SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १५० कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं [दशमं पर्व कार्यस्तत्र कलिजैश्च वने सत्य इव द्विपः । कुर्वन् यन्त्रप्रयोगेण क्रिया गत्यासनादिकाः ॥१९४|| कलिञ्जहस्तिमध्ये च भटाः स्थास्यन्ति शस्त्रिणः । ते गजं चलयिष्यन्ति भत्स्यन्ति च त एव तम् ॥१९५।। बद्ध्वा चैवं वत्सराज इहाऽऽनीतस्तवाऽऽज्ञया । कन्यां वासवदत्तां ते गान्धर्वं शिक्षयिष्यति ॥१९६।। पासाधु साध्विति राज्ञाऽनुमतो मन्त्र्यपि तं तथा । अकारयद् गजं सत्यगजादप्यधिकं गुणैः ॥१९७|| दन्तघात-करोत्क्षेप-बृंहितप्रसरादिभिः । तं कुञ्जरं वनचरा विदाञ्चक्रुरकृत्रिमम् ॥१९८|| पावनेचरास्तं करिणमाख्यन्नुदयनाय ते । तद्बन्धार्थं वने तस्मिन् ययावुदयनोऽपि हि ॥१९९।। दूरे मुक्त्वा परीवारं परिक्रामञ्च्छनैः शनैः । शकुनान्वेषक इव वनान्तः प्रविवेश सः ॥२००|| मायाकरटिनस्तस्य समीपमुपसृत्य च । जगावुदयनस्तारमधरीकृतकिन्नरः ॥२०१।। जगावुदयनो गीतं सुधास्वादु यथा यथा । तथा तथाऽन्तःपुरुषाः स्तिमिताङ्गं गजं व्यधुः ॥२०२।। कौशाम्बीशोऽपि तं नागं मन्वानो गीतमोहितम । शनैः शनैरभ्यसर्पत्तिमिरे संचरन्निव ॥२०॥ मूढोऽयं मम गीतेनेत्युपसृत्य स पार्थिवः । उत्प्लुत्येभं तमारोहद्विहङ्ग इव पादपम् ॥२०४।। प्रद्योताऽऽयुक्तसुभटा निःसृत्य द्विरदोदरात् । पातयित्वा गजस्कन्धाद् वत्सराजमबन्धयन् ॥२०५।। एकाकी च निरस्त्रश्च विश्वस्तश्च शतैर्भटैः । नाऽकार्षीत् पौरुषं रुद्धः कुक्कुरैरिव सूकरः ॥२०६।। पाऊचे च चण्डप्रद्योतो वत्सराजं भटार्पितम् । मत्पुत्रीं शिक्षयैकाक्षीं त्वं गान्धर्वकलां निजाम् ॥२०७।। मत्कन्याऽध्यापनेन त्वं सुखं तिष्ठ मदोकसि । अन्यथा तव बद्धस्य मदधीनं हि जीवितम् ॥२०८।। दध्यावुदयनोऽप्येवं कन्यामध्यापयन्नहम् । कालं क्षिपामि जीवन् हि नरो भद्राणि पश्यति ॥२०९।। इति चेतसि निश्चित्य तत् प्रद्योतस्य शासनम् । अनुमेने वत्सराजः स पुमान् यो हि कालवित् ॥२१०।। पाऊचे च चण्डप्रद्योतः काणा हि दुहिता मम । मा जातु तां निरीक्षेथाः सा हि लज्जिष्यतेऽन्यथा ॥२११।। इत्युक्त्वाऽन्तःपुरे गत्वा तनयामप्युवाच सः । गान्धर्वगुरुरायातो न वीक्ष्यः कुष्ठ्ययं यतः ॥२१२।। पावत्सराजोऽपि गान्धर्वं तां तथैवाऽध्यजीगपत् । प्रद्योतवञ्चितौ तौ तु मिथो ददृशतुर्न तु ॥२१३।। पश्याम्यमुमिति ध्यायन्त्यन्यदाऽवन्तिनाथसूः । मनःशून्याऽन्यथाऽपाठीन्मनोऽधीनं हि चेष्टितम् ॥२१४|| वत्सराजस्तदाऽवन्तिराजपुत्रीमतर्जयत् । विनाशयसि किं शास्त्रं काणे ! दु:शिक्षिताऽसि किम् ? ॥२१५।। सा तिरस्कारकुपिता वत्सराजमदोऽवदत् । किं काणामभिधत्से मां ? कुष्ठिनं स्वं न पश्यसि ? ॥२१६।। दध्यौ चैवं वत्सराजः कुष्ठभाग् यादृगस्म्यहम् । काणापि तागेवैषा पश्यामि तदिमां खलु ॥२१७|| इत्यपासारयत् काण्डपटं स धिषणापटुः । ददर्श मेघनिर्मुक्तामिन्दुलेखामिवाऽथ ताम् ॥२१८॥ तं च वासवदत्ताऽपि सद्यः स्फारितलोचना । सर्वाङ्गसुभगं साक्षादिवाऽद्राक्षीन्मनोभुवम् ॥२१९।। दृष्ट्वा वासवदत्तां तं वत्सराजोऽपि तां तदा । परस्परानुरागर्द्धिसूचकं चक्रतुः स्मितम् ॥२२०॥ प्रद्योतपुत्री प्रोवाच धिग्धिक् ! पित्राऽस्मि वञ्चिता । कू हूतमिलेन्दुमिव याऽपश्यं त्वां न सुन्दर ! ॥२२१॥ १. काष्ठैः । २. बन्धनं करिष्यन्ति । भत्स्यन्ते खं. १ । ३. पक्षिव्याध इव । ४. ०सर्प तिमिरे खं. १ । ५. स्तब्धो० नू. मु.। ६. तां मु. । ७. शून्यचित्ता । ८. जवनिकाम् । ९. कामदेवम् । १०. अमावस्योपरि प्रतिपत् कुहूः, तस्यास्तमिस्र स्थितं चन्द्रमिव।
SR No.001459
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 10
Original Sutra AuthorHemchandracharya
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy