सेचनकारूढौ चम्पेशस्याऽखिलं बलम् । वीरौ हल्लविहल्लौ तौ रात्रावभिबभूवतुः ॥२९१।। न प्रहर्तुं नवा धर्तुं स हस्ती स्वप्नहस्तिवत् । केनाप्यशाकि चम्पेशशिबिरे सौप्तिकागतः ॥२९२।। मारयित्वा मारयित्वा निशि हल्लविहल्लयोः । क्षेमेण गच्छतोर्मन्त्रिमण्डली स्माऽऽह कूणिकः ॥२९३।। आभ्यां विद्रुतमस्माकं प्रायेण सकलं बलम् । तद् ब्रूत क इहोपायो जये हल्लविहल्लयोः ॥२९४|| मन्त्रिणोऽप्यूचिरे तौ हि जेतुं शक्यौ न केनचित् । अधिरूढौ हि यावत्तं हस्तिनं नरहस्तिनौ ॥२९५।। तस्मात्तस्यैव करिणो वधाय प्रयतामहे । खादिराङ्गारसम्पूर्णा कार्यतां पथि खातिका ॥२९६॥ छादयित्वा च वारीव दुर्लक्ष्या सा करिष्यते । तस्यां सेचनको वेगादभिधावन् पतिष्यति ॥२९७|| चम्पेशोऽकारयदथ खादिराङ्गारपूरिताम् । खातिकामुपरिच्छन्नां तदागमनवर्त्मनि ॥२९८।। पाअथ हल्लविहल्लावष्यवस्कन्दकृते निशि । निरीयतुः सेचनकाधिरूढौ जितकाशिनौ ॥२९९।।
अङ्गारखातिकोपान्तमेत्य सेचनकोऽपि हि । तां विभङ्गेन विज्ञाय तस्थौ यतममानयन् ॥३००। ततो हल्लविहल्लाभ्यामिति निभित्सितः करी । पशुरस्यकृतज्ञोऽसि कातरो यदभू रणात् ॥३०१।। विदेशगमनं बन्धुत्यागश्च त्वत्कृते कृतः । अस्मिन् दुर्व्यसने क्षिप्तस्त्वकृते ह्यायचेटकः ॥३०२।। वरं श्वा पोषितः श्रेयान् भक्तः स्वामिनि यः सदा । न तु त्वं प्राणवाल्लभ्याद्योऽस्मत्कार्यमुपेक्षसे ॥३०३।। इति निर्भत्सितो हस्ती कुमारौ निजपृष्ठतः । वेगादुत्तारयामास भक्तंमन्यो बलादपि ॥३०४॥ स्वयं तु तस्मिन्नङ्गारगर्ते झम्पां ददौ करी । सद्यो विपद्य चाऽऽद्यायामुत्पेदे नरकावनौ ॥३०५।।
१. काण्डं बाणः । २. कवचं लोहमयम् । ३. सत्यप्रतिज्ञः । ४. रात्रियुद्धागतः । ५. इवो० खं. १-३ । ६. वारी गजबन्धनी। ७. दुर्लक्षा खं. १-३ । ८. यात० मु. । अङ्कुशनिग्रहम् । ९. ०नयत् खंता. प्रतिषु ।