________________
१७१
द्वादशः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । चक्रे च नृपतिः सूनोर्जातकर्ममहोत्सवम् । याचकेभ्यो द्विजादिभ्यो ददद्दानं यथारुचि ॥१३८॥ उदायीति ददौ नाम तस्य सूनोश्च कूणिकः । उत्सवेनाऽतिमहता सुदिनीकुर्वता दिनम् ॥१३९।। प[अथोदायिकुमारोऽपि स्वर्णच्छायो दिने दिने । वृद्धि जगामोपवने शाखीवाऽऽरक्षकैर्वृतः ॥१४०|| तेन कट्यधिरूढेन कुमारेण निरन्तरम् । दधौ सालभञ्जीकस्तम्भशोभां महीपतिः ॥१४१॥ उल्लापयन् कुमारं तं लल्लमन्मनया गिरा । राजाऽपि वक्तुमजस्य शिशोः श्रियमशिश्रियेत् ॥१४२॥
आसने शयने याने भोजनेऽपि तमर्भकम् । न मुमोच कराद् राजा मङ्गल्यामिव मुद्रिकाम् ॥१४३।। पाआसाञ्चक्रेऽन्यदा भोक्तुं राजा श्रेणिकनन्दनः । वामोरुमस्तके न्यस्योदायिनं पुत्रवत्सलः ॥१४४॥ अर्धभुक्ते कूणिके च मूत्रयामास सोऽर्भकः । पपात सर्पिधरिव मूत्रधारा च भोजने ॥१४५।। सूनोर्मा वेगभङ्गो भूदिति श्रेणिकसूर्नृपः । न जातु चलयामास पुत्रवात्सल्यमीदृशम् ॥१४६।। मूत्रप्लावितमन्नं च स्वयमुत्सार्य पाणिना । तथैव बुभुजे पुत्रप्रेम्णैतदपि शर्मणे ॥१४७|| पप्रच्छ चेल्लणां तत्रोपविष्टामथ कूणिकः । मातरेवं सुतः प्रेयानभूत् कस्यचिदस्ति वा ? ॥१४८॥ चेल्लणाऽवोचदाः पाप ! नृखेट ! कुलपांसन ! । न जानासि यथाऽभूस्त्वं पितुरत्यन्तवल्लभः ॥१४९।। दुर्दोहदेन ज्ञातोऽसि पितुर्वैरी तदा मया । स्त्रीणामापन्नसत्त्वानां यथागर्भ हि दोहदाः ॥१५०।। गर्भस्थितमपि ज्ञात्वा त्वामरे ! पितृवैरिणम् । गर्भशातनमारम्भि मया पतिशिवेच्छया ॥१५१॥ तथापि न विलीनोऽसि तैस्तैः शाटौषधैरपि । किं तु प्रत्युत पुष्टोऽसि सर्वं पथ्यं बलीयसाम् ॥१५२।। तव पित्रा च मे तादृगप्यपूरि मनोरथः । कदा द्रक्ष्याम्यहं पुत्रवक्त्रमित्याशया भृशम् ॥१५३।। पितुर्वैरीति निश्चित्य त्वं जातोऽपि मयोज्झितः । आनीतोऽसि पुनः पित्रा यत्नात् स्वमिव जीवितम् ॥१५४|| तदा कुक्कुटिकापिच्छविबैका च तवाऽङ्गुलिः । कृमिपूयाकुलाऽत्यन्तमभूदरतिदायिनी ॥१५५।। त्वत्पिताऽधान्मुखे क्षिप्तां तादृशीमपि तेऽङ्गुलीम् । तावदेव सुखं तेऽभूद्यावद्वक्त्रान्तरङ्गुली ॥१५६।। एवं येनासि पित्रा त्वं रे दुर्ललित ! लालितः । कृते प्रतिकृतं तस्याऽकारि काराप्रवेशनम् ॥१५७।। पाकूणिकोऽप्यब्रवीन्मह्यं तात: किं गुडमोदकान् । प्रैषीद्धल्ल-विहल्लाभ्यां पुनः किं खण्डमोदकान् ? ॥१५८||
चेल्लणाऽऽख्यत् पितृद्वेषीत्यनिष्टस्त्वं ममाऽभवः । मयैव दापितास्तुभ्यं तन्मूढ ! गुडमोदकाः ॥१५९॥ कूणिकः स्माऽऽह धिग्धिङ् मामविमृश्यविधायिनम् । राज्यं न्यासार्पितमिवाऽर्पयिष्यामि पुनः पितुः ॥१६०|| इत्यर्धभुक्तेऽप्याचम्य धात्र्याः पुत्रं समर्प्य च । उदस्थात् कूणिकस्तातसमीपे गन्तुमुत्सुकः ॥१६१।। पितृपादेषु निगडान् भक्ष्यामीति विचिन्तयन् । लोहदण्डं गृहीत्वा सोऽभिश्रेणिकमधावत ॥१६२॥ पाउपश्रेणिक मादिष्टा यामिकाः पूर्वसंस्तुताः । दृष्ट्वा कूणिकमायान्तमिति व्याजहुराकुलाः ॥१६३|| १. मूर्च्छच्छायो खं. ४ । २. ०र्वृतैः खं. १ । ३. शालभञ्जिकाऽलङ्कृतो यः स्तम्भः तस्य शोभाम्, तादृशस्तम्भतुल्य: स: अशोभत । ४. ०मन्यस्य खं. १-३ । ५. राजाऽपि लल्लमन्मनया गिरा तं बालमुल्लापयन् वक्तुमज्ञस्य-वक्तुं अजानतः शिशोः श्रियं-अनुकृति अशिश्रियत्-अकरोत् । राजाऽपि तेन बालेन सह बाल इव सञ्जातः । ६. घृतधारातुल्या । ७. जानु चा० मु., नू. मु. । ८. ०मारेभे खं. १ । ९. शादौ० मु., नू. मु., खं. १-२-४ । १०. कुर्कु० खं. ३ । ११. ०ङ्गुलिम् मु., नू. मु. ।