________________
१५४
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व
राजचक्रे जजागार यथा द्वादशधा स्थिते । तथा श्रावकधर्मेऽपि सोऽप्रमद्वरमानसः ॥३०७|| बहिरङ्गान् यथाऽजैषीद् दुर्जयानपि विद्विषः । अन्तरङ्गानपि तथा स लोकद्वयसाधकः ॥३०८।। तमूचे श्रेणिकोऽन्येधुर्वत्स ! राज्यं त्वमाश्रय । अहं श्रयिष्ये श्रीवीरशुश्रूषासुखमन्वहम् ॥३०९॥ पित्राज्ञाभङ्गसंसारभीरुरित्यभयोऽब्रवीत् । यदादिशथ तत् साधु प्रतीक्षध्वं क्षणं परम् ॥३१०॥ पाइतश्च भगवान् वीर: प्रव्राज्योदायनं नृपम् । मरुमण्डलतस्तत्राऽभ्यागत्य समवासरत् ॥३११।। दिष्ट्याऽद्य भगवानागादिति हृष्टोऽभयोऽपि हि । गत्वा नत्वा भगवन्तं भक्तिमानेवमस्तवीत् ॥३१२।। "सत्त्वस्यैकान्तनित्यत्वे कृतनाशाऽकृतागमौ । स्यातामेकान्तनाशेऽपि कृतनाशाऽकृतागमौ ॥३१३।। आत्मन्येकान्तनित्ये स्यान्न भोगः सुखदु:खयोः । एकान्तानित्यरूपेऽपि न भोगः सुखदुःखयोः ॥३१४|| पुण्यपापे बन्धमोक्षौ न नित्यैकान्तदर्शने । पुण्यपापे बन्धमोक्षौ नाऽनित्यैकान्तदर्शने ॥३१५।। क्रमाक्रमाभ्यां नित्यानां युज्यतेऽर्थक्रिया न हि । एकान्तक्षणिकत्वेऽपि युज्यतेऽर्थक्रिया न हि ॥३१६।। यदा तु नित्यानित्यत्वरूपता वस्तुनो भवेत् । यथाऽऽत्थ भगवन्नैव तदा दोषोऽस्ति कश्चन ॥३१७॥ गुडो हि कफहेतुः स्यान्नागरं पित्तकारणम् । द्वयात्मनि न दोषोऽस्ति गुड-नागरभेषजे ॥३१८|| द्वयं विरुद्धं नैकत्राऽसत्प्रमाणप्रसिद्धितः । विरुद्धवर्णयोगो हि दृष्टो मेचकवस्तुषु ॥३१९॥ विज्ञानस्यैकमाकारं नानाऽऽकारकरम्बितम् । इच्छंस्तथागतः प्राज्ञो नानेकान्तं प्रतिक्षिपेत् ॥३२०॥ चित्रमेकमनेकं च रूपं प्रामाणिकं वदन् । यौगो वैशेषिको वाऽपि नानेकान्तं प्रतिक्षिपेत् ॥३२१॥ इच्छन् प्रधानं सत्त्वाद्यैविरुद्धैर्गुम्फितं गुणैः । सांख्यः संख्यावतां मुख्यो नानेकान्तं प्रतिक्षिपेत् ॥३२२॥ विमतिः संमतिर्वापि चार्वाकस्य न मृग्यते । परलोकात्ममोक्षेषु यस्य मुह्यति शेमुषी ॥३२३।। तेनोत्पादव्ययस्थेमसंभिन्नं गोरसादिवत । त्वदपज्ञं कतधियः प्रपन्ना वस्त वस्तसत ॥३२४॥" इति स्तुत्वा पुनर्नत्वा पप्रच्छ परमेश्वरम् । राजर्षिः कोऽन्तिमोऽथाऽऽख्यत् स्वामी नृपमुदायनम् ॥३२५।। अपृच्छदभयो भूयः कोऽयं स्वामिन्नुदायनः ? | उदायनस्य चरितं ततश्चाऽकथयत् प्रभुः ॥३२६।। पासिन्धुसौवीरदेशेऽस्ति पुरं वीतभयाह्वयम् । तत्रोदायननामाऽभूदवनीशो महाभुजः ॥३२७|| वीतभयादिनगरत्रिषष्टित्रिशतीप्रभुः । सिन्धुसौवीरप्रभृतिनीवृत्षोडशकेश्वरः ॥३२८॥ महासेनादिकदश-किरीटिनृपनायकः । अन्येषामपि विनेता विजय्यासीन्महीतले ॥३२९।। सम्यग्दर्शनपूतात्मा कृततीर्थप्रभावना । प्रभावतीति तस्याऽभूत् पत्नी नाम्ना प्रभावती ॥३३०।। तस्य प्रभावतीजन्मा यौवराज्यधुरन्धरः । जज्ञेऽभीचिः सुतः श्रेष्ठो भागिनेयश्च केश्यभूत् ॥३३१॥ पाइतश्च पुरि चम्पायामाजन्म स्त्रीषु लम्पटः । नाम्ना कुमारनन्दीति स्वर्णकारोऽभवद्धनी ॥३३२॥ यां यां कन्यां चारुरूपामपश्यदशाणोदपि । स्वर्णपञ्चशतीं दत्त्वा तां तां परिणिनाय सः ॥३३३।। शतानि पञ्च पत्नीनां बभूवुस्तस्य च क्रमात् । स ईर्ष्यालुरेकस्तम्भे सौधे ताभिररस्त च ॥३३४||
१. चक्रे द्वादश अराः विद्यन्ते, राजचक्रमपि द्वादशाङ्गमित्याशयः प्रतिभाति, द्वादश राजानस्तस्याऽऽयत्ताः स्युः । २. अप्रमत्तमानसः । ३. पित्राज्ञाभङ्गभीरुः संसारभीरुश्च सः । ४. द्रव्यस्य । ५. यदाऽऽत्थ खं. ४ । ६. गुडोऽपि खं. ४ । ७. शुण्ठी 'झूठ' । ८. एकत्र द्वयं विरुद्धं असत् न, प्रमाण प्रसिद्धितः-इत्थमन्वयः । ९. श्यामप्रधान-वर्णबहुल (कर्बुवर्ण) वस्तुषु । १०. पण्डितानाम् । ११. नीवृद् देशः । १२. बद्धमुकुटाः। १३. ०जन्यो खं. १ ।