________________
१६६
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं ॥ अथ द्वादशः सर्गः ॥
[ दशमं पर्व
अपृच्छदभयो भूयः प्रणम्य परमेश्वरम् । उदायनस्य राजर्षेः क उदर्को भविष्यति ? ॥१॥ प्रकृष्टतीर्थकृत्कर्मनिर्जरानिरतस्ततः । कथयामास भगवानिति श्रीज्ञातनन्दनः ॥२॥ एकदोदायनमुनेः पृथ्व्यां विहरतः सतः । उत्पत्स्यते महाव्याधिरकालापथ्यभोजनैः ||३|| अनवद्याशयैर्वैद्यैः सोऽन्यदा वक्ष्यते मुनिः । भुङ्क्ष्व देहनिरीहोऽपि गुणरत्नोदधे ! दधि ||४|| विहरिष्यत्यथो गोष्ठेषूदायनमहामुनिः । सुलभा दधिभिक्षा हि तेत्र दोषविवर्जिता ॥५॥ [अन्यदोदायनो वीतभयं यास्यति पत्तनम् । भूभुजा भागिनेयेन केशिना समधिष्ठितम् ॥६॥ ज्ञात्वोदायनमायातं केश्यमात्यैर्भणिष्यते । निर्विण्णस्तपसामेष नियतं तव मातुलः ॥७॥ ऋद्धं राज्यं ह्यैन्द्रपदं तत्त्यक्त्वाऽनुशयं दधत् । नूनं राज्यार्थमेवाऽऽगाद्विश्वसीम स्म सर्वथा ॥८॥ केशी वक्ष्यत्यसौ राज्यं गृह्णात्वद्यापि कोऽस्म्यहम् ? । गोपालस्य हि कः कोपो धनं गृह्णाति चेद्धनी ? ॥९॥ वक्ष्यन्ति मन्त्रिणः पुण्यैस्तव राज्यमुपस्थितम् । प्रदत्तं न हि केनापि राजधर्मोऽपि दृशः ॥१०॥ पितृर्भ्रातुर्मातुलाद्वा सुहृदो वाऽपरादपि । प्रसह्याऽप्याहरेद् राज्यं तद्दत्तं को हि मुञ्चति ? ॥११॥ [[तैरेवमुदितोऽत्यर्थं त्यक्त्वा भक्तिमुदायने । केशी प्रक्ष्यति किं कार्यं ? दापयिष्यन्ति ते विषम् ॥१२॥ विषेण संस्कृत्य दधि पशुपालिकयैकया । केशी दापयिता तस्मै परप्रेर्यस्य का मतिः ? ॥१३॥ तद्विषं देवता हृत्वा मुनिमेवं भणिष्यति । सविषो दधिलाभस्ते मा कृथास्तद्दधिस्पृहाम् ॥१४॥ ततः परिहृते दध्नि रोगो वर्धिष्यते मुनेः । व्याधयो हि विजृम्भन्ते छलमासाद्य भूतवत् ॥१५॥ रोगनिग्रहणार्थं स पुनरादास्यते दधि । विषापहारं त्रीन् वारान् देवता सा करिष्यति ॥१६॥ [[अन्यदा तु प्रमादेन तद्विषं देवताऽपि सा । न हरिष्यत्यथ मुनिः सविषं दधि सोऽत्स्यति ॥१७॥ ततश्चैतन्यचौरीभिर्विषवीचीभिरात्मनः । ज्ञातावसानोऽनशनं महर्षिः स प्रपत्स्यते ॥१८॥ त्रिंशद्दिनीमनशनं पालयित्वा समाधिना । उत्पन्नकेवलज्ञानो विपद्य शिवमेष्यति ||१९|| q[उदायने शिवगते देवता पुनरेयुषी । ज्ञात्वा तादृक्कालरात्रिरिव कोपमुपैष्यति ||२०|| कोपाच्च सा वीतभयं पूरयिष्यति पांशुभिः । तदादि पांशुवृष्टि च करिष्यति निरन्तरम् ॥२१॥ तदैव प्रतिमा साऽपि कपिलर्षिप्रतिष्ठिता । भविष्यति महाभाग ! निधानमिव भूगता ॥२२॥ शय्यातरं कुम्भकारमुदायनमहामुनेः । अनागसं ततो हर्त्री देवता पांशुवर्षिणी ||२३|| सिनपल्ल्यांच तं नीत्वा तन्नाम्नैव हि देवता । कुम्भकारकृतमिति तत्र स्थानं करिष्यति ॥२४॥ [[पुनरप्यभयोऽपृच्छत् प्रणम्य परमेश्वरम् । उदायनकुमारस्याऽभीचेः का भाविनी गतिः ? ॥२५॥ स्वाम्याख्यत् केशिने राज्यं प्रदत्तवति वैप्तरि । स हि प्रभावतीसूनुरभीचिश्चिन्तयिष्यति ॥२६॥
१. भाविनि परिणतिः । २. तव खं. ४ । ३. ०मायान्तं खं. १ । ४. पश्चात्तापम् । ५. विश्वासं मा कुरुष्व । ६. राज्य० खं. १ । ७. गतिः खं. १, ३ । ८. भोत्स्यति खं. १ ३ । ९. ०वीचि० खं. १ । १०. ०मुपे० मु., नू. मु. । ११. वप्ता -पिता 'बापा, बाप' इति भाषायाम् ।