________________
१४८
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व बाह्योद्याने कृतावासा सा पणस्त्रीमतल्लिका । पत्तनान्तर्ययौ चैत्यपरिपाटीचिकीर्षया ॥१४१॥ सा विभूत्याऽतिशायिन्या चैत्ये नृपतिकारिते । प्रविवेश समं ताभ्यां कृत्वा नैषेधिकीत्रयम् ॥१४२॥ मालवकैशिकीमुख्यग्रामरागजुषा गिरा । देवं वन्दितुमारेभे सपर्यां विरचय्य सा ॥१४३।। तत्राऽभयकुमारोऽपि ययौ देवं विवन्दिषुः ! अग्रे चाऽऽत्मतृतीयां तां वन्दमानामुदैक्षत ॥१४४|| देवदर्शनविघ्नोऽस्या मा भूत् प्रविशता मया । द्वार्येवेत्यभयस्तस्थौ मण्डपान्तविवेश न ॥१४५।। प्रणिधानस्तुतिं कृत्वा सा मुक्ताशुक्तिमुद्रया । यावदुत्तस्थुषी तावदभयोऽभ्याजगाम ताम् ॥१४६।। तादृशीं भावनां तस्यास्तं वेषं प्रशमं च तम् । अभयो वर्णयामास सानन्दं च जगाद ताम् ॥१४७|| पादिष्ट्या भद्रेऽधुना त्वादृक्साधर्मिकसमागमः । साधर्मिकात् परो बन्धुर्न संसारे विवेकिनाम् ॥१४८॥ का त्वं ? किमागम: ? का वाऽऽवासभूरिमके च के ? । यकाभ्यां स्वाति-राधाभ्यामिन्दुलेखेव शोभसे ॥१४९।। व्याजहाराऽथ सा व्याजश्राविकाऽवन्तिवासिनः । महेभ्यवणिजः पाणिगृहीती विधवा न्वहम् ॥१५०॥ इमे च मम पुत्रस्य कलत्रे कालधर्मतः । विच्छाय्यभूतां विधवे भग्नवृक्षे लते इव ॥१५१।। व्रतार्थं पृच्छतः स्मैते उभे अपि तदैव माम् । विपन्नपतिकानां हि सतीनां शरणं व्रतम् ॥१५२।। मयाऽप्युक्ते ग्रहीष्यामि निर्वीराऽहमपि व्रतम् । गार्हस्थ्यस्य फलं किं तु गृह्यतां तीर्थयात्रया ॥१५३।। व्रते हि भावतः पूजा युज्यते द्रव्यतो न तु । इत्यहं तीर्थयात्रार्थमेताभ्यां सह निर्गता ॥१५४।। प[अथेत्थमभयोऽवोचदतिथीभवताऽद्य नः । आतिथेयं सतीर्थ्यानां तीर्थादप्यतिपावनम् ॥१५५।। प्रत्युवाचाऽभयं साऽपि युक्तमाह भवान् परम् । कृततीर्थोपवासाऽहं भवाम्यद्याऽतिथिः कथम् ? ॥१५६॥ अथ तन्निष्ठया हृष्टोऽभयस्तामवदत् पुनः । अवश्यं मम तत्प्रातरागन्तव्यं निकेतनम् ॥१५७|| साऽप्यूचे यत्क्षणेनापि जन्मिनो जन्म पूर्यते । अहं प्रातरिदं कर्ताऽस्मीति जल्पेत् कथं सुधीः ? ॥१५८|| अस्त्विदानीमियं भूयः श्वो निमन्त्र्येति चिन्तयन् । तां विसृज्याऽभयश्चैत्यं वन्दित्वा स्वगृहं ययौ ॥१५९।। तां निमन्त्र्याऽभयः प्रातर्गृहचैत्यान्यवन्दयत् । भोजयामास च प्राज्यवस्त्रदानादि च व्यधात् ॥१६०।। निमन्त्रितस्तयाऽन्येद्युमितीभूयाऽभयोऽप्यगात् । साधर्मिकोपरोधेन किं न कुर्वन्ति तादृशाः ? ॥१६१।। तया च विविधैर्भोज्यैरभयोऽकारि भोजनम् । चन्द्रहाससुरामिश्रपान कानि च पायितः ॥१६२।। भुक्तोत्थितश्च सुष्वाप तत्कालं श्रेणिकात्मजः । आदिमा मद्यपानस्य निद्रा सहचरी खलु ॥१६३।। तं रथेन स्थाने स्थाने स्थापितैश्चाऽपरै रथैः । अवन्तीं प्रापयामास दुर्लक्ष्यच्छद्मसद्म सा ॥१६४।। ततोऽभयान्वेषणाय श्रेणिकेन नियोजिताः । स्थाने स्थाने मार्गयन्तस्तत्राप्येयुर्गवेषकाः ॥१६५।। किमिहाऽभय आयात ? इत्युक्ता तैरुवाच सा । इहाऽभयः समायातः परं यातस्तदैव हि ॥१६६।।।
१. वेश्यासु श्रेष्ठा । २. जैनमन्दिराणां दर्शनेच्छया । ३. त्रयीम् खं. ४ । सांसारिकव्यापारनिषेधसूचकं त्रि: उच्चारणम् 'निसीहिनिषेधामि' इति रूपम् । ४. आत्मना तृतीया सा, युवतिद्वययुक्तत्वात् । ५. कुत्र वससीत्यर्थः । इमके युवत्यौ च के ? । रिमिके खं. १-४ । ६. ०राका० खं. ४ । यथा चन्द्रलेखा स्वाति-अनुराधानक्षत्राभ्यां शोभते, तथा त्वामेताभ्यामित्यर्थः । ७. कृत्रिमश्राविका । ८. विवाहिता । ९. त्वहम् मु., नू. मु. । १०. विच्छाये-शोभाविहीने, न विच्छाये विच्छाये अभूताम् । ११. ०वृक्षलते खं. २ मु., नू. मु. । १२. विधवा । १३. साधमिकाणाम् । १४. ०मिदं खं. १. । १५. स्वं गृहं खं. १ । १६. एकाक्येव । १७. ०पानिकानि खं. १ । १८. दुर्लक्ष० खं. १-३ । १९. ०स्तत्रोपेयु० मु. । ०स्तत्राप्यैयु० नू. मु. ।