Book Title: Trishashtishalakapurushcharitammahakavyam Parva 10
Author(s): Hemchandracharya, Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 200
________________ १७६ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं [दशमं पर्व अज्ञानसेवितेनापि वरुणस्य तु वर्मना । विपद्य तत्सुहृद् भूयो मनुष्यः सुकुलेऽभवत् ॥२७७|| विदेहेषु मनुष्यत्वं पुनरासाद्य सत्कुले । मुक्तिमार्ग समाराध्य स मोक्षपदमाप्स्यति ॥२७८।। पाहते च वसणेऽभूवंश्चेटकस्य चमूभटाः । युद्धाय द्विगुणोत्साहाः काण्डस्पृष्टवराहवत् ॥२७९॥ गणराजसनाथैस्तैश्चेटकस्य चमूभटैः । अकुट्टि कूणिकचमूर्दशद्भिरधरं रुषा ॥२८०॥ कुट्यमानं बलं दृष्ट्वा स्वकीयमथ कूणिकः । लोष्टाहतः सिंह इव क्रोधोद्धतमधावत ॥२८१।। सरसीव रणे क्रीडन् कूणिको वीरकुञ्जरः । दिशो दिशि परबलं पद्मखण्डमिवाऽक्षिपत् ॥२८२।। कूणिकं दुर्जयं ज्ञात्वा चेटकोऽथाऽत्यमर्षणः । तं दिव्यं मार्गणं शौर्यधनो धनुषि सन्दधे ॥२८३।। पाइतश्च वज्रकवचं कूणिकस्य पुरो हरिः । व्यधत्त चमरेन्दस्तु पृष्ठे सन्नाहमायसम् ॥२८४।। चापमाकर्णमाकृष्य वैशालीपतिनाऽप्यथ । स मुक्तः सायको वज्रवर्मणा स्खलितोऽन्तरा ॥२८५।। अमोघस्यापि बाणस्य तस्य मोघत्वदर्शनात् । चमूभटाश्चेटकस्य पुण्यक्षयममंसत ॥२८६।। द्वितीयं नाऽमुचद् बाणं सत्यसन्धस्तु चेटकः । अपसृत्य द्वितीयस्मिन् दिने तद्वदयुध्यत ॥२८७।। तथैव मोघबाणोऽभूद् द्वितीयेऽयपि चेटकः । एवं दिने दिने युद्धमतिघोरमभूत्तयोः ॥२८८॥ लक्षाशीत्याऽधिका कोटिर्भटानां पक्षयोर्द्वयोः । विपेदे या सोदपादि तिर्यक्षु नरकेषु च ॥२८९॥ पानंष्ट्वा स्वस्वपुरं यात्सु गणराजेषु चेटकः । प्रणश्य प्राविशत् पुर्यां कूणिकोऽपि रुरोध ताम् ॥२९०|| तदा सेचनकारूढौ चम्पेशस्याऽखिलं बलम् । वीरौ हल्लविहल्लौ तौ रात्रावभिबभूवतुः ॥२९१।। न प्रहर्तुं नवा धर्तुं स हस्ती स्वप्नहस्तिवत् । केनाप्यशाकि चम्पेशशिबिरे सौप्तिकागतः ॥२९२।। मारयित्वा मारयित्वा निशि हल्लविहल्लयोः । क्षेमेण गच्छतोर्मन्त्रिमण्डली स्माऽऽह कूणिकः ॥२९३।। आभ्यां विद्रुतमस्माकं प्रायेण सकलं बलम् । तद् ब्रूत क इहोपायो जये हल्लविहल्लयोः ॥२९४|| मन्त्रिणोऽप्यूचिरे तौ हि जेतुं शक्यौ न केनचित् । अधिरूढौ हि यावत्तं हस्तिनं नरहस्तिनौ ॥२९५।। तस्मात्तस्यैव करिणो वधाय प्रयतामहे । खादिराङ्गारसम्पूर्णा कार्यतां पथि खातिका ॥२९६॥ छादयित्वा च वारीव दुर्लक्ष्या सा करिष्यते । तस्यां सेचनको वेगादभिधावन् पतिष्यति ॥२९७|| चम्पेशोऽकारयदथ खादिराङ्गारपूरिताम् । खातिकामुपरिच्छन्नां तदागमनवर्त्मनि ॥२९८।। पाअथ हल्लविहल्लावष्यवस्कन्दकृते निशि । निरीयतुः सेचनकाधिरूढौ जितकाशिनौ ॥२९९।। अङ्गारखातिकोपान्तमेत्य सेचनकोऽपि हि । तां विभङ्गेन विज्ञाय तस्थौ यतममानयन् ॥३००। ततो हल्लविहल्लाभ्यामिति निभित्सितः करी । पशुरस्यकृतज्ञोऽसि कातरो यदभू रणात् ॥३०१।। विदेशगमनं बन्धुत्यागश्च त्वत्कृते कृतः । अस्मिन् दुर्व्यसने क्षिप्तस्त्वकृते ह्यायचेटकः ॥३०२।। वरं श्वा पोषितः श्रेयान् भक्तः स्वामिनि यः सदा । न तु त्वं प्राणवाल्लभ्याद्योऽस्मत्कार्यमुपेक्षसे ॥३०३।। इति निर्भत्सितो हस्ती कुमारौ निजपृष्ठतः । वेगादुत्तारयामास भक्तंमन्यो बलादपि ॥३०४॥ स्वयं तु तस्मिन्नङ्गारगर्ते झम्पां ददौ करी । सद्यो विपद्य चाऽऽद्यायामुत्पेदे नरकावनौ ॥३०५।। १. काण्डं बाणः । २. कवचं लोहमयम् । ३. सत्यप्रतिज्ञः । ४. रात्रियुद्धागतः । ५. इवो० खं. १-३ । ६. वारी गजबन्धनी। ७. दुर्लक्षा खं. १-३ । ८. यात० मु. । अङ्कुशनिग्रहम् । ९. ०नयत् खंता. प्रतिषु ।

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280