Book Title: Trishashtishalakapurushcharitammahakavyam Parva 10
Author(s): Hemchandracharya, Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 196
________________ १७२ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं [दशमं पर्व साक्षाद्दण्डधर इव लोहदण्डधरः पुरः । द्रुतमायाति ते सूनुर्न विद्मः किं करिष्यति ? ॥१६४|| पाश्रेणिकश्चिन्तयामास जिघांसु¥नमेष माम् । अन्यदाऽऽगात् कशाहस्तो दण्डहस्तोऽधुनैति तु ॥१६५।। न वेद्मि मां कुमारेण मारयिष्यति केनचित् । तस्मादनागतेऽप्यस्मिन् मरणं शरणं मम ॥१६६॥ इति तालपुटविषं जिह्वाग्रे श्रेणिको ददौ । प्रस्थानस्था इवाऽग्रेऽपि तत्प्राणाश्च द्रुतं ययुः ॥१६७|| [आगाच्च कूणिको यावत् परासुं तावदग्रतः । ददर्श पितरं वक्ष आघ्नानः पूच्चकार च ॥१६८|| विललाप च हा ! तातपादाः ! कर्मभिरीदृशैः । अद्वैतीयीक एवैष पापोऽहमभवं भुवि ॥१६९।। क्षमयिष्याम्यहं तातपादानिति मनोरथः । यन्मे नाऽपूरि तत्पापतमोऽहमधुना पुनः ॥१७०॥ आस्तां प्रसादवचनं तिरस्कारवचोऽपि हि । त्वदीयं नाहमश्रौषमभूद् दुर्दैवमन्तरा ॥१७१।। भृगुपातेन शस्त्रेण वह्निना पयसाऽपि वा । तदात्मानं निगृह्णामि युक्तं मत्कर्मणो ह्यदः ॥१७२।। इति शोकामयग्रस्तो मुमूर्षुरपि कूणिकः । मन्त्रिभिर्बोधितोऽकार्षीच्छेणिकस्याऽङ्गसंस्कृतिम् ॥१७३|| पाशोकेन भूयसा राजयक्ष्मणेव दिने दिने । क्षीयमाणं नृपं प्रेक्ष्य मन्त्रिणोऽचिन्तयन्नदः ॥१७४|| नूनं विपत्स्यते शोकाद् राजा राज्यं च नंक्ष्यति । पितृभक्त्यपदेशेन तद्वयासङ्गोऽस्य सूत्र्यताम् ॥१७५॥ इति जीर्णे ताम्रपत्रेऽक्षराणि लिलिखुः स्वयम् । पिण्डादि दत्तं पुत्रेण मृतोऽपि लभते पिता ॥१७६।। अवाचयंश्च राज्ञोऽग्रे राजाऽपि हि पितुः स्वयम् । तद्वञ्चितोऽदात् पिण्डादि पिण्डदानं तदाद्यभूत् ॥१७७|| भुङ्क्ते पिता विपन्नोऽपि मद्दत्तमिति मूढधीः । राजा शोकं शनैरौज्झज्ज्वरीव रसविक्रियाम् ॥१७८॥ पितुः शय्याऽऽसनादीनि पश्यन्तं तु पुनः पुनः । सिंहावलोकनन्यायाच्छोकः कूणिकमभ्यगात् ॥१७९।। गुंडूचीस्तम्बवच्छोके प्रोन्मीलति मुहुर्मुहुः । राजा राजगृहे स्थातुमभूद् भृशमनीश्वरः ॥१८०॥ करिष्ये पुरमन्यत्रेत्यादिदेश विशांपतिः । शस्तभूशोधनायाथ वास्तुविद्याविशारदान् ॥१८१॥ पाते च वास्तुविदः शस्तां पश्यन्तः सर्वतो भुवम् । प्रदेशेऽद्राक्षुरेकत्र महान्तं चम्पकद्रुमम् ॥१८२॥ ऊचुश्च नायमुद्याने दृश्यते नेह सारिणिः । नायमाबालवलयी तथाऽप्यस्याऽद्भुता लिपिः ॥१८३।। अहो ! बहुलशाखत्वमहो ! पत्रलताऽद्भुता । अहो ! कुसुमसम्पत्तिरहो ! कुसुमसौरभम् ॥१८४।। अहो ! च्छायैकातपत्र्यमातपत्राभिभावुकम् । अहो ! विश्रामयोग्यत्वमहो ! सर्वं किमप्यदः ॥१८५।। निसर्गरमणीयोऽयं यथा श्रीधाम चम्पकः । तथाऽत्र नगरमपि भविष्यति न संशयः ॥१८६।। चम्पकेन श्रियः सत्यंकारेणैवोपशोभितम् । स्थानं पुरीनिवेशार्हं ते तथाऽऽख्यन्महीभुजे ॥१८७|| चम्पकस्याभिधानेन चम्पेति नगरी नृपः । वेगादकारयत् सिद्धिर्वचसा हि महीभुजाम् ॥१८८॥ ततश्च पुर्यां चम्पायां गत्वा सबलवाहनः । महीमिमां श्रेणिक सूर्भ्रातृभिः सहितोऽन्वशात् ॥१८९|| पाअथ सेचनकारूढौ दिव्यकुण्डलमण्डितौ । दिव्यहारांशुकधरौ भूगतौ स्वर्गिणाविव ॥१९०।। अत्यद्भुतश्रियौ हल्लविहल्लौ निजदेवरौ । दृष्ट्वा पद्मावती दध्यौ स्वस्य स्त्रीत्वस्य सन्निभम् ॥१९१।। १. यमः । २. केनापि वधप्रकारेण । ३. तालु० मु., नू. मु. । ४. क्षयरोगेण । ५. गडूची० मु., नू. मु. । ६. सारणि: मु., नू. मु. । वल्लिविशेषः जलप्रणाली वा । ७. आबालाद् वलयी । ८. उद्भेदः ।।

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280