________________
१५२
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व वासवदत्ता काञ्चनमाला चैव वसन्तकः । वेगवती घोषवती वत्सराजश्च यान्त्यमी ॥२५०।। प्रेरयन् वारणवधू वत्सराजोऽतिरंहसा । आत्मानं ज्ञापयन्नेवं नाऽलुम्पत् क्षत्रियव्रतम् ॥२५१॥ प्रद्योतोऽपि गतं ज्ञात्वोदयनं पञ्चभिः सह । करौ जघर्षाऽक्षयूते पाशकान् पातयन्निव ॥२५२॥ पाअवन्तीशो नलगिरिं सन्नाह्याऽसह्यविक्रमः । निषादिभिर्महायोधैरास्थितं पृष्ठतोऽमुचत् ॥२५३।। पञ्चविंशतियोजन्यामतीतायां स कुञ्जरः । अदवीयानुदयनेनाऽदृश्यत भयङ्करः ॥२५४|| ततो मूत्रघटीमेकां स्फोटयित्वा महीतले । तथैव प्रेरयामासोदयनस्तां करेणुकाम् ॥२५५॥ गजोऽपि तद्घटीमूत्रं जिघ्रन् क्षणमिवाऽस्थित । कष्टेन प्रेर्यमाणस्तु प्रससार पुनस्तथा ॥२५६।। मार्गे मूत्रघटीरन्या अपि तावति तावति । स्फोटं स्फोटं नलगिरेवत्सराजोऽरुणद् गतिम् ॥२५७।। योजनानां शतं गत्वा कौशाम्बी प्रविवेश सः । परिश्रान्ता तदा सा च व्यपद्यत करेणुका ॥२५८॥ यावच्च मूत्रमाजिघ्रन् प्रससार न वारणः । कौशाम्बीपतिसेनाऽपि तावद् योद्धमढौकत ॥२५९॥ पानिषादिनो नलगिरिं वालयित्वा ततश्च ते । पथा यथागतेनैव पुनरुज्जयनी ययुः ॥२६०।।
कटकोपक्रमं कुर्वन् प्रद्योतः कुलमन्त्रिभिः । भक्तैः कोपकृतान्तोऽपि युक्तिपूर्वमवार्यत ॥२६१॥ वराय यस्मै कस्मैचिद्देयाऽवश्यं हि कन्यका । तद् वत्सराजादधिकं कं जामातरमाप्स्यसि ? ॥२६२।। भेजे वासवदत्ता तं स्वयमेव स्वयंवरा । स्वामिस्त्वहितः पुण्यैरुचितः सोऽभवद्वरः ॥२६३॥ तदलं कटकारम्भेणाऽनुमन्यस्व तं वरम् । यतो वासवदत्तायाः स कौमारहरोऽभवत् ॥२६४|| इति तैर्बोधितो राजा वत्सराजाय संमदात् । प्रैषीज्जामातृभावार्ह वस्तुजातं विधेयवित् ॥२६५।। पाअभूदवन्त्यामन्येद्युनिविच्छेदं प्रदीपनम् । पृष्टश्च तत्प्रतीकारं प्रद्योतेनाऽभयोऽवदत् ॥२६६॥ विषस्येव विषं वर्तेर्वह्निरेव यदौषधम् । तदन्यः क्रियतां वह्निर्यथा शाम्येत् प्रदीपनम् ॥२६७।। तत्तथा विदधे राजाऽशाम्यत् तच्च प्रदीपनम् । तृतीयं च वरं सोऽदान्यासीचक्रेऽभयश्च तम् ॥२६८।। प[अशिवं महदन्येधुरुज्जयन्यां समुत्थितम् । तत्प्रशान्त्यै नरेन्द्रेण पृष्ट इत्यभयोऽब्रवीत् ॥२६९।।
आगच्छन्त्वन्तरास्थानं देव्यः सर्वा विभूषिताः । युष्माञ्जयति या दृष्ट्या कथनीया तु सा मम ॥२७०|| तथैव विदधे राज्ञा राज्योऽन्या विजिता दृशा । देव्या तु शिवया राजा कथितं चाऽभयाय तत् ॥२७१।। अभाषताऽभयोऽप्येवं महाराज्ञी शिवा स्वयम् । करोतु कूरबलिना भूतानामर्चनं निशि ॥२७२।। यद्यद भूतं शिवारूपेणोत्तिष्ठत्यथवाऽऽस्यते । तस्य तस्य मुखे देव्या क्षेप्यः करबलिः स्वयम् ॥२७३|| विदधे शिवया तच्चाऽशिवशान्तिर्बभूव च । तुर्यं चाऽदाद्वरं राजा ययाचे चाऽभयोऽप्यदः ॥२७४।। पास्थितो नलगिरौ मिण्ठीभूते त्वयि शिवाङ्कगः । अहं विशाम्यग्निभीरुथदारुकृतां चिताम् ॥२७५॥ ततो विषण्णः प्रद्योतो वरं दातुमशक्नुवन् । विससर्जाऽञ्जलिं कृत्वा कुमारं मगधेशितुः ॥२७६।। आशुश्रावाऽभयोऽप्येवं त्वयाऽऽनीतश्च्छलादहम् । दिवा रटन्तं पूर्मध्ये त्वां तु नेष्याम्यसावहम् ॥२७७||
१. राजोऽपि रं० खं. १ । २. हस्तौ घृष्टवान् । यथा द्यूतवेलायां पाशकान् पातयन् द्यूतकार: करौ घर्षति तद्वत् । ३. ०वाऽऽस्थितः खं. १-३-४ । ४. न खं. १ । ५. कृत्यवित् । ६. अग्नेरुपद्रवः । ७. आगच्छंस्त्वन्त० मु. खं. २ । राजसभामध्ये । ८. शृगाली। ९. ०सते खं. ३-४ । १०. मेडीभूते मु. । मेण्ठीभूते खं. ४ । निषादीभूते, 'महावत' भूते त्वयि-प्रद्योतराजे । ११. प्रतिज्ञा चक्रे।