________________
१७४ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व अष्टादशानां प्रत्येकं राज्ञां बलमदोऽभवत् । तत्तुल्यसंख्यं नृपतेश्चेटकस्याऽप्यभूद् बलम् ॥२२१॥ स्वदेशसीम्नि गत्वाऽस्थाच्चेटकः सेनया तया । दुर्भेदं सागरव्यूह रचयामास चोच्चकैः ॥२२२।।
चम्पाधिपोऽपि तत्राऽऽगाच्चम्वा प्रागुक्तसंख्यया । चक्रे च गरुडव्यहमभेद्यं परसेनया ॥२२३।। पारणतूराणि घोराणि सैन्ययौरुभयोरपि । रोद:कुक्षिम्भरिध्वानान्यताड्यन्त सहस्रशः ॥२२४|| कीर्तिस्तम्भैरिवोत्तब्धैः खटीधवलितैः करैः । संशप्तकाश्च संचेरुईयोरपि हि सैन्ययोः ॥२२५।। कूणिकस्य बले कालः कुमारो बलनायकः । आदावपि प्रववृते योद्धं चेटकसेनया ॥२२६।। युयुधे सादिना सादी निषादी च निषादिना । रथी च रथिना पत्तिः पत्तिना च बलद्वये ॥२२७|| स्तम्बेरमैस्तरङ्गैश्च कुन्तघातनिपातितैः । अजायत तदा शैल-गण्डशैलवतीव भूः ॥२२८॥ रथैर्भग्नैर्हतैीरैः समरे रुधिराऽऽपगाः । सान्तरीपा इव साऽऽम्भोमानुषा इव चाऽऽबभुः ॥२२९॥ स्फुरद्भिरसिभिर्वीरकुञ्जराणां रणाजिरे । असिपत्रवनमिव प्रादुर्भूतमदृश्यत ॥२३०॥ असिच्छिन्नैरुच्छलद्भिर्वीराणां पाणिपङ्कजैः । कौणप्यः पूरयामासुरवतंसकुतूहलेम् ॥२३१।। स्वान् रुण्डानपि युद्धायाऽऽदिशन्त इव हुंकृतैः । पेतुर्भटानां मूर्धानः खड्गधाराभिराहताः ॥२३२।। पाइत्थं च सागरव्यूहं कालः पोत इवाऽम्बुधिम् । अवगाह्य ययौ पारमिव चेटकसन्निधिम् ॥२३३।। कालं कालमिवाऽकालेऽप्यायान्तं प्रेक्ष्य चेटकः । चिन्तयामास केनापि नैष वज्रमिवाऽस्खलि ॥२३४|| अभ्यापतन्तं तदिमं रणसागरमन्दरम् । क्षणादपि निगृह्णामि दैवतेन पतत्त्रिणा ॥२३५।। इति दिव्येषुणा वैरिप्राणसर्वस्वदस्युना । प्रहृत्य चेटकः कालं प्रापयामास पञ्चताम् ।।२३६।। तदा चाऽस्तमुपेयाय भास्वान् कालकुमारवत् । शुचेव चम्पेशबलं तमसा जग्रसे जगत् ॥२३७।। युद्धं विसृज्य चम्पेशबलं जाग्रदवास्थित । निद्रा ह्यभक्तभार्याणामिव वैरवतां कुतः ? ॥२३८॥
चेटकस्य पुनः सैन्ये वीरा वीरजयन्तिकाम् । कुर्वन्तो जयवादित्रवादनेनाऽत्यगुर्निशाम् ॥२३९।। पाचम्पानाथेनाऽभिषिक्त सेनानीत्वेऽपरेऽहनि । महाकालं कालमिव मारयामास चेटकः ॥२४०।।
अष्टौ सेनापतीनन्यानपि श्रेणिकनन्दनान् । एकैकमन्येकैकस्मिन् पूर्ववच्चेटकोऽवधीत् ॥२४१।। भातृष्वात्मसमानेषु कालादिषु दशस्वपि । चेटकेन हतेष्वेवं चम्पापतिरचिन्तयत् ॥२४२।। देवतायाः प्रसादेन जेतैकेनापि पत्रिणा । न ह्यायचेटको जय्यो मत्यै: कोटिमितैरपि ॥२४३।। प्रभावं चेटकस्याऽमुं मया हा ! धिगजानता । मयैव निधनं नीता देवाभा भ्रातरो दश ॥२४४|| बभूव या गतिस्तेषां भविष्यति ममापि सा । युज्यते नाऽपसर्तुं च दृष्टभ्रातृवधस्य मे ॥२४५।। तद्देवतां समाराध्य तत्प्रभावाज्जयाम्यरिम् । दिव्यः प्रभावो दिव्येन प्रभावेण हि बाध्यते ॥२४६।। पाउपायमिति निश्चित्य कृत्वा च हृदि देवताम् । तस्थावष्टमभक्तेन राजा श्रेणिकनन्दनः ॥२४७॥ पूर्वजन्मसङ्गतेन नुन्नौ तत्तपसापि च । शक्रश्च चमरेन्द्रश्च तत्कालं तमुपेयतुः ॥२४८॥
१. खेटी० मु. । २. खरैः मु., नू. मु. । ३. 'संशप्तकास्तु समयात् सङ्ग्रामादनिवर्तिनः'-युद्धक्षेत्रान्न प्रतिनिवर्तन्ते ये ते । ४. कौणपा: मु., नू. मु. । ५. ०कुतूहले खं. १ । राक्षस्यः स्वीयं अवतंस(धारण)कौतुकं वीराणामुच्छलद्भिः पाणिपङ्कजैः पूरितवत्यः । ६. छिन्नमस्तकानि शरीराणि । ७. देवप्रदत्तेन बाणेन । ८. मृत्युम् । ९. शोकेनेव । १०. न ह्ययं चे० खं. १ । ११. दिव्यप्र० खं. २-३, मु., नू. मु. ।