Book Title: Trishashtishalakapurushcharitammahakavyam Parva 10
Author(s): Hemchandracharya, Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 197
________________ द्वादशः सर्गः] श्रीत्रिषष्टिशलाकापुरुषचरितम् । १७३ हार-कुण्डल-वासोभिर्दिव्यैः सेचनकेन च । विना हि मत्पते राज्यं नेत्रहीनमिवाऽऽननम् ॥१९२।। ततो हल्लविहल्लाभ्यां तान्याहर्तुं कृताग्रहा । बभाण कूणिकं राज्ञी कूणिकोऽप्येवमभ्यधात् ॥१९३|| पितृदत्तं वस्त्वनयोर्नाऽऽहर्तुं युज्यते मम । विशेषेण प्रसादाविमौ ताते दिवं गते ॥१९४।। तस्याश्चाऽत्याग्रहाद् राजा मेने हारादियाचनम् । स्त्रीग्रह: खलु मत्कोटग्रहादपि विशिष्यते ॥१९५।। अन्यस्मिंश्च दिने हल्लविहल्लौ पृथिवीपतिः । ययाचे त्यक्तसौभ्रात्रस्तद्धारादिचतुष्टयम् ॥१९६।। पाप्रमाणमादेश इति प्रतिपद्य गृहं गतौ । आ(अ)मन्त्रयेतां तावित्थं बुद्धिमन्तावुभावपि ॥१९७।। न शोभनोऽस्याऽभिप्रायः किमनेन प्रयोजनम् ? । प्रयावोऽन्यत्र कुत्रापि श्रियः सर्वत्र दोष्मताम् ॥१९८॥ इति निश्चित्य तौ सान्तःपुरौ सेचनकद्विपम् । हारादीन्यप्युपादाय वैशाल्यां निशि जग्मतुः ॥१९९॥ मातामहश्चेटकस्तौ परिरभ्य समागतौ । स्नेहेन प्रतिपत्त्या च ददर्श युवराजवत् ।।२००।। पावैशाल्यां च गतौ ज्ञात्वा तौ प्रतारितधूर्तवत् । हस्तविन्यस्तचिबुकश्चिन्तयामास कूणिकः ॥२०१॥ न मे हस्त्यादिरत्नानि न च तौ भ्रातरावपि । जातोऽहमुभयभ्रष्टः स्त्रीप्रधानतया खलु ॥२०२।। भवतु व्यसने प्राप्तेऽमुष्मिस्तौ नाऽऽनयामि चेत् । पराभवसहिष्णोर्मे वणिजश्च किमन्तरम् ? ॥२०३।। अनुशिष्य ततो दूतं वैशाल्यामुपचेटकम् । प्रैषीद् भ्रात्रोर्मार्गणाय रत्नान्यादाय जग्मुषोः ॥२०४|| पादूतोऽपि पुर्यां वैशाल्यां गत्वा चेटकपर्षदि । प्रणम्य चेटकं स्थाने चाऽऽसित्वोचे ससौष्ठवः ॥२०५।। इह नंष्ट्वा समायातौ रत्नैः सह गजादिभिः । कुमारी हल्लविहल्लौ कूणिकस्य समर्पय ॥२०६।। अनर्पयन्निमौ राज्यभ्रंशमासादयिष्यसि । कीलिकार्थे देवकुलं न भ्रंशयितुमर्हसि ॥२०७|| चेटकोऽवोचदन्योऽपि नार्येत शरणागतः । दौहित्रौ किं पुनरिमौ विश्वस्तौ पुत्रवत् प्रियौ ? ॥२०८।। दूतोऽब्रवीच्छरण्यस्त्वं न ह्यर्पयसि चेदिमौ । तद्रत्नान्यनयोर्हत्वा राजन् ! मत्स्वामिनेऽर्पय ॥२०९॥ चेटकः स्माऽऽह धर्मोऽयं समानो राज-रङ्कयोः । अन्यस्य वित्तं न ह्यन्यो दातुमीशीत जातुचित् ॥२१०।। न प्रसह्य न वा साम्नाऽनयोर्गृह्णामि किञ्चन । धर्मपात्रं हि दौहित्रौ दानार्डों मे विशेषतः ॥२११।। दूतोऽप्यागत्य चम्पायां तां गिरं चेटकोदिताम् । आख्यत् स्वस्वामिनः क्रोधवह्निवात्यामनाकुलः ॥२१२।। पाकूणिकोऽपि हि तत्कालं जयभम्भामवीवदत् । सिंहा इव पराक्षेपं न सहन्ते महौजसः ॥२१३|| सैन्यान्यनन्यसामान्यतेजसस्तस्य भूपतेः । सद्यः सर्वाभिसारेण सज्जीभूयाऽवतस्थिरे ॥२१४|| कालादयः कुमाराश्च दशापि हि महाबलाः । पुरो बभूवुः संना सर्वसन्नहनेन ते ॥२१५॥ सहस्राणि त्रीणि गजास्तावन्तो वाजिनोऽपि हि । तावन्तश्च रथाः कोट्यस्तिस्रोऽपि च पदातयः ॥२१६।। तेषां दशानां प्रत्येकं कुमाराणामिदं बलम् । एतावत् कूणिकस्यापि प्रभुत्वं त्वतिरिच्यते ॥२१७|| (युग्मम्) सैन्येनैतावता गच्छंश्चम्पेशश्चेटकं प्रति । तिरयामास धरणिं तरणिं च रजोभरैः ॥२१८॥ पाचेटकोऽप्यमितैः सैन्यैः कूणिकायाऽभ्यषेणयत् । राजभिर्बद्धमुकुटैरष्टादशभिरावृतः ॥२१९।। द्विपास्त्रीणि सहस्राणि तावन्तश्च तुरङ्गमाः । तावन्तश्च रथास्तिस्रः कोटयश्च पदातयः ॥२२०।। १. मन्यते मु., नू. मु. । २. 'मकोडो-मकोडो' । ३. त्यक्तं सौभ्रात्रं-सुभ्रातृता येन सः । ४. सेचनकं खं. १ । ५. शरणं गतः खं. १ । ६. क्रोधवह्नवृद्धौ वात्यां-वातसमूहं इव ।

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280