________________
१५६ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व हस्तपादादिवदङ्गे पटह: सहभूरिव । तेनोत्तारयितुं शेके ह्रीमता न कथञ्चन ॥३६३।। ऊचे हासा-प्रहासाभ्यां कर्मेदमिहजन्मनाम् । मा त्रपिष्ठाः प्रतिष्ठस्व वाद्योऽवश्यं त्वयाऽऽनकः ॥३६४॥ ततो हासा-प्रहासाभ्यां गायन्तीभ्यां समन्वितः । पटहं वादयन् सोऽगात् पुरतस्त्रिदिवौकसाम् ॥३६५।। पास नागिलवरो देवो यात्रायां यान् ददर्श च । हासा-प्रहासयोर्वृन्दे तमानकधरं सुरम् ॥३६६।। तं विद्युन्मालिनं दृष्ट्वा पुरः पटहवादकम् । अवधेः सुहृदं ज्ञात्वाऽभिभाषितुमुपासरत् ॥३६७।। तस्य चाङ्गप्रभालोकमुलूक इव भास्वतः । सोढुं दूरादप्यशक्तः पलायनमनाटयत् ॥३६८।। सायाह्नार्क इव तेजः स्वं संहृत्याऽच्युतामरः । विद्युन्मालिनमित्यूचे पश्य जानासि मां न किम् ? ॥३६९।।
देवः पाटहिकोऽप्येवमवाच नन कोऽस्म्यहम । यन्महीन्न जानामि देवानिन्द्रादिकानपि? ॥३७०॥ पाअथ श्रावकरूपं तद्विरचय्याऽच्युतामरः । हासा-प्रहासारमणं तमेवं प्रत्यबोधयत् ॥३७१।। सखे ! मदुपदेशेनाऽऽर्हतं धर्ममनाश्रयन् । अग्निमृत्युं तदाऽकार्षीः पतङ्ग इव मूढधीः ॥३७२।। अहं तु जिनधर्मज्ञः प्रव्रज्यां पालयन् मृतः । तदावयोरभूदीदृगुदर्कः स्वस्वकर्मणः ॥३७३।। ततो निर्वेदमापन्नं पञ्चशैलेश्वरं सुरम् । वदन्तं किं करोमीति ? नागिलस्त्रिदशोऽवदत् ॥३७४॥ गार्हस्थ्ये चित्रशालायां कायोत्सर्गेण तस्थुषः । प्रभोर्भावयतेर्मूर्तिं महावीरस्य कारयेः ॥३७५।। अर्हतः प्रतिमायां हि कारितायां सखे ! तव । उत्पत्स्यते भवेऽन्यस्मिन् बोधिबीजं महाफलम् ॥३७६।। रागद्वेषमोहजितां प्रतिमां श्रीमदर्हताम् । य: कारयेत्तस्य हि स्याद्धर्मः स्वर्गापवर्गदः ॥३७७।। जिनार्चाकारकाणां न कुजन्म कुगतिर्न च । न दारिद्रयं न दौर्भाग्यं न चाऽन्यदपि कुत्सितम् ॥३७८॥ पाविद्युन्माल्यपि तस्याऽऽज्ञामुररीकृत्य सत्वरः । क्षत्रियकुण्डग्रामेऽस्मानपश्यत् प्रतिमास्थितान् ॥३७९।। गत्वा महाहिमवति च्छित्त्वा गोशीर्षचन्दनम् । अस्मन्मूर्ति तथादृष्टां सालङ्कारां चकार सः ॥३८०॥ जात्येन चन्दनेनाऽथ स्वयंघटितसंपुटे । प्रतिमां तां स चिक्षेप निधानमिव तद्धनः ॥३८१।। तदा चैकस्य पोतस्य षण्मास्युत्पातयोगतः । भ्रमतोऽगात् पयोराशौ विद्युन्माली ददर्श तम् ॥३८२।। तमुत्पातं स संहृत्य सद्यः सांयात्रिकाय तम् । समुद्गं प्रतिमागर्भं कथयित्वा समार्पयत् ॥३८३।। ऊचे च तं स्वस्ति तुभ्यमिय्या निरुपद्रवम् । सिन्धुसौवीरविषये त्वं वीतभयपत्तनम् ॥३८४|| ततश्चतुष्पथे स्थित्वा कुर्वीथा हन्त घोषणाम् । देवाधिदेवप्रतिमा गृह्यतां गृह्यतामिति ॥३८५।। पासांयात्रिकोऽपि तत्कालं प्रतिमायाः प्रभावतः । नदीमिव नदीनाथमुत्तीर्य तटमासदत् ॥३८६।। सिन्धुसौवीरदेशेऽथ गत्वा वीतभये पुरे । स्थित्वा चतुष्पथे चक्रे तथैवाऽऽघोषणां स ताम् ॥३८७॥ तापसभक्तस्तत्राऽऽगादुदायननृपः स्वयम् । त्रिदण्डिनो द्विजन्मानस्तापसाश्चाऽपरेऽपि च ॥३८८॥ विष्णुं ब्रह्माणमीशानमिष्टं देवमथाऽपरम् । स्मृत्वा लोकाः कुठारेणाऽऽजघ्नुस्तं काष्ठसंपुटम् ॥३८९॥
१. ०जन्मिनाम् खं. १, नू. मु. । २. पटह: । ३. गच्छन् । ४. अवधिज्ञानात् । ५. परिणामः । ६. गार्हस्थे खं. ३-४ । गार्हस्थ्य० मु., नू. मु. । ७. जिनप्रतिमा जिनार्चा । ८. महाहिमवान् नाम पर्वतस्तत्र । ९. सा प्रतिमैव धनं यस्य सः । अथवा, तद् निधानमेव धनं यस्य सः । १०. समुद्रे । ११. पेटिकाम् । १२. ०मियथा मु. । 'ऋक् गतौ' धातोः पञ्चम्यां द्वितीयपुरुषैकवचने रूपम् । १३. ०देशेषु मु.।