________________
द्वादशः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
१७३
हार-कुण्डल-वासोभिर्दिव्यैः सेचनकेन च । विना हि मत्पते राज्यं नेत्रहीनमिवाऽऽननम् ॥१९२।। ततो हल्लविहल्लाभ्यां तान्याहर्तुं कृताग्रहा । बभाण कूणिकं राज्ञी कूणिकोऽप्येवमभ्यधात् ॥१९३|| पितृदत्तं वस्त्वनयोर्नाऽऽहर्तुं युज्यते मम । विशेषेण प्रसादाविमौ ताते दिवं गते ॥१९४।। तस्याश्चाऽत्याग्रहाद् राजा मेने हारादियाचनम् । स्त्रीग्रह: खलु मत्कोटग्रहादपि विशिष्यते ॥१९५।।
अन्यस्मिंश्च दिने हल्लविहल्लौ पृथिवीपतिः । ययाचे त्यक्तसौभ्रात्रस्तद्धारादिचतुष्टयम् ॥१९६।। पाप्रमाणमादेश इति प्रतिपद्य गृहं गतौ । आ(अ)मन्त्रयेतां तावित्थं बुद्धिमन्तावुभावपि ॥१९७।। न शोभनोऽस्याऽभिप्रायः किमनेन प्रयोजनम् ? । प्रयावोऽन्यत्र कुत्रापि श्रियः सर्वत्र दोष्मताम् ॥१९८॥ इति निश्चित्य तौ सान्तःपुरौ सेचनकद्विपम् । हारादीन्यप्युपादाय वैशाल्यां निशि जग्मतुः ॥१९९॥ मातामहश्चेटकस्तौ परिरभ्य समागतौ । स्नेहेन प्रतिपत्त्या च ददर्श युवराजवत् ।।२००।। पावैशाल्यां च गतौ ज्ञात्वा तौ प्रतारितधूर्तवत् । हस्तविन्यस्तचिबुकश्चिन्तयामास कूणिकः ॥२०१॥ न मे हस्त्यादिरत्नानि न च तौ भ्रातरावपि । जातोऽहमुभयभ्रष्टः स्त्रीप्रधानतया खलु ॥२०२।। भवतु व्यसने प्राप्तेऽमुष्मिस्तौ नाऽऽनयामि चेत् । पराभवसहिष्णोर्मे वणिजश्च किमन्तरम् ? ॥२०३।।
अनुशिष्य ततो दूतं वैशाल्यामुपचेटकम् । प्रैषीद् भ्रात्रोर्मार्गणाय रत्नान्यादाय जग्मुषोः ॥२०४|| पादूतोऽपि पुर्यां वैशाल्यां गत्वा चेटकपर्षदि । प्रणम्य चेटकं स्थाने चाऽऽसित्वोचे ससौष्ठवः ॥२०५।। इह नंष्ट्वा समायातौ रत्नैः सह गजादिभिः । कुमारी हल्लविहल्लौ कूणिकस्य समर्पय ॥२०६।। अनर्पयन्निमौ राज्यभ्रंशमासादयिष्यसि । कीलिकार्थे देवकुलं न भ्रंशयितुमर्हसि ॥२०७|| चेटकोऽवोचदन्योऽपि नार्येत शरणागतः । दौहित्रौ किं पुनरिमौ विश्वस्तौ पुत्रवत् प्रियौ ? ॥२०८।। दूतोऽब्रवीच्छरण्यस्त्वं न ह्यर्पयसि चेदिमौ । तद्रत्नान्यनयोर्हत्वा राजन् ! मत्स्वामिनेऽर्पय ॥२०९॥ चेटकः स्माऽऽह धर्मोऽयं समानो राज-रङ्कयोः । अन्यस्य वित्तं न ह्यन्यो दातुमीशीत जातुचित् ॥२१०।। न प्रसह्य न वा साम्नाऽनयोर्गृह्णामि किञ्चन । धर्मपात्रं हि दौहित्रौ दानार्डों मे विशेषतः ॥२११।। दूतोऽप्यागत्य चम्पायां तां गिरं चेटकोदिताम् । आख्यत् स्वस्वामिनः क्रोधवह्निवात्यामनाकुलः ॥२१२।। पाकूणिकोऽपि हि तत्कालं जयभम्भामवीवदत् । सिंहा इव पराक्षेपं न सहन्ते महौजसः ॥२१३|| सैन्यान्यनन्यसामान्यतेजसस्तस्य भूपतेः । सद्यः सर्वाभिसारेण सज्जीभूयाऽवतस्थिरे ॥२१४|| कालादयः कुमाराश्च दशापि हि महाबलाः । पुरो बभूवुः संना सर्वसन्नहनेन ते ॥२१५॥ सहस्राणि त्रीणि गजास्तावन्तो वाजिनोऽपि हि । तावन्तश्च रथाः कोट्यस्तिस्रोऽपि च पदातयः ॥२१६।। तेषां दशानां प्रत्येकं कुमाराणामिदं बलम् । एतावत् कूणिकस्यापि प्रभुत्वं त्वतिरिच्यते ॥२१७|| (युग्मम्) सैन्येनैतावता गच्छंश्चम्पेशश्चेटकं प्रति । तिरयामास धरणिं तरणिं च रजोभरैः ॥२१८॥ पाचेटकोऽप्यमितैः सैन्यैः कूणिकायाऽभ्यषेणयत् । राजभिर्बद्धमुकुटैरष्टादशभिरावृतः ॥२१९।।
द्विपास्त्रीणि सहस्राणि तावन्तश्च तुरङ्गमाः । तावन्तश्च रथास्तिस्रः कोटयश्च पदातयः ॥२२०।। १. मन्यते मु., नू. मु. । २. 'मकोडो-मकोडो' । ३. त्यक्तं सौभ्रात्रं-सुभ्रातृता येन सः । ४. सेचनकं खं. १ । ५. शरणं गतः खं. १ । ६. क्रोधवह्नवृद्धौ वात्यां-वातसमूहं इव ।