________________
एकादशः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । पाइतश्च गान्धारदेशजन्मा गान्धारनामकः । शाश्वतीरर्हत्प्रतिमा वैताढयेऽगाद् विवन्दिषुः ॥४४५॥
वैताढ्यमूले तस्थौ चोपवासैस्तद्दिदृक्षया । तुष्टा शासनदेवी च तदीप्सितमपूरयत् ॥४४६।। कृतकृत्यं च तं देवी वैताढ्यस्य तलेऽमुचत् । ददौ चाऽष्टोत्तरं तस्मै कामदं गुलिकाशतम् ॥४४७।। क्षिप्त्वैकां गुलिकां वक्त्रे स दध्यौ वन्दिषीय यत् । देवाधिदेवप्रतिमां श्रीवीतभयपत्तने ॥४४८।। इति चिन्तासममपि सोऽथ वीतभयं ययौ । देवाधिदेवप्रतिमां तेन कुब्जाऽप्यवन्दयत् ॥४४९।। शरीरापाटवं चाऽभूद् गान्धारस्याऽपरेऽहनि । तं च प्रतिजजागार कुब्जाऽर्हद्धर्मवत्सला ॥४५०॥ गान्धारोऽपि स्वमासन्नमवसानं विदन् सुधीः । कुब्जायै गुलिकाः प्रादात् प्रव्रज्यां स्वयमाददे ॥४५१|| पारूपार्थिनी कुरूपा सा क्षिप्त्वैकां गुलिकां मुखे । उपपादभवेवाऽभूद् द्राग् दिव्याकारधारिणी ॥४५२।। सुवर्णवर्णसर्वाङ्गा साऽभूद् गुलिकया तया । ततोऽभ्यधत्त सर्वोऽपि सुवर्णगुलिकेति ताम् ॥४५३॥ साऽथ द्वितीयां गुलिकां मुखे कृत्वेत्यचिन्तयत् । वृथैव रूपमीदृङ् मेऽनुरूपश्चेत् पतिर्न हि ॥४५४|| पितेव मेऽयं नृपतिः पत्तयोऽस्याऽपरे नृपाः । तच्चण्डशासनश्चण्डप्रद्योतोऽस्तु पतिर्मम ।।४५५।। प्रद्योताग्रे च तद्रूपं वर्णयामास देवता । प्रद्योतोऽपि हि कुब्जायाः प्रार्थने दूतमादिशत् ॥४५६।। गत्वा तामर्थयांचक्रे दूतस्तं साऽप्यदोऽवदत् । प्रद्योतं दर्शयाथाऽऽख्यत् प्रद्योताय तथैव सः ॥४५७।। तदैवैरावतारूढवासवश्रियमाश्रयन् । आरूढोऽनिलवेगेभं निशि प्रद्योत आययौ ॥४५८|| तस्मै यथा सा रुरुचे तस्यै सोऽपि तदा तथा । प्रद्योतोऽथाऽवदत् कुब्जामब्जाक्ष्ये हि मत्पुरीम् ॥४५९।। कुब्जाऽब्रवीन्न जीवामि यां विना क्षणमप्यहम् । देवाधिदेवप्रतिमां तां मुक्त्वा यामि न क्वचित् ॥४६०।। प्रतिमायाः प्रतिकृतिरमुष्यास्तन्नृप ! त्वया । आनेतव्या यथा सेह मुच्यते नीयते त्वसौ ॥४६१॥ इति तत्प्रतिमारूपं निरूप्याऽवन्तिपार्थिवः । रजनीं तां तया रेमे रजन्यन्ते पुनर्ययौ ॥४६२।। प्रद्योतोऽथ गतोऽवन्त्यां यथादृष्टामकारयत् । देवाधिदेवप्रतिमां जात्यश्रीखण्डदारुणा ॥४६३।।
अपच्छच्च महामात्यान कारितेयं मया नवा । देवाधिदेवप्रतिमा प्रतिष्ठास्यति को विमाम ? ॥४६४|| पाअवोचन्मन्त्रिणः स्वामिन् ! कौशाम्बीत्यस्ति पूर्वरा । तत्राऽन्वर्थाभिधानोऽभूज्जितशत्रुर्महीपतिः ॥४६५।। पुरोधास्तस्य निःशेषविद्यास्थानाब्धिपारगः । काश्यपो नाम विप्रोऽभूत्तस्य जाया पुनर्यशाः ॥४६६।। कपिलो नाम पत्रोऽभूत तयोस्तस्मिञ्छिशावपि । काश्यपः प्राप पञ्चत्वमनाथ: कपिलोऽभवत् ॥४६७।। राजाऽनादृत्य तं बालं काश्यपस्य पदेऽपरम् । द्विजन्मानं न्यधात् कीदृगाम्नायो योग्यतां विना ? ॥४६८|| आदित्यकिरणास्पृष्टशरीरश्रछत्रसम्पदा । नृत्यत्तुरङ्गाऽऽरूढोऽथ पुरे बभ्राम स द्विजः ॥४६९|| तं दृष्ट्वा कपिलमाता स्मरन्ती पतिसम्पदम् । रुरोद मन्दभाग्यानां ह्यसुखे रोदनं सखा ॥४७०।। कपिलोऽपि रुरोदोच्चै रुदती प्रेक्ष्य मातरम् । शोकः संक्रामति ह्याप्ते दर्पणे प्रतिबिम्बवत् ॥४७१।।
नेत्राभ्यामश्रुमुग्वक्त्रं द्विधारमिव वारकम् । उल्लास्य मातुः कपिलोऽवदत् किमिति रोदिषि ? ॥४७२।। १. प्रतिमा द्रष्टुमिच्छया । २. वन्द्धातोराशिषि प्रथमपुरुषैकवचने रूपम् । ३. तस्य शुश्रूषा तया कृता । ४. देवविमाने उपपादेन भवा इव । ५. ०सर्वाङ्गी खं. १ । ६. प्रद्योतमत्रानीय दर्शय माम् ॥ ७. ०थाऽऽख्यात् खं. २, मु., नू. मु. । ८. निनायाथ मु.। ९. ०प्रतिमां खं. १-३ । १०. ०गन्वयो नू. मु. । योग्यतां विना आम्नाय:-अधिकारः कीदृक् ? । ११. पात्रविशेषः । १२. ऊर्ध्वं कृत्वा । उल्लास्यमानः खं. १ ।