________________
१६२
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व कपिलर्षिरदोऽवादीद् वादको नास्ति कश्चन । वाद्यं विना कुतो नृत्तं ? न कार्य कारणं विना ॥५२६|| तालवाद्यमथाऽकार्पश्चौराः पञ्च शतान्यपि । कपिलोऽपि नर्वोच्चैर्जगौ च श्रुतिशर्मदम् ॥५२७|| "दु:खानुभवभूयिष्ठे किं भवेऽस्मिन्नशाश्वते । भवेत्तत्कर्म येनाऽहं गच्छेयं न हि दुर्गतिम् ?" ||५२८।। इत्यादिका ध्रुवाः पञ्च शतानि कपिलो जगौ । सर्वाः प्राकृतबन्धेन श्रव्यरागेण बन्धुराः ॥५२९।। ध्रुवासु गीयमानासु कपिलेन महर्षिणा । ते चौराः प्रत्यबुध्यन्त कस्यांचित् कश्चिदेव च ॥५३०॥ ततः शतानि पञ्चापि चौराणां स महामुनिः । पर्यव्राजयदेतद्धि दृष्टं तज्ज्ञानचक्षुषा ॥५३१।। पापुरे राजगृहे देवाधिदेवाज्ञां प्रगृह्य सः । ब्रह्मर्षिः कपिलोऽत्रैव त्वत्पुरीमस्ति पावयन् ॥५३२॥
केवल्येष स्वयंबुद्धः श्वेताम्बरशिरोमणिः । कर्ता प्रतिष्ठा कोऽप्येष पुण्यानामुदयस्तव ॥५३३॥ ततश्चाऽवन्तिनाथेन प्रार्थितः कपिलो मुनिः । प्रत्यष्ठात् प्रतिमां मन्त्रपूतचूर्णानि निक्षिपन् ॥५३४|| चर्चयित्वाऽर्चयित्वा च दोभ्या॑मुद्धृत्य पार्थिवः । तां तद्धनो धनमिव हृद्वारे प्रतिमां दधौ ॥५३५।। न्यधादनिलवेगस्य स्कन्धे तां प्रतिमां नृपः । तदन्तरासनिकवदारूढोऽधारयत् स्वयम् ॥५३६।। दिव्याभियोग्ययानेभ्योऽप्यतिवेगेन दन्तिना । गत्वा वीतभये दास्यै प्रतिमां तां समार्पयत् ॥५३७|| साऽपि तां प्रतिमां चैत्ये न्यस्याऽऽदाय पुरातनीम् । आगादासी प्रतिमां च नृपोऽप्यारोपयद् द्विपम् ।५३८।। राजाऽपि गजमारुह्याऽवन्तीं प्राप तथा द्रुतम् । समागतेवाऽभिमुखं यथा सा पुर्यलक्ष्यत ॥५३९।। पावणिजो विदिशापुर्या भायलस्वामिनोऽन्यदा । गोशीर्षकाष्ठप्रतिमा विद्युन्मालिप्रकाशिता ॥५४०॥
राज्ञा कुब्जिकया चापि पूजनाय समर्पिता । तस्योस्तदपि बढेतद्विषयासक्तयोः सदा ॥५४१।। (युग्मम्) पाअन्यदा भायलोऽद्राक्षीत्तेजोराशी इवाऽङ्गिनौ । हस्तविन्यस्तपूजोपकरणौ पुरुषावुभौ ॥५४२।। तौ दृष्ट्वा दृष्टिसुखदावाजन्मसुहृदाविव । कौ युवामिति पप्रच्छ भायलोऽशंसतां च तौ ॥५४३।। आवां नागकुमारौ भोः ! पातालभवनालयौ । नाम्ना कम्बल-शबलौ धरणेन्द्रस्य शासनात् ॥५४४|| देवाधिदेवप्रतिमा विद्युन्मालिकृतामिमाम् । आयावोऽर्चयितुं चैत्यमेवम!पहारिणौ ॥५४५॥ (युग्मम्) अस्या हि विदिशानद्या हृदमध्येन वर्त्मना । मज्जनोन्मज्जने नित्यमावां कुर्वोऽत्र हंसवत् ॥५४६।। भायलः स्माऽऽह पाताले युवां स्वभवनानि मे । गृहीतभगवन्निश्रस्याऽद्य दर्शयतं सुरौ ! ॥५४७|| शाश्वतीः प्रतिमास्तत्र वन्दितुं मे मनोरथः । स पूर्यतां प्रसादाद् वां न मुधा देवदर्शनम् ॥५४८॥ पाताभ्यां प्रपद्य च तथा तत्र तेनैव वर्त्मना । औत्सुक्यादर्धरचितपूजोऽनीयत भायलः ॥५४९॥ ववन्दे शाश्वतीरर्हत्प्रतिमास्तत्र भायलः । तं चोचे धरणस्तोषात् प्रसादो याच्यतामिति ॥५५०॥ भायलः स्माह मन्नाम सर्वत्र ज्ञायते यथा । तथास्तु नामस्थेमैव पुरुषाणां हि पौरुषम् ॥५५१।। धरणेन्द्रोऽप्युवाचैवं चण्डप्रद्योतभूपतिः । देवकीयपुरं तत्र त्वन्नाम्ना कारयिष्यति ॥५५२।।
१. नृत्यं खं. १-३ । २. पर्यविव्रजदेतद्धि खं. १ । ३. तदन्तः आसनिकवदित्यर्थः । तदन्तरा सनिक० मु. । ४. देवाभियोग० मु.। दिव्याभियोग० नू. मु. । ५. पर्यलक्ष्यत खं. ४ । ६. बह्येव विषया० इति पाठः सम्भवति । ७. भ्राजिलो० खं. १-३। ८. ११. १२. १३. भ्राजिलः खं. १ । भायिल: खं. ३ । ९. दर्शयत खं. ४ । १०. युवयोः । १४. नाम्नः स्थेम-स्थैर्यम् ।