________________
१६८
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व
प[अन्यदा वज्रशाखायां मुनिचन्द्रकुलोद्भवम् । आचार्य हेमचन्द्रं स द्रक्ष्यति क्षितिनायकः ॥५३॥ तद्दर्शनात् प्रमुदितः केकीवाऽम्बुददर्शनात् । तं मुनि वन्दितुं नित्यं स भद्रात्मा त्वरिष्यते ॥५४|| तस्य सूरेजिनचैत्ये कुर्वतो धर्मदेशनाम् । राजा सश्रावकामात्यो वन्दनाय गमिष्यति ॥५५॥ तत्र देवं नमस्कृत्य स तत्त्वमविदन्नपि । वन्दिष्यते तमाचार्यं भावशुद्धेन चेतसा ॥५६।। स श्रुत्वा तन्मुखात् प्रीत्या विशुद्धां धर्मदेशनाम् । अणुव्रतानि सम्यक्त्वपूर्वकाणि प्रपत्स्यते ॥५७।। पास प्राप्तबोधो भविता श्रावकाचारपारगः । आस्थानेऽपि स्थितो धर्मगोष्ठ्या स्वं रमयिष्यति ॥५८||
अन्न-शाक-फलादीनां नियमांश्च विशेषतः । आदास्यते प्रत्यहं स प्रायेण ब्रह्मचर्यकृत् ॥५९।। साधारणस्त्रीन परं स सुधीर्वर्जयिष्यति । धर्मपत्नीरपि ब्रह्म चरितुं बोधयिष्यति ॥६०|| मुनेस्तस्योपदेशेन जीवाजीवादितत्त्ववित् । आचार्य इव सोऽन्येषामपि बोधि प्रदास्यति ॥६१।। येऽर्हद्धर्मद्विषः केऽपि पाण्डुराङ्गद्विजादयः । तेऽपि तस्याऽऽज्ञया गर्भश्रावका इव भाविनः ॥६२।। अपूजितेषु चैत्येषु गुरुष्वप्रणतेषु च । न भोक्ष्यते स धर्मज्ञः प्रपन्नश्रावकव्रतः ॥६३|| अपुत्रमृतपुंसां स द्रविणं न ग्रहीष्यति । विवेकस्य फलं ह्येतदतृप्ता ह्यविवेकिनः ॥६४|| पाण्डुप्रभृतिभिरपि या त्यक्ता मृगया न हि । स स्वयं त्यक्ष्यति जनः सर्वोऽपि च तदाज्ञया ॥६५॥ हिंसानिषेधके तस्मिन् दूरेऽस्तु मृगयाऽऽदिकम् । अपि मत्कुटयूकादीन्नाऽन्त्यजोऽपि हनिष्यति ॥६६॥ तस्मिन्निषिद्धपापर्धावरण्ये मृगजातयः । सदाप्यविघ्नरोमन्था भाविन्यो गोष्ठधेनुवत् ॥६७॥ जलचर-स्थलचर-खचराणां स देहिनाम् । रक्षिष्यति सदा मारिं शासने पाकशासनः ॥६८।। ये चाऽऽजन्मापि मांसादास्ते मांसस्य कथामपि । दुःस्वप्नमिव तस्याऽऽज्ञावशान्नेष्यन्ति विस्मृतिम् ॥६९।। दशाहन परित्यक्तं यत्पुरा श्रावकैरपि । तन्मद्यमनवद्यात्मा स सर्वत्र निरोत्स्यति ॥७०॥ स तथा मद्यसन्धानं निरोत्स्यति महीतले । न यथा मद्यभाण्डानि घटयिष्यति चयपि ॥७१।। मद्यपानां सदा मद्यव्यसनक्षीणसम्पदाम् । तदाज्ञात्यक्तमद्यानां प्रभविष्यन्ति सम्पदः ॥७२॥ नलादिभिरपि मापै—तं त्यक्तं न यत्पुरा । तस्य स्ववैरिण इव नामाऽप्युन्मूलयिष्यति ॥७३॥ पारापतपणक्रीडा-कुक्कुटायोधनान्यपि । न भविष्यन्ति मेदिन्यां तस्योदयिनि शासने ॥७४|| पास प्रायेण प्रतिग्राममपि नि:सीमवैभवः । करिष्यति महीमेतां जिनायतनमण्डिताम् ॥७५।। प्रतिग्रामं प्रतिपुरमासमुद्रं महीतले । रथयात्रोत्सवं सोऽर्हत्प्रतिमानां करिष्यति ॥७६।। दायं दायं द्रविणानि विरचय्याऽनृणं जगत् । अङ्कयिष्यति मेदिन्यां स संवत्सरमात्मनः ॥७७|| प्रतिमां पांशुगुप्तां तां कपिलर्षिप्रतिष्ठिताम् । एकदा श्रोष्यति कथाप्रसङ्गे स गुरोर्मुखात् ॥७८।। पांशुस्थलं खानयित्वा प्रतिमा विश्वपावनीम् । आनेष्यामीति स तदा करिष्यति मनोरथम् ॥७९॥
१. आचार्यहेम० खं. १-३ । २. त्वरिष्यति खं. १ । ३. वेश्याः । ४. पाण्डुराह्व० मु., नू. मु., खं. २ । पाण्डुराग० खं. ४। ५. मत्कुण० नू. मु. । ६. ०यूकादि ना० खं. २, ४, मु., नू. मु. । ७. पापद्धिः मृगया । ८. रोमन्थश्चर्वितचर्वणम् । ९. इन्द्रः । १०. वसुदेव-समुद्रविजयादयो दशार्हाः । ११. चक्री कुम्भकारः । १२. तस्योदयति खं. ३ । १३. ०प्रसङ्गेण गु० खं. ३ । १४. सुगुरो० खं. १ ।