________________
एकादशः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
तत्र स्वरुचि लोकेन मुच्यमाना निरन्तरम् । आयसी अप्यभज्यन्त कुठारास्त्रापुषा इव ॥३९०॥ इत्याश्चर्यप्रसक्तस्य राज्ञो दिनमुखादपि । ललाटंतपतपनो मध्याह्नसमयोऽभवत् ॥३९१|| भोजनातिक्रमं ज्ञात्वा राज्ञो राज्ञी प्रभावती । आह्वातुमादिशच्चेटीं पतिभक्तोचितं ह्यदः ॥३९२॥ [[राज्ञाऽपि द्रष्टुमाश्चर्यं तदाऽऽज्ञप्ता प्रभावती । तत्राऽऽगात् तदपृच्छच्च राजाऽप्यकथयत्तथा ॥३९३॥ ऊचे च राज्ञी देवाधिदेवा ब्रह्मादयो न हि । देवाधिदेवो भगवानेकोऽर्हन् परमेश्वरः ||३९४|| तदर्हत्प्रतिमैवेह भविष्यति न संशयः । ब्रह्मादिनामस्मरणात् प्रदत्ते दर्शनं न सा ||३९५ || एषाऽहं दर्शयिष्यामि प्रतिमामर्हतः प्रभोः । तन्नामस्मरणादेव लोकाः ! पश्यत कौतुकम् ॥३९६॥ ततश्च संपुटं यक्षकर्दमेनाऽभिषिच्य तम् । पुष्पाञ्जलिक्षेपपूर्वं प्रणम्योचे प्रभावती ॥३९७|| गतरागद्वेषमोहः प्रातिहार्याष्टकावृतः । देवाधिदेवः सर्वज्ञोऽर्हन् देयाद् दर्शनं मम ॥ ३९८ ॥ इति देव्यां ब्रुवाणायां प्रतिमास्थानसंपुटः । स व्यदालीत् स्वयमपि प्रगे कमलकोशवत् ॥३९९॥ गोशीर्षचन्दनमयी तदन्तर्देवनिर्मिता । अम्लानमाल्या सर्वाङ्गसम्पूर्णा प्रतिमैक्ष्यत ॥४००|| तदाऽर्हच्छासनस्याऽभूदतिमात्रं प्रभावना । प्रभावत्यपि तां नत्वा प्रतिमामस्तवीदिति ॥४०१ || सोमदर्शन ! सर्वज्ञाऽपुनर्भव ! जगद्गुरो ! । अर्हन् ! भव्यजनानन्द ! विश्वचिन्तामणे ! जय ||४०२॥ सांयात्रिकं तं सत्कृत्य प्रभावत्यपि बन्धुवत् । अन्तरन्तः पुरं निन्ये प्रतिमां रचितोत्सवाम् ||४०३॥ कारयित्वा चैत्यगृहं प्रतिमां न्यस्य तत्र च । त्रिसन्ध्यं पूजयामास स्नानपूर्वं प्रभावती ||४०४|| [[तामन्यदाऽर्चामर्चित्वा प्रमोदेन प्रभावती । पत्या समेता सङ्गीतमविगीतं प्रचक्रमे || ४०५ ||
तानौघानुगतश्रव्यं व्यक्तव्यञ्जनधातुकम् । व्यक्तस्वरं व्यक्तरागं राजा वीणामवादयत् ॥४०६|| व्यंक्ताङ्गहारकरणं सर्वाङ्गाभिनयोज्ज्वलम् । ननर्त देव्यपि प्रीता लास्यताण्डवपूर्वकम् ॥४०७॥ राजाऽन्यदा प्रभावत्या न ददर्श शिरः क्षणात् । नृत्यन्तं तत्कबन्धं तु ददर्शाऽऽजिकबैन्धवत् ॥४०८॥ अरिष्टदर्शनेन द्राक् क्षुभितस्य महीपतेः । तदोपसर्पन्निद्रस्येवाऽगलत् कम्बिका करात् ॥ ४०९ || अकाण्डताण्डवच्छेदकुपिता राज्ञ्यथाऽवदत् । तालच्युताऽस्मि किमहं वादनाद्विरतोऽसि यत् ? ॥४१०॥ इत्थं पुनः पुनः पृष्टः कम्बिकापातकारणम् । तत्तथाऽऽख्यन्महीपालो बलीयान् स्त्रीग्रहः खलु ॥४११॥ राज्ञ्यूचे दुर्निमित्तेनाऽमुनाऽल्पायुरहं प्रिय ! आजन्माऽऽर्हद्धर्मवत्या मृत्युरप्यस्तु नास्ति भीः ॥४१२|| प्रत्युताऽऽनन्दहेतुर्मे दुर्निमित्तस्य दर्शनम् । तज्ज्ञापनाय भवति यत्सर्वविरतौ म ॥४१३॥ इत्युक्त्वाऽन्तःपुरं राज्ञी ययावविकृताशया । अर्हद्धर्माविद्धकर्णो राजा तु व्यमनायेत ॥४१४ ॥ [[अन्यदा च कृतस्नानशौचा देवी प्रभावती । देवार्चावसरेऽर्हाणि दास्या वासांस्यनाययत् ॥४१५॥
भाव्यनिष्टवशात् तानि राज्ञी रक्तान्युदैक्षत । समयेऽस्मिन्ननर्हाणि ह्यमूनीति चुकोप च ||४१६||
१५७
१. लोहमयाः । २. रङ्गमयाः । ३. प्रभातकालात् । ४. ललाटं तापयन् तपनो यत्र काले । ५. प्रातः । ६. सर्वत्र सं० खं० ३ । ७. रचितोत्सवा मु., नू. मु., खं. २-३ । ८. तत्त्वौघा० खं. १-४, नू. मु. । तानानां समूहेनानुगतं श्रव्यं गेयं यस्मिन् कर्मणि यथा स्यात् तथा । ९. ०गतं० खं. १ ३-४ । १०. अङ्गाहारा अङ्गविन्यासाः, करणानि नृत्यस्थानानि व्यक्ता यत्र तत् । ११. लास्यं मु., नू. मु. । १२ तस्या मस्तकरहितं देहम् । १३. आजि: युद्धं, तत्र कबन्धो यथा युद्धयति तद्वत् । १४. उपसर्पन्तीआगच्छन्ती निद्रा यस्य सः, तस्य । १५. वीणा । १६. तद्दर्शनं मम सर्वविरतौ ( सर्वविरतिविषये) ज्ञापनाय - बोधनाय । १७. अर्हद्धर्मादपरिचितः । १८. विमनायते स्म विषण्ण इत्यर्थः ।