________________
एकादशः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
१६१
आरक्षैः स व्रजन् वेगात् पुरवर्त्मन्यसंचरे । धृत्वा चोरधियाऽबन्धि चोरचर्या हि तादृशी ॥५००॥ स प्रसेनजितो राज्ञः पुरः प्रातरनीयत । पृष्टश्च कथयामास स्वर्णमाषकथां तथा ॥५०१।। राजाऽपि तत्तथा श्रुत्वा कृपावारितरङ्गितः । तं स्माऽऽह हंहो ! याचस्व यच्छाम्येव यदिच्छसि ॥५०२।। विमृश्य मार्गयिष्यामीत्युक्त्वाऽशोकवनान्तरे । गत्वा योगीवैकमना भूत्वा चाऽचिन्तयद् द्विजः ॥५०३।। द्विमाष्या स्यान्न वस्त्रादि तत् सुवर्णशतं नृपात् । याचे याचितलाभे हि याचना किं तनीयसी ? ॥५०४॥ न स्यात् स्वर्णशतेनापि प्रक्रिया वाहनादिका । याचे स्वर्णसहस्रं तदिष्टार्थप्राप्तिवेतनम् ||५०५।। सहस्रेणापि मेऽपत्यविवाहाद्युत्सवः कुतः ? । इति लक्षमहं याचे याचनाचतुरोऽस्मि हि ॥५०६।। लक्षेणापि सुहृबन्धुदीनायुद्धरणं कुतः ? । कोटि कोटिशतं कोटिसहस्रं वा तदर्थये ॥५०७|| पाएवं चिन्तयतस्तस्य शुभकर्मोदयादभूत् । इति धी: सुपरीणामा धीहि कर्मानुसारिणी ॥५०८॥
अपि माषद्वयप्राप्तौ यः सन्तोषोऽभवन्मम । सोऽद्य कोटेरपि प्राप्तौ मां तद्भीत इवाऽमुचत् ॥५०९।। विद्यार्थमागतस्येह मम दुर्व्यसनं ह्यदः । सागरं गन्तुकामस्य हिमवद्गमनोपमम् ॥५१०|| ज्ञानदानं मयि गुरोः स्थले कमलरोपणम् । यद्दास्यामपि दासत्वमकार्षमकुलोचितम् ॥५११॥ तदलं विषयैरेभिरिति संवेगमाप्तवान् । उत्पन्नजातिस्मरणः स्वयंबुद्धो बभूव सः ॥५१२।। पामूर्धजान्मूर्ध्न उद्धृत्य स्वयं देवतयाऽर्पितम् । रजोहरण-वदनवस्त्रिकादिकमाददे ॥५१३॥ राजानं स गतो राज्ञाऽप्रच्छीति किमचिन्तयः ? । स्वमनोरथविस्तारमथाऽऽख्यायाऽब्रवीदिति ॥५१४|| यथा लाभस्तथा लोभो लाभाल्लोभः प्रवर्धते । द्विमाष्या चिन्तितं कार्यं कोट्याऽपि न हि निष्ठितम् ॥५१५।। राजाऽपि विस्मितः प्रोचे कोटीरपि ददाम्यहम् । भुक्ष्व भोगान् व्रतं मुञ्च न व्रते प्रतिभूस्तव ॥५१६।। कपिलोऽप्यब्रवीदर्थे राजन्नलमनर्थदैः । निर्ग्रन्थीभूतवानस्मि धर्मलाभोऽस्तु भद्र ! ते ॥५१७|| इत्युक्त्वा कपिलमुनिस्ततो निर्गत्य निर्ममः । निरीहो निरहंकारो विजहार वसुन्धराम् ॥५१८।।
एवं व्रतं पालयतः कपिलस्य महामुनेः । षण्मासपर्ययेणाऽभूत् केवलज्ञानमुज्ज्वलम् ॥५१९॥ पाइतश्चासीद् राजगृहनगरस्याऽन्तरालगा । अष्टादशयोजनानुप्रमाणा दारुणाटवी ॥५२०॥ तत्र चेत्कडदासाख्या बलभद्रादयोऽभवन् । शतानि पञ्च चौरास्तान् बोधार्हान् कपिलोऽबुधत् ॥५२१।। चौराणामुपकाराय तेषां च स महामुनिः । अभ्यागात्तामरण्यानी शरण्यः सर्वजन्मिनाम् ॥५२२। एकश्च चौरो वृक्षाग्रमधिरूढः प्लवङ्गवत् । ददर्श दूरादायातं कपिलं श्रमणोत्तमम् ॥५२३|| स चौरोऽचिन्तयत् कोऽयमागच्छत्यभिभूय नः । तमाख्यदिति सेनान्ये सेनान्यं सोऽप्युपाययौ ॥५२४॥ दिष्ट्या क्रीडनमायातमिति सेनापतिद्र्वन् । नृत्य नृत्य श्रमणकेत्यज्ञ आज्ञापयन्मुनिम् ॥५२५।।
१. विजने जनसंचाररहिते । २. चौर० खं. १-४ । ३. कोटिप्राप्तिभीत इव । ४. केशान् । ५. मुखवस्त्रिका । ०वस्त्रका० खं. १ । ६. ०ऽपृच्छी० खं. १-२, मु., नू. मु. । ७. साक्षी । त्वया व्रतं गृहीतमिति न कोऽपि जानाति । ८. तत्र च कडदासाख्या मु. । तत्र वेक्कड० नू. मु. । ९. तमाख्यादिति खं. १ ।