Book Title: Trishashtishalakapurushcharitammahakavyam Parva 10
Author(s): Hemchandracharya, Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 191
________________ १६७ द्वादशः सर्गः] श्रीत्रिषष्टिशलाकापुरुषचरितम् । मयि सत्यपि भक्तेऽपि पुत्रे राज्याधिकारिणि । ततोऽदात् केशिने राज्यं राज्यर्णमिव धारयन् ॥२७|| विवेको मत्पितुः कोऽयं भगिनीनन्दनाय यत् । केशिनेऽदाददो राज्यं हन्त काराधिकारिणे ? ॥२८॥ तातः प्रभुर्मे स स्वैरं यदिच्छति करोतु तत् । केशिनोऽद्य कथं सेवां करिष्ये ? तत्सुतोऽस्मि हि ! ॥२९॥ इति पित्राऽभिभूतः सोऽभिगमिष्यति कूणिकम् । अभिमानवतां श्रेयान् विदेशो हि पराभवे ॥३०॥ पाअथ मातृष्वसेयेन कूणिकेन सगौरवम् । वीक्ष्यमाणः सदाऽभीचिः सुखं स्थास्यति तत्र च ॥३१॥ श्रमणोपासकः सम्यग् जीवाजीवादितत्त्ववित् । अभीचिः श्रावकधर्मं यथावत् पालयिष्यति ॥३२॥ गहिधर्मं समा बह्वीः पालयन्नप्यखण्डितम् । पराभवं स्मरन् वैरं न स हास्यत्यदायने ॥३३।। कृत्वा संलेखनां सम्यक् पाक्षिकानशनेन सः । पितृवैरमनालोच्य मृत्वा भाव्यसुरोत्तमः ॥३४॥ एवं पल्योपमं तत्र परिपाल्याऽऽयुरात्मनेः । महाविदेहेषूत्पद्याऽभीचिजीवः शिवङ्गमी ॥३५।। पापृच्छति स्माऽभयोऽथैवं कपिलर्षिप्रतिष्ठिता । प्रकाशमेष्यति कदा प्रतिमा परमेश्वर ! ? ॥३६।। स्वाम्याख्याति स्म सौराष्ट्र-लाट-गुर्जरसीमनि । क्रमेण नगरं भावि नाम्नाऽणहिलपाटकम् ॥३७|| आर्यभूमेः शिरोरत्नं कल्याणानां निकेतनम् । एकातपत्रार्हद्धर्मं तद्धि तीर्थं भविष्यति ॥३८॥ चैत्येषु रत्नमय्योऽर्हत्प्रतिमास्तत्र निर्मलाः । नन्दीश्वरादिप्रतिमाकथां नेष्यन्ति सत्यताम् ॥३९॥ भासुरस्वर्णकलशश्रेण्यलङ्कतमौलिभिः । रोचिष्यते च तच्चेत्यैर्विश्रान्ततपनैरिव ॥४०॥ श्रमणोपासकस्तत्र प्रायेण सकलो जनः । कृतातिथिसंविभागो भोजनाय यतिष्यते ॥४१॥ परसम्पद्यनीर्ष्यालुः सन्तुष्टश्च स्वसम्पदा । पात्रेषु दानशीलश्च तत्र लोको भविष्यति ॥४२॥ श्राद्धाश्च धनिनस्तत्राऽलकायामिव गुह्यकाः । वप्स्यन्ति द्रविणं सप्तक्षेत्र्यामत्यन्तमार्हताः ॥४३|| परस्व-परदारेषु सर्वः कोऽपि पराङ्मुखः । भावी तस्मिन् पुरे लोकः सुषमाकालभूरिव ॥४४|| अस्मन्निर्वाणतो वर्षशतान्यभय ! षोडश । नवषष्टिश्च यास्यन्ति यदा तत्र पुरे तदा ॥४५।। कुमारपालो भूपालश्चौलुक्यकुलचन्द्रमाः । भविष्यति महाबाहुः प्रचण्डाखण्डशासनः ॥४६॥ स महात्मा धर्म-दान-युद्धवीरः प्रजां निजाम् । ऋद्धिं नेष्यति परमां पितेव परिपालयन् ॥४७॥ ऋजुरप्यतिचतुरः शान्तोऽप्याज्ञादिवस्पतिः । क्षमावानप्यधृष्यश्च स चिरं मामविष्यति ॥४८|| स आत्मसदृशं लोकं धर्मनिष्ठं करिष्यति । विद्यापूर्णमुपाध्याय इवाऽन्तेवासिनं हितः ॥४९॥ शरण्यः शरणेच्छूनां परनारीसहोदरः । प्राणेभ्योऽपि धनेभ्योऽपि स धर्मं बहु मंस्यते ॥५०॥ पराक्रमेण धर्मेण दानेन दययाऽऽज्ञया । अन्यैश्च पूरुषगुणैः सोऽद्वितीयो भविष्यति ॥५१॥ स कौबेरीमातुरुष्कमैन्द्रीमात्रिदशापगम् । याम्यामाविन्ध्यमावाधि पश्चिमां साधयिष्यति ॥५२॥ १. राज्यं ऋणतया केशिने देयमिव । २. कारागृहपात्राय । ३. तत् स्वैरं मु. । ४. विदेशोऽपि खं. १ । ५. बहुवर्षपर्यन्तम् । ६. पारमेश्वरी मु. । ७. ०णहिल्ल० खं. ३ । ८. विश्रान्तस्तपनो येषु ते, तैः । ९. अलका कुबेरस्य पुरी, तत्र यक्षा इव । १०. सप्त क्षेत्राणि जैनानामिमानि-जिनबिम्बं, जिनचैत्यं, जिनागमः, साधुः, साध्वी, श्रावकः, श्राविका । ११. सर्वको० खं. १-३ । १२. सुखमयः कालः-द्वितीयोऽरकः, तत्र जात इव, । १३. आज्ञया इन्द्र इव । १४. सद्धर्मं खं. १ । १५. पुरुष० खं. १ विना, मु., नू. मु. । १६. तुरुष्कदेशपर्यन्तं कौबेरीमुत्तरदिशम् । १७. गङ्गानन्दीपर्यन्तमैन्द्रीं पूर्वदिशम् । १८. विन्ध्याचलपर्यन्तं याम्यां दक्षिणदिशम् । १९. समुद्रपर्यन्तम् ।

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280