________________
१७५
द्वादशः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । ऊचाते तौ च देवेन्द्रासुरेन्द्रौ भोः ! किमिच्छसि ? । सोऽप्यूचे यदि तुष्टौ स्थश्चेटकस्तन्निहन्यताम् ॥२४९।। शक्रो भूयोऽप्यभाषिष्टाऽपरं किमपि याच्यताम् । साधर्मिक श्चेटको मे तं निहन्मि न जातुचित् ॥२५०|| तथापि देहरक्षां ते करिष्यामि महीपते ! । यथा न जीयसे तेन सोऽब्रवीदेवमस्त्विति ॥२५१।। पाचमरेन्द्रोऽप्यथ महाशिलाकण्टकमाहवम् । अन्यं च स्थमुसलं जैत्रं कर्तुममन्यत ॥२५२।।
आद्ये शिलासन्निभः स्यात् पतितः कर्करोऽपि हि । कण्टकोऽपि च जायेत महाशस्त्राधिकः खलु ॥२५३।। द्वितीये रथ-मुसले भ्राम्य॑तो भ्रमकं विना । परितः पिष्यते ताभ्यां वैरिसैन्यं रणोत्थितम् ॥२५४||
सुरेन्द्रश्चाऽसुरेन्द्रश्च नरेन्द्रश्चापि कूणिकः । ततस्त्रयो युयुधिरे सह चेटक सेनया ॥२५५॥ पापौत्रोऽथ नागरथिनो द्वादशव्रतपालकः । सम्यग्दृष्टिः षष्ठभोजी सदा भवविरक्तधीः ॥२५६।। राजाभियोगतः षष्ठभक्तान्तेऽपि कृताष्टमः । श्रीचेटकक्षितीशेन स्वयमत्यर्थमर्थितः ॥२५७।। संग्रामे रथमुसले दु:सहे तादृशेऽपि हि । प्राविशद्वस्गो नाम सेनानीः सत्यसङ्गरः ॥२५८।। (त्रिभिर्विशेषकम्) स चम्पापतिसेनान्यं रणहेतोः समाक्षिपन् । प्रससार महासारो रथेनाऽसह्यरंहसा ॥२५९॥ तौ संमुखीभूतरथौ डुढौकाते रणेच्छया । वैरायमाणौ भूमिष्ठभानु-स्वर्भाणुभीषणौ ॥२६०॥ चम्पापतेश्चमूनाथो वसणं रणमार्गणम् । प्रहर प्रहरेत्युच्चैर्व्याजहार पुरःस्थितम् ॥२६१।। वसणः स्माऽऽह हे दोष्मन् ! श्रावकस्यास्ति मे व्रतम् । अनिघ्नते न प्रहारं करवै वैरिणेऽपि हि ॥२६२।। साधु साधु महासत्त्वेत्युक्त्वा चम्पेशसैन्यपः । मुमोच बाणं वसगो विविधे तेन मर्मणि ॥२६३|| तत: कूणिकसेनान्यं वरुणोऽरुणलोचनः । एकेनैव प्रहारेण निनाय यमसद्मनि ॥२६४|| पागाढप्रहारविधुरो निःसृत्य वसगो रणात् । तृणसंस्तरमासूत्र्य निषयेदमचिन्तयत् ॥२६५।। सर्वात्मना शरीरेण स्वामिकार्यमनुष्ठितम् । इदानीमन्तकालो मे स्वार्थस्याऽवसरः खलु ॥२६६।। अर्हद्भट्टारकाः सर्वे सिद्धाः सर्वे च साधवः । केवल्युपज्ञो धर्मश्च भूयासुः शरणं मम ॥२६७।। क्षमयामि सर्वाञ्जीवान् सर्वे क्षाम्यन्तु ते मयि । मैत्री मे सर्वभूतेषु वैरं मम न केनचित् ।।२६८।। मामकीनं न किमपि न वाऽहमपि कस्यचित् । ममकारमकार्षं यं तमपि व्युत्सृजाम्यहम् ॥२६९।। कानि कानि न मूढोऽहं पापस्थानान्यसेविषि ? । तन्मिथ्या दुष्कृतं मेऽस्तु गतरागस्य संप्रति ॥२७०।। देवत्व-नृत्व-तिर्यक्त्व-नारकत्वेषु यन्मया । कृतं दुष्कर्म तद् गर्हे श्रीवीरोऽर्हन् गतिर्मम ॥२७१।।
एवमाराधनां कृत्वा प्रत्याचख्यौ चतुर्विधम् । आहारमथ दध्यौ च नमस्कारं समाहितः ॥२७२।। पातदा च वसणस्यैकः सुहृन्मिथ्याहगाहवात् । बहिर्भूत्वोपवसणमागत्यैवमवोचत ॥२७३|| वयस्य ! तव सौहार्दक्रीतोऽहमपि संप्रति । त्वदासेवितमध्वानं प्रपन्नोऽस्म्यविदन्नपि ॥२७४।। नमस्कारपरावर्ती धर्मध्यानपरायणः । समाधिमरणं प्राप्य सौधर्मे वसणो ययौ ॥२७५।। तद्विमानेऽसणाभाख्ये चतुःपल्योपमप्रमम् । पूरयित्वाऽऽयुरुत्पद्य विदेहेषु स सेत्स्यति ॥२७६।।
१. मुशलं मु., नू. मु. । २. भ्राम्यती भ्रमिकं मु. । ३. भूमिस्थितौ रवि-राहू । ४. ०स्वर्भानु० मु., नू. मु. । ५. सर्वान् सत्त्वान् खं. १ । ६. सौहार्दात् खं. १ ।