Book Title: Trishashtishalakapurushcharitammahakavyam Parva 10
Author(s): Hemchandracharya, Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 185
________________ एकादशः सर्गः] श्रीत्रिषष्टिशलाकापुरुषचरितम् । १६१ आरक्षैः स व्रजन् वेगात् पुरवर्त्मन्यसंचरे । धृत्वा चोरधियाऽबन्धि चोरचर्या हि तादृशी ॥५००॥ स प्रसेनजितो राज्ञः पुरः प्रातरनीयत । पृष्टश्च कथयामास स्वर्णमाषकथां तथा ॥५०१।। राजाऽपि तत्तथा श्रुत्वा कृपावारितरङ्गितः । तं स्माऽऽह हंहो ! याचस्व यच्छाम्येव यदिच्छसि ॥५०२।। विमृश्य मार्गयिष्यामीत्युक्त्वाऽशोकवनान्तरे । गत्वा योगीवैकमना भूत्वा चाऽचिन्तयद् द्विजः ॥५०३।। द्विमाष्या स्यान्न वस्त्रादि तत् सुवर्णशतं नृपात् । याचे याचितलाभे हि याचना किं तनीयसी ? ॥५०४॥ न स्यात् स्वर्णशतेनापि प्रक्रिया वाहनादिका । याचे स्वर्णसहस्रं तदिष्टार्थप्राप्तिवेतनम् ||५०५।। सहस्रेणापि मेऽपत्यविवाहाद्युत्सवः कुतः ? । इति लक्षमहं याचे याचनाचतुरोऽस्मि हि ॥५०६।। लक्षेणापि सुहृबन्धुदीनायुद्धरणं कुतः ? । कोटि कोटिशतं कोटिसहस्रं वा तदर्थये ॥५०७|| पाएवं चिन्तयतस्तस्य शुभकर्मोदयादभूत् । इति धी: सुपरीणामा धीहि कर्मानुसारिणी ॥५०८॥ अपि माषद्वयप्राप्तौ यः सन्तोषोऽभवन्मम । सोऽद्य कोटेरपि प्राप्तौ मां तद्भीत इवाऽमुचत् ॥५०९।। विद्यार्थमागतस्येह मम दुर्व्यसनं ह्यदः । सागरं गन्तुकामस्य हिमवद्गमनोपमम् ॥५१०|| ज्ञानदानं मयि गुरोः स्थले कमलरोपणम् । यद्दास्यामपि दासत्वमकार्षमकुलोचितम् ॥५११॥ तदलं विषयैरेभिरिति संवेगमाप्तवान् । उत्पन्नजातिस्मरणः स्वयंबुद्धो बभूव सः ॥५१२।। पामूर्धजान्मूर्ध्न उद्धृत्य स्वयं देवतयाऽर्पितम् । रजोहरण-वदनवस्त्रिकादिकमाददे ॥५१३॥ राजानं स गतो राज्ञाऽप्रच्छीति किमचिन्तयः ? । स्वमनोरथविस्तारमथाऽऽख्यायाऽब्रवीदिति ॥५१४|| यथा लाभस्तथा लोभो लाभाल्लोभः प्रवर्धते । द्विमाष्या चिन्तितं कार्यं कोट्याऽपि न हि निष्ठितम् ॥५१५।। राजाऽपि विस्मितः प्रोचे कोटीरपि ददाम्यहम् । भुक्ष्व भोगान् व्रतं मुञ्च न व्रते प्रतिभूस्तव ॥५१६।। कपिलोऽप्यब्रवीदर्थे राजन्नलमनर्थदैः । निर्ग्रन्थीभूतवानस्मि धर्मलाभोऽस्तु भद्र ! ते ॥५१७|| इत्युक्त्वा कपिलमुनिस्ततो निर्गत्य निर्ममः । निरीहो निरहंकारो विजहार वसुन्धराम् ॥५१८।। एवं व्रतं पालयतः कपिलस्य महामुनेः । षण्मासपर्ययेणाऽभूत् केवलज्ञानमुज्ज्वलम् ॥५१९॥ पाइतश्चासीद् राजगृहनगरस्याऽन्तरालगा । अष्टादशयोजनानुप्रमाणा दारुणाटवी ॥५२०॥ तत्र चेत्कडदासाख्या बलभद्रादयोऽभवन् । शतानि पञ्च चौरास्तान् बोधार्हान् कपिलोऽबुधत् ॥५२१।। चौराणामुपकाराय तेषां च स महामुनिः । अभ्यागात्तामरण्यानी शरण्यः सर्वजन्मिनाम् ॥५२२। एकश्च चौरो वृक्षाग्रमधिरूढः प्लवङ्गवत् । ददर्श दूरादायातं कपिलं श्रमणोत्तमम् ॥५२३|| स चौरोऽचिन्तयत् कोऽयमागच्छत्यभिभूय नः । तमाख्यदिति सेनान्ये सेनान्यं सोऽप्युपाययौ ॥५२४॥ दिष्ट्या क्रीडनमायातमिति सेनापतिद्र्वन् । नृत्य नृत्य श्रमणकेत्यज्ञ आज्ञापयन्मुनिम् ॥५२५।। १. विजने जनसंचाररहिते । २. चौर० खं. १-४ । ३. कोटिप्राप्तिभीत इव । ४. केशान् । ५. मुखवस्त्रिका । ०वस्त्रका० खं. १ । ६. ०ऽपृच्छी० खं. १-२, मु., नू. मु. । ७. साक्षी । त्वया व्रतं गृहीतमिति न कोऽपि जानाति । ८. तत्र च कडदासाख्या मु. । तत्र वेक्कड० नू. मु. । ९. तमाख्यादिति खं. १ ।

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280