________________
१६० कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व जगाद सा यथा ह्येष द्विजन्मा सम्पदोदयी । तथाऽभवत्तव पिता स्मृत्वा तज्जात ! रोदिमि ॥४७३।। त्वत्पितुः श्री_नेनाऽऽप्ताऽनुपार्जितगुणे त्वयि । पितुः श्रियो न रक्ष्यन्ते तनयैरपि निर्गुणैः ॥४७४।। जजल्प कपिलो मातस्तदधीये गुणार्थ्यहम् । साऽवदन्मत्सरी सर्वोऽप्यत्र कोऽध्यापयिष्यति ? ॥४७५।। यद्येवमपि ते बुद्धिः श्रावस्ती व्रज तत् पुरीम् । तत्रास्ति त्वत्पितुर्मित्रमिन्द्रदत्त इति द्विजः ॥४७६।। विद्यार्थिनं पुत्रमिव त्वामायातं स सर्ववित् । प्रीतः पितृसमं वत्स ! कलापूर्णं करिष्यति ॥४७७।। पागत्वेन्द्रदत्तं कपिलो नत्वा च स्वमजिज्ञपत् । उवाच चाऽध्यापय मां ताताऽन्यः शरणं न मे ॥४७८॥ उपाध्यायोऽप्यभिदधे भ्रातुष्पुत्रोऽसि मे खलु । विद्यामनोरथेनैवं न पिता हेपितस्त्वया ॥४७९।। वच्मि किं त्वहमातिथ्येऽप्यशक्तो निष्परिग्रहः । अध्यस्मच्चाऽऽगतस्येह क्व नु ते नित्यभोजनम् ? ॥४८०॥ अभोजनस्य च व्यर्थ एव पाठमनोरथः । विना हि भोजनं वत्स मुरजोऽपि न गुञ्जति ॥४८१।। कपिलोऽप्यलपत् तात ! भोजनं भावि भिक्षया । भिक्षां देहीति सिद्धं हि मौजीबन्धाद् द्विजन्मनाम् ।।४८२।। हस्त्यारूढोऽप्यग्रजन्मा भिक्षमाणो न लज्जते । भिक्षाचस्श्च राजेव नाऽधीनः कस्यचित् क्वचित् ॥४८३।। इन्द्रदत्तोऽवदद् वत्स ! भिक्षा श्रेष्ठा तपस्यताम् । तवैकदाऽप्यलब्धायां तस्यामध्ययनं कुतः ? ॥४८४॥ इत्युक्त्वा स द्विजो बालं तमालम्ब्य स्वबाहुना । शालिभद्रमहेभ्यस्य सद्यः सदनमासदत् ॥४८५॥ ॐभूर्भुवः स्वरित्यादि गायत्रीमुच्चकैः पठन् । अजिज्ञपद् द्विजन्मानमात्मानं स बहि:स्थितः ॥४८६।। इभ्योऽप्याहूय तं विप्रमूचे किं याचसे ननु ? । स ययाचे बटोरस्य प्रत्यहं देहि भोजनम् ॥४८७।। इभ्योऽपि प्रतिपेदे तद् भुक्त्वा भुक्त्वाऽथ तद्गृहे । उपेन्द्रदत्तं कपिलोऽधिजगे प्रतिवासरम् ॥४८८।। पाशालिभद्रगृहे भोक्तुं कपिलस्य गतस्य तु । सर्वदा युवदास्येका विशिष्टं पर्यवेषयत् ॥४८९॥
युवा च हासशीलश्च स तस्यामन्वरज्यत । स्त्रीसन्निधानं यूनां हि मन्मथद्रुमदोहदः ॥४९०|| साऽपि तस्मिन्नभूद् रक्ता रेमाते च क्रमेण तौ । दास्यप्यन्यमनिच्छन्ती रहस्यूचे तमन्यदा ॥४९१॥ त्वमेव प्राणनाथो मे किं तु निःस्वोऽस्यतो नरम् । प्राणयात्रार्थमपरं भजे सोऽप्यन्वमन्यत ॥४९२।। प[अन्येद्युश्च पुरे तस्मिन् दासीनामुत्सवोऽभवत् । सापि दास्याप निर्वेदं पुष्पपत्रादिचिन्तया ॥४९३।। तां निर्वेदवतीं दृष्ट्वा कपिलः स्माऽऽह सुन्दरि ! । किं दृश्यसे विवर्णास्या हिमालीढेव पद्मिनी ? ॥४९४॥ साऽख्यन्महोऽद्य दासीनां पुष्पपत्रादि नास्ति मे । विगोपिष्यामि मध्ये च दासीनां का गतिर्मम ? ॥४९५।। तदुःखव्यन्तरावेशविवश: कपिलोऽपि हि । अधृत्या मौनमालम्ब्य तस्थौ दास्यप्यदोऽवदत् ॥४९६।। मा विषीद धनोऽत्रास्ति श्रेष्ठी तं च निशात्यये । प्रबोधयति यस्तस्मै स्वर्णमाषौ ददाति सः ॥४९७।। गच्छेस्त्वमविभातायां विभावर्यां तदोकसि । कल्याणिनेय ! कल्याणं पठेरकठिनोक्तिभिः ॥४९८॥ तथेति प्रतिपेदानं कपिलं प्रजिघाय सा । तस्यामेव तमस्विन्यां निशीथे धनसद्मनि ॥४९९।।
१. अस्मत्समीपे । २. वाद्यविशेषः । ३. अध्ययनं चकार । ४. ०दोहदम् मु., नू. मु. । ५. खिन्नमुखी । ६. निन्दामाप्स्यामि । ७. काल्याणि० खं. १ । कल्याण्याः पुत्रः ।