Book Title: Trishashtishalakapurushcharitammahakavyam Parva 10
Author(s): Hemchandracharya, Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 189
________________ एकादशः सर्गः] श्रीत्रिषष्टिशलाकापुरुषचरितम् । विद्युन्मालिकृतायै च प्रतिमायै महीपतिः । प्रददौ द्वादश ग्रामसहस्रान् शासनेन सः ॥६०६।। अत्रान्तरे वीतभयस्थितं नृपमुदायनम् । एत्य प्रभावतीदेवः स्नेहेन प्रत्यबोधयत् ॥६०७॥ पाइहापि याऽस्ति प्रतिमा जीवन्तस्वामिनो नवा । सापि राजन्नसामान्यप्रभावात्तीर्थमुत्तमम् ॥६०८॥ ब्रह्मर्षिणा केवलिना कपिलेन महात्मना । श्वेताम्बरेण प्रतिमा ह्यसौ राजन् ! प्रतिष्ठिता ॥६०९।। अग्रेतेनीव प्रतिमा प्रतिमेयमपि त्वया । पूज्याऽथ सर्वविरतिरपि ग्राह्या महाफला ॥६१०॥ उदायनोऽपि तद्वाचं प्रतिपेदे तथैव ताम् । तन्मनःकदलीमेघः स देवोऽपि तिरोदधे ॥६११।। पाततश्चान्येधुरुधुक्तो धर्मे राजाऽप्युदायनः । जग्राह पौषधौकस्थ: पाक्षिकं पौषधव्रतम् ॥६१२।। रात्रिजागरणे तस्य शुभध्यानेन तस्थुषः । ईदृगध्यवसायोऽभूद्विवेकस्य सहोदरः ॥६१३।। धन्यास्ते नगरग्रामा ये श्रीवीरेण पाविताः । राजादयोऽपि ते धन्या यैर्धर्मोऽश्रावि तन्मुखात् ॥६१४|| तत्पादपद्मसान्निध्यात् प्रतिबोधमवाप्य ये । गृहिधर्मं द्वादशधा शिश्रियुः कृतिनो हि ते ॥६१५।। तत्प्रसादाच्च ये सर्वविरति प्रतिपेदिरे । ते श्रलाघ्या वन्दनीयास्ते तेभ्यो नित्यं नमो नमः ॥६१६।। स्वामी वीतभयमपि विहारेण पुनाति चेत् । तत्पादमूले प्रव्रज्यामादाय स्यां तदा कृती ॥६१७।। पावयं चाऽभय ! तज्ज्ञात्वा तदनुग्रहकाम्यया । चम्पापुर्याः प्रचलिताः समवासाम॑ तत्पुरे ॥६१८।। अस्मान् प्रणम्य श्रुत्वा च देशनां गतवान् गृहे । एवं स चिन्तयामास स्वविवेकगुणोचितम् ॥६१९।। सूनवेऽभीचये राज्यं व्रतेच्छुश्चेद्ददाम्यहम् । संसारनाटकनटस्तन्मयैष कृतो भवेत् ॥६२०।। उशन्ति नरकान्तं हि राज्यं नीतिविदोऽपि च । तत्सूनवे न दास्येऽहं दास्ये चेत्तन्न तद्धितः ॥६२१।। इति केशिनि जामेये राज्यश्रियमुदायनः । सद्यः संक्रमयामास तेजोऽर्क इव पावके ॥६२२।। जीवन्तस्वामिदेवाय पूजार्थमथ पार्थिवः । शासनेन ददौ भूरि ग्रामाकरपुरादिकम् ॥६२३।। ततः केशिनरेन्द्रेण कृतनिष्क्रमणोत्सवः । अस्मत्पार्श्वे परिव्रज्यामुदायन उपात्तवान् ॥६२४।। स तपोभिः षष्ठाष्टमदशमद्वादशादिभिः । व्रताहादपि कर्मेव स्वमात्मानमशोषयत् ॥६२५।। तृणमिव परिहृत्य राज्यलक्ष्मी श्रामण्यं प्रतिपन्नवान् विशुद्धम् । इत्यभयकुमार ! कीर्तितस्ते चरमो राजर्षिर्युदायनाख्यः ॥६२६।। ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये दशमपर्वणि रौहिणेयचरिता-भयकुमारा पहारोदायनचरित-प्रद्योतबन्धनोदायनप्रव्रज्यावर्णनो नामैकादशः सर्गः ॥ -Kvk १. जीवतः स्वा० नू. मु. । २. ०प्रभावं तीर्थ० खं. ४ । ३. ०तनी च मु., नू. मु. । ४. चाशयं तं ज्ञा० खं. ३ । ५. तस्य हितकारी न स्यामित्यर्थः । ६. भागिनेये ।

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280