Book Title: Trishashtishalakapurushcharitammahakavyam Parva 10
Author(s): Hemchandracharya, Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 181
________________ एकादशः सर्गः] श्रीत्रिषष्टिशलाकापुरुषचरितम् । तत्र स्वरुचि लोकेन मुच्यमाना निरन्तरम् । आयसी अप्यभज्यन्त कुठारास्त्रापुषा इव ॥३९०॥ इत्याश्चर्यप्रसक्तस्य राज्ञो दिनमुखादपि । ललाटंतपतपनो मध्याह्नसमयोऽभवत् ॥३९१|| भोजनातिक्रमं ज्ञात्वा राज्ञो राज्ञी प्रभावती । आह्वातुमादिशच्चेटीं पतिभक्तोचितं ह्यदः ॥३९२॥ [[राज्ञाऽपि द्रष्टुमाश्चर्यं तदाऽऽज्ञप्ता प्रभावती । तत्राऽऽगात् तदपृच्छच्च राजाऽप्यकथयत्तथा ॥३९३॥ ऊचे च राज्ञी देवाधिदेवा ब्रह्मादयो न हि । देवाधिदेवो भगवानेकोऽर्हन् परमेश्वरः ||३९४|| तदर्हत्प्रतिमैवेह भविष्यति न संशयः । ब्रह्मादिनामस्मरणात् प्रदत्ते दर्शनं न सा ||३९५ || एषाऽहं दर्शयिष्यामि प्रतिमामर्हतः प्रभोः । तन्नामस्मरणादेव लोकाः ! पश्यत कौतुकम् ॥३९६॥ ततश्च संपुटं यक्षकर्दमेनाऽभिषिच्य तम् । पुष्पाञ्जलिक्षेपपूर्वं प्रणम्योचे प्रभावती ॥३९७|| गतरागद्वेषमोहः प्रातिहार्याष्टकावृतः । देवाधिदेवः सर्वज्ञोऽर्हन् देयाद् दर्शनं मम ॥ ३९८ ॥ इति देव्यां ब्रुवाणायां प्रतिमास्थानसंपुटः । स व्यदालीत् स्वयमपि प्रगे कमलकोशवत् ॥३९९॥ गोशीर्षचन्दनमयी तदन्तर्देवनिर्मिता । अम्लानमाल्या सर्वाङ्गसम्पूर्णा प्रतिमैक्ष्यत ॥४००|| तदाऽर्हच्छासनस्याऽभूदतिमात्रं प्रभावना । प्रभावत्यपि तां नत्वा प्रतिमामस्तवीदिति ॥४०१ || सोमदर्शन ! सर्वज्ञाऽपुनर्भव ! जगद्गुरो ! । अर्हन् ! भव्यजनानन्द ! विश्वचिन्तामणे ! जय ||४०२॥ सांयात्रिकं तं सत्कृत्य प्रभावत्यपि बन्धुवत् । अन्तरन्तः पुरं निन्ये प्रतिमां रचितोत्सवाम् ||४०३॥ कारयित्वा चैत्यगृहं प्रतिमां न्यस्य तत्र च । त्रिसन्ध्यं पूजयामास स्नानपूर्वं प्रभावती ||४०४|| [[तामन्यदाऽर्चामर्चित्वा प्रमोदेन प्रभावती । पत्या समेता सङ्गीतमविगीतं प्रचक्रमे || ४०५ || तानौघानुगतश्रव्यं व्यक्तव्यञ्जनधातुकम् । व्यक्तस्वरं व्यक्तरागं राजा वीणामवादयत् ॥४०६|| व्यंक्ताङ्गहारकरणं सर्वाङ्गाभिनयोज्ज्वलम् । ननर्त देव्यपि प्रीता लास्यताण्डवपूर्वकम् ॥४०७॥ राजाऽन्यदा प्रभावत्या न ददर्श शिरः क्षणात् । नृत्यन्तं तत्कबन्धं तु ददर्शाऽऽजिकबैन्धवत् ॥४०८॥ अरिष्टदर्शनेन द्राक् क्षुभितस्य महीपतेः । तदोपसर्पन्निद्रस्येवाऽगलत् कम्बिका करात् ॥ ४०९ || अकाण्डताण्डवच्छेदकुपिता राज्ञ्यथाऽवदत् । तालच्युताऽस्मि किमहं वादनाद्विरतोऽसि यत् ? ॥४१०॥ इत्थं पुनः पुनः पृष्टः कम्बिकापातकारणम् । तत्तथाऽऽख्यन्महीपालो बलीयान् स्त्रीग्रहः खलु ॥४११॥ राज्ञ्यूचे दुर्निमित्तेनाऽमुनाऽल्पायुरहं प्रिय ! आजन्माऽऽर्हद्धर्मवत्या मृत्युरप्यस्तु नास्ति भीः ॥४१२|| प्रत्युताऽऽनन्दहेतुर्मे दुर्निमित्तस्य दर्शनम् । तज्ज्ञापनाय भवति यत्सर्वविरतौ म ॥४१३॥ इत्युक्त्वाऽन्तःपुरं राज्ञी ययावविकृताशया । अर्हद्धर्माविद्धकर्णो राजा तु व्यमनायेत ॥४१४ ॥ [[अन्यदा च कृतस्नानशौचा देवी प्रभावती । देवार्चावसरेऽर्हाणि दास्या वासांस्यनाययत् ॥४१५॥ भाव्यनिष्टवशात् तानि राज्ञी रक्तान्युदैक्षत । समयेऽस्मिन्ननर्हाणि ह्यमूनीति चुकोप च ||४१६|| १५७ १. लोहमयाः । २. रङ्गमयाः । ३. प्रभातकालात् । ४. ललाटं तापयन् तपनो यत्र काले । ५. प्रातः । ६. सर्वत्र सं० खं० ३ । ७. रचितोत्सवा मु., नू. मु., खं. २-३ । ८. तत्त्वौघा० खं. १-४, नू. मु. । तानानां समूहेनानुगतं श्रव्यं गेयं यस्मिन् कर्मणि यथा स्यात् तथा । ९. ०गतं० खं. १ ३-४ । १०. अङ्गाहारा अङ्गविन्यासाः, करणानि नृत्यस्थानानि व्यक्ता यत्र तत् । ११. लास्यं मु., नू. मु. । १२ तस्या मस्तकरहितं देहम् । १३. आजि: युद्धं, तत्र कबन्धो यथा युद्धयति तद्वत् । १४. उपसर्पन्तीआगच्छन्ती निद्रा यस्य सः, तस्य । १५. वीणा । १६. तद्दर्शनं मम सर्वविरतौ ( सर्वविरतिविषये) ज्ञापनाय - बोधनाय । १७. अर्हद्धर्मादपरिचितः । १८. विमनायते स्म विषण्ण इत्यर्थः ।

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280