________________
एकादशः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । नागिलो नामधेयेन सुहृत्तस्याऽतिवल्लभः । श्रमणोपासकः शुद्धपञ्चाणुव्रतधार्यभूत् ॥३३५।। एकदा तु पञ्चशैलद्वीपस्थे व्यन्तरस्त्रियौ । प्रास्थिषातां नन्दीश्वरयात्रायै शक्रशासनात् ॥३३६।। तत्पतिः पञ्चशैलेशो विद्युन्माली तदा च्युतः । ते दध्यतुश्च व्युद्ग्राह्यः कोऽद्य नौ यः पतिर्भवेत् ? ॥३३७।। ततस्ताभ्यां प्रयान्तीभ्यां पत्नीनां पञ्चभिः शतैः । कुमारनन्दी विलसंश्चम्पापुर्यामदृश्यत ॥३३८|| तत्समीपेऽवतीर्णे ते व्युद्ग्राहार्थं पतीच्छया । कुमारनन्द्यपि प्रोचे ते दृष्ट्वा के युवामिति ? ॥३३९॥ कथयामासतुस्ते च देव्यावावां मनुष्यक ! । नाम्ना हासा प्रहासा च ते पश्यन्मोहमाप सः ॥३४०॥ लब्धसंज्ञोऽर्थयांचक्रे ते रिरंसुः स हेमकृत् । तेऽवोचतुः समागच्छेींपे त्वं पञ्चशैलके ॥३४१॥ पाइत्युक्त्वोत्पतिते ते तु स्वर्णकारोऽपि भूभुजे । दत्त्वा सुवर्णं पटहाँघोषणामित्यकारयत् ॥३४२।। नेता यः पञ्चशैले मां द्रव्यकोटि स लप्स्यते । एकश्च स्थविरो धृत्वा पटहं धनमाददे ॥३४३।। स्थविर: कारयित्वाऽथ यानपात्रमपूरयत् । भूयसा पथ्यदनेन पुत्रेभ्यस्तु धनं ददौ ॥३४४|| कुमारनन्दिना सार्धं यानारूढोऽब्धिवर्त्मनि । गत्वा स दूरमित्यूचे स्थविरः पश्य नन्वितः ॥३४५।। अब्धिकूले शैलपादजातोऽयं दृश्यते वट: । तदस्मिन् विलगेर्याति यानपात्रमधो यदा ॥३४६।। पञ्चशैलादिहैष्यन्ति भारुण्डास्त्रिपदाः खगाः । तेषु सुप्तेषु चैकस्य कस्याप्यंह्रौ तु मध्यमे ॥३४७|| गाढं बद्ध्वा पटेन स्वं विलगेर्दृढमुष्टिना । प्रातरुड्डीनभारुण्डै: पञ्चशैलं त्वमाप्स्यसि ॥३४८।। (युग्मम्) ततः परं यानपात्रं महावर्ते विनक्ष्यति । अविलग्नो वटे हन्त त्वमप्येवं विनक्ष्यसि ॥३४९॥ पास स्वर्णकृत्तथा चक्रे निन्ये तत्र च पक्षिणा । दृष्टस्ताभ्यां तदृष्ट्या च स विशेषमरज्यत ॥३५०|| ताभ्यां चोचेऽमुनाऽङ्गेन नाऽऽवां भोग्ये तवाऽनघ ! । अग्निप्रवेशादिना तत् पञ्चशैलाधिपो भव ॥३५१॥ किं करोमि ? क्व यामीति भाषमाणः स हेमकृत् । ताभ्यां पाणिपुटे कृत्वा चम्पोद्याने व्यमुच्यत ॥३५२।। पास तूपलक्ष्य लोकेन पृष्ट आख्यन्निजां कथाम् । स्मरन् हासां प्रहासां च प्रारेभेऽथाऽग्निसाधनम् ॥३५३।। स नागिलेन सुहृदा तदैवं प्रत्यबोध्यत । मरणं युज्यते नैवं तव कापुरुषोचितम् ॥३५४|| दुष्प्रापं मानुषं जन्म तुच्छभोगफलार्जनात् । मा नैषीस्तन्मुधा प्रेप्सेत् को रत्नेन वराटिकाम् ? ॥३५५।। भोगार्थ्यवाऽसि चेद्धर्मं तथाप्यार्हतमाश्रयेः । स ह्यर्थ-कामयोः कामधेनुः स्व-र्मोक्षदोऽपि सः ॥३५६।। स एवं वार्यमाणोऽपि नागिलेन निदानतः । इङ्गिनीमरणं कृत्वा पञ्चशैलाधिपोऽभवत् ॥३५७|| पानागिलोऽपि स्वमित्रस्य तेनाऽपण्डितमृत्युना । आसाद्य सद्यो निर्वेदं परिव्रज्यामुपाददे ॥३५८॥ प्रव्रज्यां पालयन्मृत्वा देवोऽभूदच्युते च सः । ददर्शाऽवधिना तं च सुहृदं पञ्चशैलगम् ॥३५९।। श्रीनन्दीश्वरयात्रायां प्रस्थितानां दिवौकसाम् । हासा-प्रहासे चलिते पुरो गातुं तदाज्ञया ॥३६०।। पटहग्रहणे ताभ्यां विद्युन्माली प्रवर्तितः । ऊचे ममापि किं नाम कश्चिदादेशदः प्रभुः ? ॥३६१।। इत्यहङ्कारहङ्कारमुखरास्यस्य तस्य तु । मूर्तं कर्मेवाऽऽभियोग्यं पटहो व्यलद् गगले ॥३६२।।
१. मोहं प्राप्तव्यः । २. सुवर्णकारः । ३. पटहोरो० खं. १ । ४. ०यित्वा च मु., नू. मु. । ५. पाथेयेन । ६. समुद्रतीरे। ७. चोपलक्ष्य मु., नू. मु., खं. २ । ८. इच्छेत् । ९. भोगार्थो वा० मु., नू. मु. । १०. शास्त्रवणितः अनशनप्रकारः । ११. किङ्करत्वजनकं कर्म ।