________________
१५८
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व कोपात् प्रभावती दासीमादर्शेन जघान ताम् । तावताऽपि विपेदे सा मृत्योहि विषमा गतिः ॥४१७॥ तत्कालमुज्ज्वलान्येव वसनानि प्रभावती । ददर्शाऽचिन्तयच्चैवं धिङ् मया खण्डितं व्रतम् ॥४१८॥ पञ्चेन्द्रियस्याऽन्यस्यापि वधो नरककारणम् । किं पुनः स्त्रीविघातोऽयं श्रेयस्तस्माद् व्रतं मम ॥४१९॥ दुनिमित्तं तदाचख्यौ राज्ञे राज्ञी प्रभावती । दासीवधमहापापं वैराग्यं च कृताञ्जलिः ॥४२०।। इति चाभ्यर्थयांचक्रे स्वामिन्नल्पायुरस्म्यहम् । अनुजानीहि मां सर्वविरत्यै नाथ ! संप्रति ॥४२१॥ अमौलिं मां त्वमद्राक्षीरद्राक्षमधुना त्वहम् । वस्त्रवर्णपरावर्तमनिमित्तद्वयं ह्यदः ॥४२२॥ अनिमित्तद्वयाऽऽख्याताल्पायुषः समयोचिते । प्रव्रज्याग्रहणे मेऽद्य प्रत्यूहं नाथ ! मा कृथाः ॥४२३|| एवमुक्तः सनिर्बन्धमभ्यधाद् वसुधाधवः । अनुतिष्ठ महादेवि ! यत्तुभ्यमभिरोचते ॥४२४|| देवत्वमाप्तया देवि ! बोधनीयस्त्वया न्वहम् । स्वर्गसौख्यान्तरायोऽपि सोढव्यो मत्कृते क्षणम् ॥४२५।। ततश्च सर्वविरतिं प्रपद्याऽनशनं तथा । साऽभूद्विपद्य प्रथमे कल्पे देवो महद्धिकः ॥४२६।। देवाधिदेवप्रतिमां तामन्तःपुरचैत्यगाम् । तथैव देवदत्ताऽऽख्या कुब्जिका दास्यपूजयत् ॥४२७|| पाप्रभावत्यमरेणाथ बोध्यमानोऽप्युदायनः । नाऽबुध्यताऽवधेख़त्वा तूपायोऽयं व्यधीयत ॥४२८।। तापसीभूय सोऽन्येधुर्मुसद्मोदायनं नृपम् । दिव्यामृतफलापूर्णपात्रपाणिरुपाययौ ॥४२९।। तापसचोपैदाभृच्च सुवर्णं सुरभीति तम् । राजा तापसभक्तत्वात्तापसं बह्वमानयत् ॥४३०॥ पवित्रमाण्यतिकर्पूरगन्धानीष्टाहृतानि च । फलान्याद परानन्दबीजानीवाऽवनीपतिः ॥४३१।। त्वया प्राप्तान्यपूर्वाणि क्वेदृशानि फलान्यहो !? । स्थानं दर्शय तन्मह्यमपृच्छदिति तं नृपः ॥४३२।। तपस्व्यूचे पुरस्याऽस्य विद्यते नाऽतिदूरतः । आश्रमो दृष्टिविश्रामः स ईदृक्फलजन्मभूः ॥४३३।। तमाश्रमं दर्शयेति ब्रुवाणं नृपतिं सुरः । स्वशक्त्यैकाकिनं कृत्वा विद्यां दातुमिवाऽनयत् ॥४३४॥ किञ्चिद् गत्वा विचक्रे च तादृक्फलमनोरमम् ॥ अनेकतापसाकीर्णमुद्यानं नन्दनोपमम् ॥४३५।। तापसानां वनमिदं भक्तस्तेष्वस्मि तेन मे । पूरिष्यते फलेच्छेति दधावे कपिवन्नृपः ॥४३६।।
सक्रोधमथ धावद्भिस्तैर्मायातापसैर्नृपः । कुट्यमानस्तस्करवत् पलायिष्टाऽविनष्टधीः ॥४३७।। पापलायमानश्चाऽपश्यदग्रे साधूनवस्थितान् । शरणं प्रतिपेदे तान्मा भैषीरिति भाषिणः ॥४३८॥
आश्वासितस्तैर्नृपतिः स्वस्थीभूयेत्यचिन्तयत् । वञ्चितोऽस्मि धिगाजन्म तापसैः क्रूरकर्मभिः ॥४३९।। साधुभिः सोऽन्वशास्येवं धर्मो हि शरणं भवे । धर्मार्थी च परीक्षेत देवं धर्म गुरुं सुधीः ॥४४०॥ देवोऽष्टादशभिर्दोषैर्मुक्तो धर्मो दयाऽन्वितः । गुरुश्च ब्रह्मचार्येव निरारम्भ-परिग्रहः ॥४४१॥ एवमाद्युपदेशेन प्रत्यबुध्यत पार्थिवः । जिनधर्मश्च तस्याऽभूद् हृद्युत्कीर्ण इव स्थिरः ॥४४२॥ प्रत्यक्षीभूय देवोऽर्हद्धर्मे संस्थाप्य पार्थिवम् । तिरोदधे पार्थिवोऽथ स्वमास्थानीस्थमैक्षत ॥४४३।। देवतत्त्व-गुरुतत्त्व-धर्मतत्त्वाधिवासितः । तदाप्रभृत्यभूत् सम्यगुदायनमहीपतिः ॥४४४||
१.०पापवैराग्यं खं. १-३ विना, मु., नू. मु. । २. देवः । ३. तापसोऽप्युपहारं दत्ते, एतत् ‘सुरभि सुवर्ण' सदृशम् । ४. परिपक्वानि । ५. इष्टेन-तापसेन आनीतानि ।