________________
एकादशः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । वचनप्रत्ययात्तस्या अन्यत्रेयुर्गवेषकाः । स्थाने स्थाने स्थापिताश्वैः साऽप्यवन्ती समाययौ ॥१६७।। पासा प्रचण्डाऽभयं चण्डप्रद्योतायाऽऽर्पयत्ततः । अभयानयनोपायस्वरूपं च व्यजिज्ञपत् ॥१६८।। तां प्रद्योतोऽप्युवाचैवं न साधु विहितं त्वया । यदमुं धर्मविश्रब्धं त्वं धर्मच्छद्मनाऽऽनयः ॥१६९।। कथासप्ततिसंशंसी मार्जार्येव शुकोऽनया । नीतिज्ञोऽपि गृहीतोऽसि जगादेत्यभयं च सः ॥१७०॥ अभयोऽप्यब्रवीदेवं त्वमेव मतिमानसि । यस्यैवंविधया बुद्ध्या राजधर्मः प्रवर्धते ॥१७१॥ लज्जितः कुपितश्चाथ चण्डप्रद्योतभूपतिः । राजहंसमिवाऽक्षप्सीदभयं काष्ठपञ्जरे ॥१७२।। पाअग्निभीरुथो देवी शिवानलगिरिः करी । लोहजो लेखवाहो राज्ये रत्नानि तस्य तु ॥१७३।। लोहजङ्गं नृपः प्रैषीद भृगकच्छे मुहर्महः । तद्गताऽऽगतसंक्लिष्टास्तत्रत्या इत्यसूत्रयन् ॥१७४|| आयात्ययं दिनेनापि पञ्चविंशतियोजनीम् । असकृद् व्याहरत्यस्मान् हन्मः संप्रत्यमुं ततः ॥१७५।। ते विमृश्येत्यदुस्तस्य शम्बले विषमोदकान् । तद्भस्त्राशम्बलं चान्यत् समन्तादप्यपाहरन् ॥१७६।। वर्त्म कियदप्युल्लङ्घ्य नदीरोधसि शम्बलम् । तद्भोक्तुमवतस्थे सोऽभूवन्नशकुनान्यथ ॥१७७|| शकुनज्ञस्तु सोऽभुक्त्वोत्थाय दूरं ययौ ततः । क्षुधितो भोक्तुकामोऽभूद् वारितः शकुनैः पुनः ॥१७८।। दूरं गत्वा भोक्तुकामः शकुनैर्वारितः पुनः । ततो गत्वा स तत् सर्वं प्रद्योतस्य न्यवेदयत् ॥१७९।। पाततो राज्ञा समाहूय तत्पृष्टः श्रेणिकात्मजः । पाथेयभस्त्रामाघ्राय जगाद मतिमानिदम् ॥१८०॥
अस्ति दृष्टिविषोऽत्राऽहिर्द्रव्यसंयोगसम्भवः । असौ दग्धो भवेन्नूनं भस्त्रामुद्घाटयेद् यदि ॥१८१॥ ततः पराङ्मुखोऽरण्ये मोच्य इत्यभयोदिते । तथैव मुमुचे सद्यो दग्धा वृक्षा मृतश्च सः ॥१८२।। विना बन्धनमोक्षं त्वं वरं याचस्व मामिति । नृपेणोक्तेऽभयोऽवादीन्न्यासीभूतोऽस्तु मे वरः ॥१८३।। पाइतश्च चण्डप्रद्योतराजस्य श्रीरिवोदधेः । अभूद् वासवदत्तेति सुताऽङ्गारवतीभवा ॥१८४॥ धात्रीजनैाल्यमाना वर्धमाना क्रमेण सा । राज्यलक्ष्मीरिव साक्षाद् रेमे राजगृहाङ्गणे ॥१८५॥ सर्वलक्षणसम्पर्णा विनयादिगणान्विताम । पत्रादप्यधिकां मेने राजा तामतिवत्सलः ॥१८६।। आत्मानुरूपगुर्वन्ते साऽध्यैष्ट सकलाः कलाः । गान्धर्ववेद एवैकोऽवाशिष्यत गुरुं विना ॥१८७।। राजाऽपृच्छच्च सचिवं बहुदृष्टं बहुश्रुतम् । भावी को नाम दुहितुर्गान्धर्वाध्यापने गुरु: ? ॥१८८।। प्रायेण राजपुत्रीणां गतानां पतिवेश्मनि । पत्युविनोदे गान्धर्वकलैव ह्युपयोगिनी ॥१८९॥ मन्त्री प्रोवाच गान्धर्वधुरीणानां शिरोमणिः । संप्रत्युदयनो राजा मूर्तिरन्यैव तुम्बरोः ॥१९०॥ श्रूयते तस्य गान्धर्वकला काऽप्यतिशायिनी । गीतेन मोहयित्वा यो वने बध्नाति सिन्धुरान् ॥१९१।। स गायति वने गत्वा गजास्तद्गीतमोहिताः । अपि बन्धं न जानन्ति पीतस्वादुरसा इव ॥१९२।। गीतोपायेन स यथा वने बध्नाति सिन्धुरान् । तथा तस्याऽप्युपायोऽस्ति बन्धेऽत्राऽऽनयनेऽपि च ॥१९३।।
१. 'शुकसप्ततिः' इति कथाग्रन्थः ख्यातः । तां शुकसप्तति शंसन् शुको यथा मार्जार्या गृहीतस्तथाऽनया वेश्यया त्वं गृहीत इत्यभयं स:-प्रद्योतो जगाद । २. अग्र० खं. १ । ३. पाथेये । ४. तस्य सविधे भस्त्रायां-पोट्टल्यां यत् शम्बलं तत् । ५. प्रद्योताय खं. ४ । ६. तुम्बुरोः खं. १ । गन्धर्वविशेषः ।