________________
एकादशः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
१५१
कलाचार्य ! कलाः सम्यग् मयि संक्रमितास्त्वया । तास्तवैवोपयोगिन्यः सन्तु भर्ता त्वमेधि मे ॥२२२।। पावत्सराजोऽवदद् भद्रे ! त्वत्पित्रैवाऽस्मि वञ्चितः । काणेत्यन्तरितां कृत्वा त्वां पश्यन्नस्मि वारितः ॥२२३।।
कान्ते ! तदावयोर्योगो भवत्वत्रैव तस्थुषोः । समये त्वां हरिष्यामि वैनतेयः सुधामिव ॥२२४|| स्वयंदूत्येन वैदग्धीबन्धुरं जल्पतोरिति । मनोयोगस्पर्द्धयेव वपुर्योगोऽप्यभूत्तयोः ॥२२५॥ दासी वासवदत्ताया धात्री विश्रम्भभाजनम् । एका काञ्चनमालैव विवेद चरितं तयोः ॥२२६॥ एकयैवोपास्यमानौ दास्या काञ्चनमालया । केनाप्यज्ञातदाम्पत्यौ तौ कालमतिनिन्यतुः ॥२२७।। पाअन्यदाऽऽलानमुन्मूल्य पातयित्वा निषादिनौ । स्वैरं नलगिरिभ्रम्यिन् क्षोभयामास नागरान ॥२२८॥
असाववशगो हस्ती वशं नेयः कथं न्विति ? । राज्ञा पृष्टोऽभयोऽशंसद् गायतूदयनो नृपः ॥२२९॥ गीतं नलगिरेरग्रे कुर्वित्युक्तोऽथ भूभुजा । जगावुदयनस्तत्र समं वासवदत्तया ॥२३०।। तद्गीताकर्णनाऽऽक्षिप्तो बद्धोऽनलगिरिः करी । पुनर्ददौ वरं राजा न्यासीचक्रेऽभयस्तथा ॥२३१।। प[अन्यदोद्यापनिकयोद्यानं प्रत्यचलन्नृपः । सान्तःपुरपरीवारः पौरैः सह महद्धिभिः ॥२३२।। तदा च वत्सराजस्य मोक्षोपायं विचिन्तयन् । मार्गे परिभ्रमन्नासीन्मन्त्री योगन्धरायणः ॥२३३।। स्वबुद्धिविभवोष्माणं हृदन्तर्धर्तुमक्षमः । स पपाठ यन्मनसि प्रायस्तद्धि वचस्यपि ॥२३४॥ यदि तां चैव तां चैव तां चैवाऽऽयतलोचनाम् । न हरामि नृपस्याऽर्थे नाहं योगन्धरायणः ॥२३५।। गच्छंश्च चण्डप्रद्योतस्तस्य वाचं ससौष्ठवाम् । आकर्ण्य तं निरैक्षिष्ट दुष्कटाक्षेण चक्षुषा ॥२३६।। योगन्धरायणोऽप्याशु परेषामिङ्गितादिभिः । भावज्ञोऽवन्तिनृपति विवेद कुपितं तदा ॥२३७|| कौशाम्बीपतिगृह्यत्वमपाकर्तुं स आत्मनः । प्रत्युत्पन्नधियां धुर्य इदमौपयिकं व्यधात् ॥२३८।। मक्त्वा संव्यानमर्ध्वस्थः प्रेतातिविकताकतिः । मत्रयन व्यञ्जयामास भूताविष्टत्वमात्मनः ॥२३९।। पिशाचकी कश्चिदसाविति ज्ञात्वा नृपोऽपि हि । सद्यः कोपं निजग्राह निषादीव मतङ्गजम् ॥२४०॥ पाततश्च चण्डप्रद्योतो गत्वोद्यानेऽनवद्यवाक् । गान्धर्वगोष्ठीमारेभे स्मरद्विपमहौषधम् ॥२४१॥ गान्धर्वकौशलं द्रष्टुं नवं प्रद्योतभूपतिः । आह्वद् वासवदत्तां च वत्सराजं च कौतुकी ॥२४२।। ऊचे प्रद्योततनयां वत्सराजः शभानने ! । आरुह्येभी वेगवती गन्तं कालोऽयमावयोः ॥२४३॥ पासद्यो जितमरुद्वेगां ततो वेगवतीमिभीम् । आनाययदवन्तीशदुहितोदयनाज्ञया ॥२४४|| कक्षायां बध्यमानायां सा ररास च हस्तिनी । श्रुत्वा तद्रसितं चैवमन्धमौहूर्तिकोऽवदत् ।।२४५॥ कक्षायां बध्यमानायां यथा रसति हस्तिनी । योजनानां शतं गत्वा प्राणत्यागं करिष्यति ॥२४६।। वसन्तको हस्तिपकोऽबध्नादुदयनाज्ञया । चतस्रो मूत्रघटिकाः करिण्याः पार्श्वयोर्द्वयोः ॥२४७|| वत्सराजो घोषवतीपाणिः प्रद्योतनन्दना । काञ्चनमाला वसन्तश्चाऽऽरोहंस्तामथ द्विपीम् ॥२४८||
यो गन्धरायणोऽप्येत्य नुनोद करसंज्ञया । याहि याहीत्युदयनं सोऽपि गच्छन्नदोऽवदत् ॥२४९।। १. त्वमेव खं. ४ । एधि-भव । २. गरुडोऽमृतमिव । ३. स्वयमेव स्वकृते दूतकार्यकरणेन, चातुर्यान्वितम् । ४. ०वरं ददौ खं. ४ । ५. 'उजाणी' उद्यापनिका । ६. ८. ९. यौग० खं. ४ । ७. स्वं बुद्धि० खं. १-४ । १०. कौशाम्बीपत्युः सेवकत्वम् । ११. उत्तरीयवस्त्रम् । १२. पिशाचग्रस्तः । १३. गन्धर्व० खं. ४ । १४. सा शब्दं अपशकुनसंकेतात्मकं चक्रे । १५. मूत्रार्थं लघुघटाः । १६. वीणापाणिः । १७. योग० खं. १-४ ।
१७