________________
१६७
द्वादशः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । मयि सत्यपि भक्तेऽपि पुत्रे राज्याधिकारिणि । ततोऽदात् केशिने राज्यं राज्यर्णमिव धारयन् ॥२७|| विवेको मत्पितुः कोऽयं भगिनीनन्दनाय यत् । केशिनेऽदाददो राज्यं हन्त काराधिकारिणे ? ॥२८॥ तातः प्रभुर्मे स स्वैरं यदिच्छति करोतु तत् । केशिनोऽद्य कथं सेवां करिष्ये ? तत्सुतोऽस्मि हि ! ॥२९॥ इति पित्राऽभिभूतः सोऽभिगमिष्यति कूणिकम् । अभिमानवतां श्रेयान् विदेशो हि पराभवे ॥३०॥ पाअथ मातृष्वसेयेन कूणिकेन सगौरवम् । वीक्ष्यमाणः सदाऽभीचिः सुखं स्थास्यति तत्र च ॥३१॥ श्रमणोपासकः सम्यग् जीवाजीवादितत्त्ववित् । अभीचिः श्रावकधर्मं यथावत् पालयिष्यति ॥३२॥ गहिधर्मं समा बह्वीः पालयन्नप्यखण्डितम् । पराभवं स्मरन् वैरं न स हास्यत्यदायने ॥३३।। कृत्वा संलेखनां सम्यक् पाक्षिकानशनेन सः । पितृवैरमनालोच्य मृत्वा भाव्यसुरोत्तमः ॥३४॥ एवं पल्योपमं तत्र परिपाल्याऽऽयुरात्मनेः । महाविदेहेषूत्पद्याऽभीचिजीवः शिवङ्गमी ॥३५।। पापृच्छति स्माऽभयोऽथैवं कपिलर्षिप्रतिष्ठिता । प्रकाशमेष्यति कदा प्रतिमा परमेश्वर ! ? ॥३६।। स्वाम्याख्याति स्म सौराष्ट्र-लाट-गुर्जरसीमनि । क्रमेण नगरं भावि नाम्नाऽणहिलपाटकम् ॥३७|| आर्यभूमेः शिरोरत्नं कल्याणानां निकेतनम् । एकातपत्रार्हद्धर्मं तद्धि तीर्थं भविष्यति ॥३८॥ चैत्येषु रत्नमय्योऽर्हत्प्रतिमास्तत्र निर्मलाः । नन्दीश्वरादिप्रतिमाकथां नेष्यन्ति सत्यताम् ॥३९॥ भासुरस्वर्णकलशश्रेण्यलङ्कतमौलिभिः । रोचिष्यते च तच्चेत्यैर्विश्रान्ततपनैरिव ॥४०॥ श्रमणोपासकस्तत्र प्रायेण सकलो जनः । कृतातिथिसंविभागो भोजनाय यतिष्यते ॥४१॥ परसम्पद्यनीर्ष्यालुः सन्तुष्टश्च स्वसम्पदा । पात्रेषु दानशीलश्च तत्र लोको भविष्यति ॥४२॥ श्राद्धाश्च धनिनस्तत्राऽलकायामिव गुह्यकाः । वप्स्यन्ति द्रविणं सप्तक्षेत्र्यामत्यन्तमार्हताः ॥४३|| परस्व-परदारेषु सर्वः कोऽपि पराङ्मुखः । भावी तस्मिन् पुरे लोकः सुषमाकालभूरिव ॥४४|| अस्मन्निर्वाणतो वर्षशतान्यभय ! षोडश । नवषष्टिश्च यास्यन्ति यदा तत्र पुरे तदा ॥४५।। कुमारपालो भूपालश्चौलुक्यकुलचन्द्रमाः । भविष्यति महाबाहुः प्रचण्डाखण्डशासनः ॥४६॥ स महात्मा धर्म-दान-युद्धवीरः प्रजां निजाम् । ऋद्धिं नेष्यति परमां पितेव परिपालयन् ॥४७॥ ऋजुरप्यतिचतुरः शान्तोऽप्याज्ञादिवस्पतिः । क्षमावानप्यधृष्यश्च स चिरं मामविष्यति ॥४८|| स आत्मसदृशं लोकं धर्मनिष्ठं करिष्यति । विद्यापूर्णमुपाध्याय इवाऽन्तेवासिनं हितः ॥४९॥ शरण्यः शरणेच्छूनां परनारीसहोदरः । प्राणेभ्योऽपि धनेभ्योऽपि स धर्मं बहु मंस्यते ॥५०॥ पराक्रमेण धर्मेण दानेन दययाऽऽज्ञया । अन्यैश्च पूरुषगुणैः सोऽद्वितीयो भविष्यति ॥५१॥ स कौबेरीमातुरुष्कमैन्द्रीमात्रिदशापगम् । याम्यामाविन्ध्यमावाधि पश्चिमां साधयिष्यति ॥५२॥
१. राज्यं ऋणतया केशिने देयमिव । २. कारागृहपात्राय । ३. तत् स्वैरं मु. । ४. विदेशोऽपि खं. १ । ५. बहुवर्षपर्यन्तम् । ६. पारमेश्वरी मु. । ७. ०णहिल्ल० खं. ३ । ८. विश्रान्तस्तपनो येषु ते, तैः । ९. अलका कुबेरस्य पुरी, तत्र यक्षा इव । १०. सप्त क्षेत्राणि जैनानामिमानि-जिनबिम्बं, जिनचैत्यं, जिनागमः, साधुः, साध्वी, श्रावकः, श्राविका । ११. सर्वको० खं. १-३ । १२. सुखमयः कालः-द्वितीयोऽरकः, तत्र जात इव, । १३. आज्ञया इन्द्र इव । १४. सद्धर्मं खं. १ । १५. पुरुष० खं. १ विना, मु., नू. मु. । १६. तुरुष्कदेशपर्यन्तं कौबेरीमुत्तरदिशम् । १७. गङ्गानन्दीपर्यन्तमैन्द्रीं पूर्वदिशम् । १८. विन्ध्याचलपर्यन्तं याम्यां दक्षिणदिशम् । १९. समुद्रपर्यन्तम् ।