________________
१६३
एकादशः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । कतार्धप्जस्त्वायासीरिति कालेन गच्छता । गुप्तैव मिथ्याग्भिः सा प्रतिमा पूजयिष्यते ॥५५३॥ तस्याः प्रतिकृतिस्तैश्च बहि: संस्थापयिष्यते । आदित्यो भायलस्वामिनामाऽयमिति वादिभिः ॥५५४|| ततश्च भायलस्वामिसूर्य इत्यखिलो जनः । पूजयिष्यति दम्भोऽपि सुप्रयुक्तो न निष्फलः ॥५५५।। अभ्यधाद्भायलोऽप्येवमाः पापोऽस्मि धिगेव माम् । अत्याहितं ह्यापतितमशिवं मत्कृतं ह्यदः ॥५५६।। देवाधिदेवप्रतिमाप्रतिकृत्या दुराशयैः । मम नाम्नाऽऽदित्य इति कृत्वा यत् पूजयिष्यते ॥५५७।। धरणोऽप्यभ्यधान्मा गाः शुचं किं क्रियतेऽनघ !? । एतद्धि दुःषमाकाललीलायितमनुज्ज्वलम् ॥५५८॥ ततो नागकुमाराभ्यां पथा तेनैव तत्क्षणम् । नीत्वाऽमुच्यत तत्रैव स्वप्नदर्शीव भायलः ॥५५९।। पाइतश्च नगरे वीतभये राजाऽप्युदायन: । नित्यकर्मरतः प्रातर्देवताऽऽवसरं ययौ ॥५६०॥ ददर्श चाग्रे प्रतिमां म्लानमाल्यामुदायनः । अचिन्तयच्च काऽप्यन्या प्रतिमेयं न सा पुनः ॥५६१।। आरोपितानि तस्यां पुष्पाण्यहन्यपरेऽपि हि । तत्कालावचितानीवाऽदृश्यन्त किमिदं हहा !? ॥५६२।। स्तम्भलग्ना सदैवाऽस्थादिह पाञ्चालिकेव या । सा दासी देवदत्तापि विलीनेव न दृश्यते ॥५६३।। निदाघे मरुवारीव नष्टश्च करिणां मदः । तदागादनिलवेगो नियतं गन्धसिन्धुरः ॥५६४॥
आगत्याऽनिलवेगेन नूनं प्रद्योतभूपतिः । प्रतिमां देवदत्तां च निशि चौर इवाऽहरत् ॥५६५।। पाउदायनोऽपि प्रद्योतं तत्क्षणादभ्यषेणयत् । वादयन् क्ष्मां हयखुरैर्जयभम्भामिवाऽपराम् ॥५६६।। दशाथ बद्धमुकुटा राजानोऽपि तमन्वगुः । एकादशापि ते चाऽभान् रुद्रा इव महौजसः ॥५६७।। अथोदायनसैन्यानां प्रत्यक्षा जाङ्गलक्षितौ । आसन् पयायमानार्करोचिर्मय्यो मरीचिकाः ॥५६८।। आस्फलन्तो मिथो भूमौ लुठन्तोऽपि च सैनिकाः । तृषा न किञ्चिदद्राक्षुर्दिवसेऽपि हि घूकवत् ॥५६९।। सद्यः प्रभावतीदेवं तदाऽस्मार्षीदुदायनः । स्मरति व्यसने प्राप्ते को वा नैवेष्टदेवताम् ? ॥५७०।। स्मृतमात्रोपस्थितेन तेन देवेन वारिणा । त्रिपुष्कराण्यपूर्यन्त प्रमोदेन च सैनिकाः ॥५७१॥ कटकं सुस्थितं चाऽभूत् पायं पायं पयस्तदा । विनाऽप्यन्नेन जीव्येत जीवनीयं विना न तु ॥५७२।। ततः प्रभावतीदेवो जगाम निजमालयम् । राजा वीतभयेशोऽपि प्रापदुज्जयिनी पुरीम् ॥५७३|| पातत्रोदायनराजस्याऽवन्तिनाथस्य चाचिरात् । मिथो दूतमुखेनाऽभूद् रथसङ्गरसङ्गरः ॥५७४।। उदायनोऽथाऽऽरुरोह धन्वी सांग्रामिकं रथम् । वादयामास मौर्वी च रणतूरमिवाऽपरम् ॥५७५॥ प्रद्योतोऽपि हि विज्ञाय रथाजय्यमुदायनम् । आरूढोऽनिलवेगेभं का प्रतिज्ञा बलीयसि ? ॥५७६।। उदायनोऽपि तं दृष्ट्वा गजारूढमदोऽवदत् । पाप्मन्नसत्यसधोऽसि तथापि न भवस्यरे ! ॥५७७||
इत्युक्त्वा मण्डलिकया भ्रमयन् स्वरथं रयात् । दोष्मानुदायनो योद्धं स्मयमानोऽभ्यढौकत ॥५७८।। १. भ्राजिल० खं. १ । भायिल० खं. ३ । २. भ्राजिल० खं. १-३ । ३. ०भ्राजिलो० खं. १-३ । ४. महद् भयम् । ५. शोकम् । ६. भ्राजिल: खं. १-३ । ७. ०वसथं मु., नू. मु. । ८. हरिखुरै० खं. १ । ९. जाङ्गलदेशभूमौ रणप्रदेशे । १०. पयो जलं, पयायमाना-जलमिव आचरन्त्यः अर्कस्य सूर्यस्य रोचिष:-किरणाः, तन्मय्यो मरीचिका:-मृगजलानि । ११. त्रीणि पुष्कराणि-सरांसि । १२. रथमारुह्मैव संग्रामः कार्य आवाभ्यां इति प्रतिज्ञा । १३. ज्याम् । १४. प्रद्योतेन समं दोष्मानुदायनोऽभ्यढौकत खं. २, मु., नू. मु. ।