________________
द्वादशः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । तदैव मनउत्साहं निमित्तान्यपराण्यपि । ज्ञात्वा निश्चेष्यते राजा प्रतिमां हस्तगामिनीम् ॥८०|| ततो गुरुमनुज्ञाप्य नियोज्याऽऽयुक्तपूरुषान् । प्रारप्स्यते खानयितुं स्थलं वीतभयस्य तत् ॥८१।। सत्त्वेन तस्य परमार्हतस्य पृथिवीपतेः । करिष्यति च सांनिध्यं तदा शासनदेवता ॥८२॥ राज्ञः कुमारपालस्य तस्य पुण्येन भूयसा । खन्यमाने स्थले मंक्षु प्रतिमाऽऽविर्भविष्यति ॥८३।। तदा तस्यै प्रतिमायै यदुदायनभूभुजा । ग्रामाणां शासनं दत्तं तदप्याविर्भविष्यति ॥८४|| नृपायुक्तास्तां प्रतिमा प्रत्नामपि नवामिव । रथमारोपयिष्यन्ति पूजयित्वा यथाविधि ॥८५।। पूजाप्रकारेषु पथि जायमानेष्वनेकशः । क्रियमाणेष्वहोरात्रं सङ्गीतेषु निरन्तरम् ॥८६।। तालिकारासकेषूच्चैर्भवत्सु ग्रामयोषिताम् । पञ्चशब्देष्वातोद्येषु वाद्यमानेषु संमदात् ।।८७।। पक्षद्वये चामरेषूत्पतत्सु च पतत्सु च । नेष्यन्ति प्रतिमां तां चाऽऽयुक्ताः पत्तनसीमनि ॥८८॥ (त्रिभिर्विशेषकम्) सान्तःपुरपरीवारश्चतुरङ्गचमूवृतः । सकलं सङ्घमादाय राजा तामभियास्यति ॥८९॥ स्वयं रथात् समुत्तार्य गजेन्द्रमधिरोह्य च । प्रवेशयिष्यति पुरे प्रतिमां तां स भूपतिः ॥१०॥ उपस्वभवनं क्रीडाभवने संनिवेश्य ताम् । कुमारपालो विधिवत् त्रिसन्ध्यं पूजयिष्यति ॥९१॥ प्रतिमायास्तथा तस्या वाचयित्वा स शासनम् । उदायनेन यद्दत्तं तत् प्रमाणीकरिष्यति ॥९२।। प्रतिमायाः स्थापनार्थं तस्यास्तत्रैव पार्थिवः । प्रासादं स्फटिकमयममायः कारयिष्यति ॥९३।। प्रासादोऽष्टापदस्येव युवराजः स कारितः । जनयिष्यति सम्भाव्यो विस्मयं जगतोऽपि हि ॥९४|| स भूपतिः प्रतिमया तत्र स्थापितया तया । एधिष्यते प्रतापेन ऋद्धया निःश्रेयसेन च ॥९५॥ देवभक्त्या गुरुभक्त्या त्वत्पितुः सदृशोऽभय ! । कुमारपालो भूपालः स भविष्यति भारते ॥९६।। पाइति श्रुत्वा नमस्कृत्य भगवन्तमथाऽभयः । उपश्रेणिकमागत्य वक्तुमेवं प्रचक्रमे ॥९७|| भवामि तात ! राजा चेदृषिर्न स्यामहं तदा । श्रीवीरोऽन्तिमराजर्षि यदशंसदुदायनम् ॥९८॥ श्रीवीरं स्वामिनं प्राप्य प्राप्य त्वत्पुत्रतामपि । नोच्छेत्स्ये भवदु:खं चेन्मत्तः कोऽन्योऽधमस्ततः ? ॥९९॥ नाम्नाऽहमभयस्तात ! सभयोऽस्मि भवात् पुनः । भुवनाभयदं वीरं तच्छ्यामि समादिश ॥१००|| तदलं मम राज्येनाऽभिमानसुखहेतुना । यतः सन्तोषसाराणि सौख्यान्याहुमहर्षयः ॥१०१।। पानिर्बन्धादुच्यमानोऽपि न यदा राज्यमग्रहीत् । तदाऽभयो व्रतायाऽनुजज्ञे राज्ञा प्रमोदतः ॥१०२।। राज्यं तृणमिव त्यक्त्वा सन्तोषसुखसद्म सः । दीक्षां चरमतीर्थेशवीरपादान्तिकेऽग्रहीत् ॥१०३।। आत्तव्रते सत्यभयेऽनुज्ञाप्य श्रेणिकं नृपम् । श्रीमहावीरपादान्ते नन्दाऽपि व्रतमग्रहीत् ॥१०४|| परिव्रजन्त्याऽन्वभयं नन्दया कुण्डलद्वयम् । क्षौमद्वयं च तद्दिव्यं दत्तं हल्ल-विहल्लयोः ॥१०५।। पाभव्यानां प्रतिबोधाय ततश्च भगवानपि । सुरासुरैः सेव्यमानो विजहार वसुन्धराम् ॥१०६।।
विविधाभिग्रहपूर्वं पालयित्वा चिरं व्रतम् । मृत्वा सर्वार्थसिद्धेऽभूदभयः प्रवरः सुरः ॥१०७|| पातदा श्रीवीरपादाब्जमूले प्रव्रजितेऽभये । इति संचिन्तयामास शुद्धधीर्मगधाधिपः ॥१०८।।
अभयो हि कुमारेषु समस्तगुणभूरभूत् । व्रतमादाय सुकृती स तु स्वार्थमसाधयत् ॥१०९।। १. ०मानस्थले मु. । २. चेद् यतिन मु. । ३. ०न्त्या त्व० मु., नू. मु. ।