Book Title: Trishashtishalakapurushcharitammahakavyam Parva 10
Author(s): Hemchandracharya, Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 183
________________ एकादशः सर्गः] श्रीत्रिषष्टिशलाकापुरुषचरितम् । पाइतश्च गान्धारदेशजन्मा गान्धारनामकः । शाश्वतीरर्हत्प्रतिमा वैताढयेऽगाद् विवन्दिषुः ॥४४५॥ वैताढ्यमूले तस्थौ चोपवासैस्तद्दिदृक्षया । तुष्टा शासनदेवी च तदीप्सितमपूरयत् ॥४४६।। कृतकृत्यं च तं देवी वैताढ्यस्य तलेऽमुचत् । ददौ चाऽष्टोत्तरं तस्मै कामदं गुलिकाशतम् ॥४४७।। क्षिप्त्वैकां गुलिकां वक्त्रे स दध्यौ वन्दिषीय यत् । देवाधिदेवप्रतिमां श्रीवीतभयपत्तने ॥४४८।। इति चिन्तासममपि सोऽथ वीतभयं ययौ । देवाधिदेवप्रतिमां तेन कुब्जाऽप्यवन्दयत् ॥४४९।। शरीरापाटवं चाऽभूद् गान्धारस्याऽपरेऽहनि । तं च प्रतिजजागार कुब्जाऽर्हद्धर्मवत्सला ॥४५०॥ गान्धारोऽपि स्वमासन्नमवसानं विदन् सुधीः । कुब्जायै गुलिकाः प्रादात् प्रव्रज्यां स्वयमाददे ॥४५१|| पारूपार्थिनी कुरूपा सा क्षिप्त्वैकां गुलिकां मुखे । उपपादभवेवाऽभूद् द्राग् दिव्याकारधारिणी ॥४५२।। सुवर्णवर्णसर्वाङ्गा साऽभूद् गुलिकया तया । ततोऽभ्यधत्त सर्वोऽपि सुवर्णगुलिकेति ताम् ॥४५३॥ साऽथ द्वितीयां गुलिकां मुखे कृत्वेत्यचिन्तयत् । वृथैव रूपमीदृङ् मेऽनुरूपश्चेत् पतिर्न हि ॥४५४|| पितेव मेऽयं नृपतिः पत्तयोऽस्याऽपरे नृपाः । तच्चण्डशासनश्चण्डप्रद्योतोऽस्तु पतिर्मम ।।४५५।। प्रद्योताग्रे च तद्रूपं वर्णयामास देवता । प्रद्योतोऽपि हि कुब्जायाः प्रार्थने दूतमादिशत् ॥४५६।। गत्वा तामर्थयांचक्रे दूतस्तं साऽप्यदोऽवदत् । प्रद्योतं दर्शयाथाऽऽख्यत् प्रद्योताय तथैव सः ॥४५७।। तदैवैरावतारूढवासवश्रियमाश्रयन् । आरूढोऽनिलवेगेभं निशि प्रद्योत आययौ ॥४५८|| तस्मै यथा सा रुरुचे तस्यै सोऽपि तदा तथा । प्रद्योतोऽथाऽवदत् कुब्जामब्जाक्ष्ये हि मत्पुरीम् ॥४५९।। कुब्जाऽब्रवीन्न जीवामि यां विना क्षणमप्यहम् । देवाधिदेवप्रतिमां तां मुक्त्वा यामि न क्वचित् ॥४६०।। प्रतिमायाः प्रतिकृतिरमुष्यास्तन्नृप ! त्वया । आनेतव्या यथा सेह मुच्यते नीयते त्वसौ ॥४६१॥ इति तत्प्रतिमारूपं निरूप्याऽवन्तिपार्थिवः । रजनीं तां तया रेमे रजन्यन्ते पुनर्ययौ ॥४६२।। प्रद्योतोऽथ गतोऽवन्त्यां यथादृष्टामकारयत् । देवाधिदेवप्रतिमां जात्यश्रीखण्डदारुणा ॥४६३।। अपच्छच्च महामात्यान कारितेयं मया नवा । देवाधिदेवप्रतिमा प्रतिष्ठास्यति को विमाम ? ॥४६४|| पाअवोचन्मन्त्रिणः स्वामिन् ! कौशाम्बीत्यस्ति पूर्वरा । तत्राऽन्वर्थाभिधानोऽभूज्जितशत्रुर्महीपतिः ॥४६५।। पुरोधास्तस्य निःशेषविद्यास्थानाब्धिपारगः । काश्यपो नाम विप्रोऽभूत्तस्य जाया पुनर्यशाः ॥४६६।। कपिलो नाम पत्रोऽभूत तयोस्तस्मिञ्छिशावपि । काश्यपः प्राप पञ्चत्वमनाथ: कपिलोऽभवत् ॥४६७।। राजाऽनादृत्य तं बालं काश्यपस्य पदेऽपरम् । द्विजन्मानं न्यधात् कीदृगाम्नायो योग्यतां विना ? ॥४६८|| आदित्यकिरणास्पृष्टशरीरश्रछत्रसम्पदा । नृत्यत्तुरङ्गाऽऽरूढोऽथ पुरे बभ्राम स द्विजः ॥४६९|| तं दृष्ट्वा कपिलमाता स्मरन्ती पतिसम्पदम् । रुरोद मन्दभाग्यानां ह्यसुखे रोदनं सखा ॥४७०।। कपिलोऽपि रुरोदोच्चै रुदती प्रेक्ष्य मातरम् । शोकः संक्रामति ह्याप्ते दर्पणे प्रतिबिम्बवत् ॥४७१।। नेत्राभ्यामश्रुमुग्वक्त्रं द्विधारमिव वारकम् । उल्लास्य मातुः कपिलोऽवदत् किमिति रोदिषि ? ॥४७२।। १. प्रतिमा द्रष्टुमिच्छया । २. वन्द्धातोराशिषि प्रथमपुरुषैकवचने रूपम् । ३. तस्य शुश्रूषा तया कृता । ४. देवविमाने उपपादेन भवा इव । ५. ०सर्वाङ्गी खं. १ । ६. प्रद्योतमत्रानीय दर्शय माम् ॥ ७. ०थाऽऽख्यात् खं. २, मु., नू. मु. । ८. निनायाथ मु.। ९. ०प्रतिमां खं. १-३ । १०. ०गन्वयो नू. मु. । योग्यतां विना आम्नाय:-अधिकारः कीदृक् ? । ११. पात्रविशेषः । १२. ऊर्ध्वं कृत्वा । उल्लास्यमानः खं. १ ।

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280