________________
एकादशः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । विद्युन्मालिकृतायै च प्रतिमायै महीपतिः । प्रददौ द्वादश ग्रामसहस्रान् शासनेन सः ॥६०६।।
अत्रान्तरे वीतभयस्थितं नृपमुदायनम् । एत्य प्रभावतीदेवः स्नेहेन प्रत्यबोधयत् ॥६०७॥ पाइहापि याऽस्ति प्रतिमा जीवन्तस्वामिनो नवा । सापि राजन्नसामान्यप्रभावात्तीर्थमुत्तमम् ॥६०८॥ ब्रह्मर्षिणा केवलिना कपिलेन महात्मना । श्वेताम्बरेण प्रतिमा ह्यसौ राजन् ! प्रतिष्ठिता ॥६०९।। अग्रेतेनीव प्रतिमा प्रतिमेयमपि त्वया । पूज्याऽथ सर्वविरतिरपि ग्राह्या महाफला ॥६१०॥ उदायनोऽपि तद्वाचं प्रतिपेदे तथैव ताम् । तन्मनःकदलीमेघः स देवोऽपि तिरोदधे ॥६११।। पाततश्चान्येधुरुधुक्तो धर्मे राजाऽप्युदायनः । जग्राह पौषधौकस्थ: पाक्षिकं पौषधव्रतम् ॥६१२।। रात्रिजागरणे तस्य शुभध्यानेन तस्थुषः । ईदृगध्यवसायोऽभूद्विवेकस्य सहोदरः ॥६१३।। धन्यास्ते नगरग्रामा ये श्रीवीरेण पाविताः । राजादयोऽपि ते धन्या यैर्धर्मोऽश्रावि तन्मुखात् ॥६१४|| तत्पादपद्मसान्निध्यात् प्रतिबोधमवाप्य ये । गृहिधर्मं द्वादशधा शिश्रियुः कृतिनो हि ते ॥६१५।। तत्प्रसादाच्च ये सर्वविरति प्रतिपेदिरे । ते श्रलाघ्या वन्दनीयास्ते तेभ्यो नित्यं नमो नमः ॥६१६।। स्वामी वीतभयमपि विहारेण पुनाति चेत् । तत्पादमूले प्रव्रज्यामादाय स्यां तदा कृती ॥६१७।। पावयं चाऽभय ! तज्ज्ञात्वा तदनुग्रहकाम्यया । चम्पापुर्याः प्रचलिताः समवासाम॑ तत्पुरे ॥६१८।। अस्मान् प्रणम्य श्रुत्वा च देशनां गतवान् गृहे । एवं स चिन्तयामास स्वविवेकगुणोचितम् ॥६१९।। सूनवेऽभीचये राज्यं व्रतेच्छुश्चेद्ददाम्यहम् । संसारनाटकनटस्तन्मयैष कृतो भवेत् ॥६२०।। उशन्ति नरकान्तं हि राज्यं नीतिविदोऽपि च । तत्सूनवे न दास्येऽहं दास्ये चेत्तन्न तद्धितः ॥६२१।। इति केशिनि जामेये राज्यश्रियमुदायनः । सद्यः संक्रमयामास तेजोऽर्क इव पावके ॥६२२।। जीवन्तस्वामिदेवाय पूजार्थमथ पार्थिवः । शासनेन ददौ भूरि ग्रामाकरपुरादिकम् ॥६२३।। ततः केशिनरेन्द्रेण कृतनिष्क्रमणोत्सवः । अस्मत्पार्श्वे परिव्रज्यामुदायन उपात्तवान् ॥६२४।। स तपोभिः षष्ठाष्टमदशमद्वादशादिभिः । व्रताहादपि कर्मेव स्वमात्मानमशोषयत् ॥६२५।।
तृणमिव परिहृत्य राज्यलक्ष्मी श्रामण्यं प्रतिपन्नवान् विशुद्धम् । इत्यभयकुमार ! कीर्तितस्ते चरमो राजर्षिर्युदायनाख्यः ॥६२६।।
॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये दशमपर्वणि रौहिणेयचरिता-भयकुमारा
पहारोदायनचरित-प्रद्योतबन्धनोदायनप्रव्रज्यावर्णनो नामैकादशः सर्गः ॥
-Kvk
१. जीवतः स्वा० नू. मु. । २. ०प्रभावं तीर्थ० खं. ४ । ३. ०तनी च मु., नू. मु. । ४. चाशयं तं ज्ञा० खं. ३ । ५. तस्य हितकारी न स्यामित्यर्थः । ६. भागिनेये ।