________________
१६४
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व
शिलीमुखैः सूचिमुखैर्धनुर्धरधुरन्धरः । विव्याधाऽनिलवेगस्य विष्वक् पादतलानि सः ॥५७९॥ बहि:शलाकासम्पूर्णपतद्ग्रहमुखोपमैः । चरणैर्गन्तुमसहस्तद्विपोऽभूत् पपात च ॥५८०।। उदायनेन प्रद्योतः पातयित्वाऽथ कुञ्जरात् । हस्तेन जगृहे बद्ध्वा यशोराशिरिवोच्चकैः ॥५८१।। ललाटेऽङ्क व्यधाद् दासीपतिरित्यक्षरैरथ । उदायनोऽवन्तिपतेः स्वां प्रशस्ति नवामिव ॥५८२।। पातमङ्कितं दासमिव कृत्वा वीतभयेश्वरः । तद्दिव्यप्रतिमारत्नमानेतुं विदिशां ययौ ॥५८३॥ पूजयित्वा च नत्वा च तां दिव्यां प्रतिमां नृपः । उपादातुमुपाक्रस्त गिरिवन्न चचाल सा ॥५८४|| देवाधिदेवमचित्वा सविशेषमुदायनः । उवाच किमभाग्यं मे यन्नैषि परमेश्वर ! ? ॥५८५॥ देवोऽप्युवाच मा शोचीयद्वीतभयपत्तनम् । पांशुवृष्ट्या स्थलं भावि तन्नैष्यामि महाशय ! ॥५८६।। देवतादेशमासाद्योदायनोऽपि न्यवर्तत । प्रयाणवारणी प्रावृडन्तराले बभूव च ॥५८७।। पातत्रैव शिबिरं राजा न्यधात् पत्तनसन्निभम् । निवसन्ति हि राजानो यत्र तत्रापि पत्तनम् ॥५८८।।
तस्थुः कृत्वा धूलिवप्रं तद्रक्षार्थं नृपा दश । ततस्तच्छिबिरं जज्ञे नाम्ना दशपुरं पुरम् ॥५८९।। पाउदायनोऽपि प्रद्योतं रणात्तं भोजनादिना । अपश्यदात्मानमिव क्षत्रधर्मोऽयमीदृशः ॥५९०॥ जाते पर्युषणापर्वण्यन्यदोदायनोऽकृत । उपवासं सं हि श्राद्धस्तस्य देवस्य शासनात् ॥५९१।। सूदोऽथाऽपृच्छत् प्रद्योतं किमद्य नृप ! भोक्ष्यसे ? । तच्छ्रुत्वाऽवन्तिनाथोऽपि क्षोभादिदमचिन्तयत् ॥५९२।। प्रश्रनो ह्यकृतपूर्वोऽयमद्य क्षेमावहो न मे । उपहासवचो ह्येतद्वधबन्धादिसूचकम् ॥५९३|| सूपकारमपृच्छच्च किमद्य प्रशनकारणम् ? । विद्याकृष्टेव रसवत्यागाद्धि समये सदा ॥५९४।। सूदोऽप्यकथयद् राजन्नद्य पर्युषणोत्सवः । उपोषितोऽस्ति नः स्वामी सान्तःपुरपरिच्छदः ॥५९५।। राजार्थं या रसवती भोजितोऽसि सदा तया । अधुना तु त्वदर्थे तां करिष्यामीति पृच्छ्यसे ॥५९६।। प्रद्योतः स्माऽऽह हे सूदोपवासोऽद्याऽस्तु मेऽपि हि । ज्ञापितुं साधु पर्वेदं श्रावको पितरौ मम ॥५९७|| सूरोऽप्युदायनायाऽऽख्यत्तत् प्रद्योतस्य भाषितम् । उदायनोऽवददसौ धूर्तो जानाति वैशिकम् ॥५९८।। यादृशे तादृशे वाऽस्मिन् कारागारनिवासिनि । न मे साध्वी पर्युषणेत्यमुञ्चत्तमुदायनः ॥५९९।। प्रद्योतं क्षमयामास पर्वोचितमुदायनः । पट्टबन्धं च विदधे तस्य भालाङ्कगोपनम् ॥६००। पट्टबन्धस्तदाद्यासीद् राज्ञां वैभवसूचकः । किरीटमेव ते पूर्वं बबन्धुर्मीलिमण्डनम् ॥६०१।। प्रद्योतायाऽवन्तिदेशमुदायननृपो ददौ । वर्षारात्रे त्वतिक्रान्ते स्वयं वीतभयं ययौ ॥६०२॥ शिबिरे तत्र वणिजस्तस्थिवांसस्तथैव हि । तैरेव वसमानं तज्जातं दशपुरं भुवि ॥६०३॥ प्रद्योतोऽपि वीतभयप्रतिमायै विशुद्धधीः । शासनेन दशपुरं दत्वाऽवन्तिपुरीमगात् ॥६०४।। पाअन्येधुर्विदिशां गत्वा भायलस्वामिनामकम् । देवकीयं पुरं चक्रे नाऽन्यथा धरणोदितम् ॥६०५।।
१. बाणैः । २. अग्निशलाकाभिः व्याप्तस्य पात्रस्य मुखतुल्ये । ३. ०द्विपोऽपि मु. । ४. दिव्यप्रतिमां खं. १-३ । ५. यन्नति परमेश्वरः मु. । ६. ०वारिणी खं. ४ । प्रयाणेऽवरोधरूपा वर्षा । ७. रणे गृहीतम् । ८. महाश्राद्ध० मु. । ९. त्वदर्थं खं. ३ । १०. जानासि मु. । ११. वेश्याया विद्या-धूर्तकलेत्यर्थः ।