________________
१७० कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व कुमारे कुत्रचिद्दोष्मत्यायुष्मति वपुष्मति । राज्यमारोपयिष्यामि क्रमो ह्येष महीभुजाम् ॥११०॥ सगुणो निर्गुणो वापि पुत्रोऽर्हः पितृसम्पदाम् । सगुणः स्याद्यदि तदा पुण्यं हि पितुरुज्ज्वलम् ॥१११।। विनाऽभयकुमारेण मनोविश्रामधाम मे । कूणिको गुणवानेष राज्यमर्हति नापरः ॥११२॥ निश्चित्य कूणिकं राज्ये सोऽदाद्धल्ल-विहल्लयोः । हारमष्टादशच(व)क्रं गजं सेचनकं च तम् ॥११३।। पाअत्रान्तरे कुमारोऽपि मन्त्रयामास कूणिकः । कालादिभिः स्वसदृशैर्दशभिर्धातृभिः सह ॥११४|| जरन्नपि पिताऽस्माकं राज्यस्य न हि तृप्यति । पुत्रे हि कवचहरे राज्ञोऽधिकुरुते व्रतम् ॥११५।। वरं वरीयानभयः श्रियमौज्झयुवाऽपि यः । न तु तातो विषयान्धः स्वां जरां यो न पश्यति ॥११६।। तदद्य पितरं बद्ध्वा राज्यं स्वसमयोचितम् । गृह्णीमो नाऽपवादोऽत्र विवेकविकलो हि सः ॥११७।। कृत्वैकादशधा राज्यं भ्रातरो भुज्महे वयम् । पिता तु बद्धस्तदनु जीवत्वब्दशतान्यपि ॥११८|| इति ते दुधियः सर्वे विश्वस्तं पितरं निजम् । बबन्धुदुरपत्यं हि गृहजातो विषद्रुमः ॥११९।। शुकवत् पञ्जरेऽक्षैप्सीत् कूणिकः श्रेणिकं ततः । विशेषोऽयं पुनर्भक्त-पाने अपि ददौ न हि ॥१२०।। पूर्वाह्ने चापराह्वे च कूणिकः पूर्ववैरतः । पितुः कशाघातशतं पापोऽदादनुवासरम् ॥१२१।। पाअधिसेहे श्रेणिकस्तां दुर्दशां दैवढौकिताम् । दन्तावल: समर्थोऽपि वारीबद्धः करोतु किम् ? ॥१२२॥ निकषा श्रेणिकं गन्तुं कूणिकोऽदान्न कस्यचित् । केवलं मातृदाक्षिण्याच्चेल्लणां न ह्यवारयत् ॥१२३॥ चेल्लणाऽपि प्रतिदिनं सुरया शतधौतया । सद्य:स्नातेवाऽऽर्द्रकेशीभूयोपश्रेणिकं ययौ ॥१२४|| कुल्माषपिण्डिकां चैकां केशान्तः पुष्पदामवत् । प्रक्षिप्य चेल्लणाऽनैषीत् पतिभक्ता तदन्तिके ॥१२५॥ पत्ये कुल्माषपिण्डी तां प्रच्छन्नां चेल्लणा ददौ । प्राप्य तामपि दुष्प्रापां स मेने दिव्यभोज्यवत् ॥१२६।। चकार श्रेणिकः प्राणयात्रां पिण्डिकया तया । बुभुक्षालक्षणो रोगो विनाऽन्नं खलु मृत्यवे ॥१२७|| शतधौतसुराबिन्दून् केशपाशाच्च चेल्लणा । अपातयत् पतिभक्ता सह नेत्राश्रुबिन्दुभिः ॥१२८।। श्रेणिकोऽपि सराबिन्दन पततः पिबति स्म तान् । चातको मेघमुक्ताम्बबिन्दुनिव पिपासितः ॥१२९॥ बिन्दुमात्रपीतयाऽपि श्रेणिक : सुरया तया । न विवेद कशाघातांस्तृषया नाऽप्यपीड्यत ॥१३०।। पाइत्थं च श्रेणिकं बद्ध्वा कुर्वतो राज्यमुत्कटम् । कूणिकस्य पद्मावत्यां पत्न्यां सूनुरजायत ॥१३१।। वर्धापिकास्तदाऽऽयाताः कूणिको दासचेटिकाः । वस्त्राभरणसंछन्नाश्चक्रे कल्पलतोपमाः ॥१३२॥ स्वयं चाऽन्तःपुरे गत्वा पाणिभ्यां पुत्रमाददे । अभात्तत्पाणिपद्मस्थः स पोतो हंसपोतवत् ॥१३३।। कूणिकस्तं सुतं पश्यन्नयनाम्भोजभास्करम् । उन्मुद्रपरमानन्दः श्रलोकमेवं तदाऽपठत् ॥१३४|| "अङ्गादङ्गात् सम्भवसि हृदयादभिजायसे । आत्मैव पुत्रनामाऽसि तज्जीव शरदां शतम् ॥१३५॥" भूयो भूयः पठन्नेवं विशश्राम न कूणिकः । तच्छ्लोकच्छद्मना हर्षं हृद्यमान्तं वमन्निव ॥१३६।। पाकुमारभृत्यादक्षाभिवृद्धस्त्रीभिरथाऽर्भकः । अमोच्यरिष्टशय्यायामादाय नृपतेः करात् ॥१३७।।
१. विश्वास० खं. १ । २. राजा हि कुस्ते खं. १ । ३. अत्र एवं करणे न अपवाद:-न लोकनिन्दा । ४. नु. खं. १। ५. गजः । ६. वारी तु गजबन्धनी । ७. शतवारं धौतया मदिरया । ८. आभा० मु. । ९. मेकं खं. १ । १०. पुत्र ! जातो. मु. । ११. ०भृत्यां मु., नू. मु. । कुमारभृत्यायां दक्षाभिरित्यर्थः । कुमारभृत्या-बालचिकित्सा ।