________________
१७२ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व साक्षाद्दण्डधर इव लोहदण्डधरः पुरः । द्रुतमायाति ते सूनुर्न विद्मः किं करिष्यति ? ॥१६४|| पाश्रेणिकश्चिन्तयामास जिघांसु¥नमेष माम् । अन्यदाऽऽगात् कशाहस्तो दण्डहस्तोऽधुनैति तु ॥१६५।।
न वेद्मि मां कुमारेण मारयिष्यति केनचित् । तस्मादनागतेऽप्यस्मिन् मरणं शरणं मम ॥१६६॥ इति तालपुटविषं जिह्वाग्रे श्रेणिको ददौ । प्रस्थानस्था इवाऽग्रेऽपि तत्प्राणाश्च द्रुतं ययुः ॥१६७|| [आगाच्च कूणिको यावत् परासुं तावदग्रतः । ददर्श पितरं वक्ष आघ्नानः पूच्चकार च ॥१६८|| विललाप च हा ! तातपादाः ! कर्मभिरीदृशैः । अद्वैतीयीक एवैष पापोऽहमभवं भुवि ॥१६९।। क्षमयिष्याम्यहं तातपादानिति मनोरथः । यन्मे नाऽपूरि तत्पापतमोऽहमधुना पुनः ॥१७०॥ आस्तां प्रसादवचनं तिरस्कारवचोऽपि हि । त्वदीयं नाहमश्रौषमभूद् दुर्दैवमन्तरा ॥१७१।। भृगुपातेन शस्त्रेण वह्निना पयसाऽपि वा । तदात्मानं निगृह्णामि युक्तं मत्कर्मणो ह्यदः ॥१७२।। इति शोकामयग्रस्तो मुमूर्षुरपि कूणिकः । मन्त्रिभिर्बोधितोऽकार्षीच्छेणिकस्याऽङ्गसंस्कृतिम् ॥१७३|| पाशोकेन भूयसा राजयक्ष्मणेव दिने दिने । क्षीयमाणं नृपं प्रेक्ष्य मन्त्रिणोऽचिन्तयन्नदः ॥१७४|| नूनं विपत्स्यते शोकाद् राजा राज्यं च नंक्ष्यति । पितृभक्त्यपदेशेन तद्वयासङ्गोऽस्य सूत्र्यताम् ॥१७५॥ इति जीर्णे ताम्रपत्रेऽक्षराणि लिलिखुः स्वयम् । पिण्डादि दत्तं पुत्रेण मृतोऽपि लभते पिता ॥१७६।। अवाचयंश्च राज्ञोऽग्रे राजाऽपि हि पितुः स्वयम् । तद्वञ्चितोऽदात् पिण्डादि पिण्डदानं तदाद्यभूत् ॥१७७|| भुङ्क्ते पिता विपन्नोऽपि मद्दत्तमिति मूढधीः । राजा शोकं शनैरौज्झज्ज्वरीव रसविक्रियाम् ॥१७८॥ पितुः शय्याऽऽसनादीनि पश्यन्तं तु पुनः पुनः । सिंहावलोकनन्यायाच्छोकः कूणिकमभ्यगात् ॥१७९।। गुंडूचीस्तम्बवच्छोके प्रोन्मीलति मुहुर्मुहुः । राजा राजगृहे स्थातुमभूद् भृशमनीश्वरः ॥१८०॥ करिष्ये पुरमन्यत्रेत्यादिदेश विशांपतिः । शस्तभूशोधनायाथ वास्तुविद्याविशारदान् ॥१८१॥ पाते च वास्तुविदः शस्तां पश्यन्तः सर्वतो भुवम् । प्रदेशेऽद्राक्षुरेकत्र महान्तं चम्पकद्रुमम् ॥१८२॥ ऊचुश्च नायमुद्याने दृश्यते नेह सारिणिः । नायमाबालवलयी तथाऽप्यस्याऽद्भुता लिपिः ॥१८३।। अहो ! बहुलशाखत्वमहो ! पत्रलताऽद्भुता । अहो ! कुसुमसम्पत्तिरहो ! कुसुमसौरभम् ॥१८४।। अहो ! च्छायैकातपत्र्यमातपत्राभिभावुकम् । अहो ! विश्रामयोग्यत्वमहो ! सर्वं किमप्यदः ॥१८५।। निसर्गरमणीयोऽयं यथा श्रीधाम चम्पकः । तथाऽत्र नगरमपि भविष्यति न संशयः ॥१८६।। चम्पकेन श्रियः सत्यंकारेणैवोपशोभितम् । स्थानं पुरीनिवेशार्हं ते तथाऽऽख्यन्महीभुजे ॥१८७|| चम्पकस्याभिधानेन चम्पेति नगरी नृपः । वेगादकारयत् सिद्धिर्वचसा हि महीभुजाम् ॥१८८॥ ततश्च पुर्यां चम्पायां गत्वा सबलवाहनः । महीमिमां श्रेणिक सूर्भ्रातृभिः सहितोऽन्वशात् ॥१८९|| पाअथ सेचनकारूढौ दिव्यकुण्डलमण्डितौ । दिव्यहारांशुकधरौ भूगतौ स्वर्गिणाविव ॥१९०।।
अत्यद्भुतश्रियौ हल्लविहल्लौ निजदेवरौ । दृष्ट्वा पद्मावती दध्यौ स्वस्य स्त्रीत्वस्य सन्निभम् ॥१९१।।
१. यमः । २. केनापि वधप्रकारेण । ३. तालु० मु., नू. मु. । ४. क्षयरोगेण । ५. गडूची० मु., नू. मु. । ६. सारणि: मु., नू. मु. । वल्लिविशेषः जलप्रणाली वा । ७. आबालाद् वलयी । ८. उद्भेदः ।।