________________
एकादशः सर्गः] श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
१५३ ततोऽभयकुमारोऽगात् क्रमाद् राजगृहे पुरे । कथमप्यवतस्थे च कञ्चित् कालं महामतिः ॥२७८।। पागृहीत्वा गणिकापुत्र्यौ रूपवत्यावथाऽभयः । वणिग्वेषोऽगादवन्त्यां राजमार्गेऽग्रहीद् गृहम् ॥२७९।। प्रद्योतेनेक्षिते ते च दारिके पथि गच्छता । ताभ्यां च सविलासाभ्यां प्रद्योतोऽपि निरीक्षितः ॥२८०॥ प्रद्योतेन गृहे गत्वा प्रेषिता रागिणा ततः । दूत्यनुनयन्ती ताभ्यां कुद्धाभ्यामपहस्तिता ॥२८१॥ द्वितीयस्मिन्नपि दिनेऽर्थयमाना नृपाय सा । ताभ्यां शनैः सरोषाभ्यामवामन्यत दूतिका ॥२८२॥ तृतीयेऽप्यहि निर्वेदादेत्य ते याचिते तया । अवोचतां सदाचारो भ्राता नावेष रक्षति ॥२८३।। ततो बहिर्गतेऽमुष्मिन् सप्तमेऽह्नि समागते । इहाऽऽयातु नृपश्छन्नस्ततः सङ्गो भविष्यति ॥२८४|| प[अथाऽभयेन प्रद्योतसदृगेकः पुमान्निजः । उन्मत्तो विदधे तस्य प्रद्योत इति नाम च ॥२८५।। ईदृशोऽयं मम भ्राता भ्राम्यतीतस्ततस्ततः । रक्षितव्यो मया हा किं करोमीत्यवदज्जने ॥२८६।। तं वैद्यसद्मनयनच्छद्मना प्रत्यहं बहिः । रटन्तं मञ्चकारूढं निनायाऽऽर्त इवाऽभयः ॥२८७।। नीयमानश्च तेनोच्चैः स उन्मत्तश्चतुष्पथे । प्रद्योतोऽहं ह्रियेऽनेनेत्युदश्रुवदनोऽरटत् ॥२८८।। सप्तमेऽह्नि नृपोऽप्यागात्तत्र प्रच्छन्नमेककः । कामान्धः सिन्धुर इव बद्धश्चाऽभयपूरुषैः ॥२८९।। नीयतेऽसौ वैद्यवेश्मेत्यभयेनाऽपि भाषिणा । पर्यड्रेन समं जढे परान्तः स रटन दिवा ॥२९०॥ क्रोशे क्रोशे पुरो मुक्तै रथैरथ सुवाजिभिः । पुरे राजगृहेऽनैषीत् प्रद्योतमभयोऽभयः ॥२९१।। ततो निनाय प्रद्योतं श्रेणिकस्य पुरोऽभयः । दधावे खड्गमाकृष्य तं प्रति श्रेणिको नृपः ॥२९२।।
अथाऽभयकमारेण बोधितो मगधेश्वरः । संमान्य वस्त्राभरणैः प्रद्योतं व्यसजन्मदा ॥२९३।। प[अन्यदा गणभृदेवसुधर्मस्वामिनोऽन्तिके । प्रव्रज्यामग्रहीत् कोऽपि विरक्तः काष्ठभारिकः ॥२९४|| विहरन् स पुरे पौरैः पूर्वावस्थाऽनुवादिभिः । अभय॑तोपाहस्यताऽगीतापि पदे पदे ॥२९५।। नाऽवज्ञां सोढुमीशोऽत्र ततो विहरताऽन्यतः । इति व्यज्ञपयत् स श्रीसुधर्मस्वामिनं गुरुम् ॥२९६।। सुधर्मस्वामिनाऽन्यत्र विहारक्रमहेतवे । आपृच्छयताऽभयः पृच्छन् ज्ञापितस्तच्च कारणम् ॥२९७|| दिनमेकं प्रतीक्षध्वमूर्ध्वं यत् प्रतिभाति वः । तद्विधत्तेत्ययाचिष्ट प्रणम्य श्रेणिकात्मजः ॥२९८॥ पासोऽथ राजकुलात् कृष्ट्वा रत्नकोटित्रयीं बहि: । दास्याम्येतामेत लोकाः ! पटहेनेत्यघोषयत् ॥२९९।। ततश्चेयुर्जनाः सर्वेऽप्यवोचदभयोऽप्यदः । जलाग्निस्त्रीवर्जको यस्तस्य रत्नोच्चयोऽस्त्वयम् ॥३००।। लोकोत्तरमिदं लोकः स्वामिन् ! किं कर्तुमीश्वरः ? । इति तेष्वाभाषमाणेष्वभयोऽपीत्यभाषत ॥३०१।। यदि वो नेदृशः कश्चिद् रत्नकोटित्रयं ततः । जलाग्निस्त्रीमुचः काष्ठभारिणोऽस्तु महामुनेः ॥३०२॥ सम्यगीदृगयं साधुः पात्रदानस्य युज्यते । मुधाऽसौ हसितोऽस्माभिरिति तैर्जगदेऽभयः ॥३०३।।
अस्य भोपहासादि न कर्तव्यमतः परम् । आदिष्टमभयेनैवं प्रतिपद्य ययुर्जनाः ॥३०४|| पाएवं बुद्धिमहाम्भोधिः पितृभक्तिपरोऽभयः । निरीहो धर्मसंसक्तो राज्यमन्वशिषत् पितुः ॥३०५।।
वर्तमानः स्वयं धर्मे स प्रजा अप्यवर्तयत् । प्रजानां च पशूनां च गोपायत्ताः प्रवृत्तयः ॥३०६।। १. अपमानपूर्वकं निष्कासिता । २.०प्यन्यनिर्वे० मु., नू. मु. । ३. नौ-आवाम् । ४. निनायार्तमिवा० मु., नू. मु. । ५. ० येनाभि० मु., नू. मु. । ६. पुरा खं. ४ । ७. ०भारकः खं. १ । ८. ततश्चैयु० नू. मु. ।