Book Title: Trishashtishalakapurushcharitammahakavyam Parva 10
Author(s): Hemchandracharya, Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 179
________________ एकादशः सर्गः] श्रीत्रिषष्टिशलाकापुरुषचरितम् । नागिलो नामधेयेन सुहृत्तस्याऽतिवल्लभः । श्रमणोपासकः शुद्धपञ्चाणुव्रतधार्यभूत् ॥३३५।। एकदा तु पञ्चशैलद्वीपस्थे व्यन्तरस्त्रियौ । प्रास्थिषातां नन्दीश्वरयात्रायै शक्रशासनात् ॥३३६।। तत्पतिः पञ्चशैलेशो विद्युन्माली तदा च्युतः । ते दध्यतुश्च व्युद्ग्राह्यः कोऽद्य नौ यः पतिर्भवेत् ? ॥३३७।। ततस्ताभ्यां प्रयान्तीभ्यां पत्नीनां पञ्चभिः शतैः । कुमारनन्दी विलसंश्चम्पापुर्यामदृश्यत ॥३३८|| तत्समीपेऽवतीर्णे ते व्युद्ग्राहार्थं पतीच्छया । कुमारनन्द्यपि प्रोचे ते दृष्ट्वा के युवामिति ? ॥३३९॥ कथयामासतुस्ते च देव्यावावां मनुष्यक ! । नाम्ना हासा प्रहासा च ते पश्यन्मोहमाप सः ॥३४०॥ लब्धसंज्ञोऽर्थयांचक्रे ते रिरंसुः स हेमकृत् । तेऽवोचतुः समागच्छेींपे त्वं पञ्चशैलके ॥३४१॥ पाइत्युक्त्वोत्पतिते ते तु स्वर्णकारोऽपि भूभुजे । दत्त्वा सुवर्णं पटहाँघोषणामित्यकारयत् ॥३४२।। नेता यः पञ्चशैले मां द्रव्यकोटि स लप्स्यते । एकश्च स्थविरो धृत्वा पटहं धनमाददे ॥३४३।। स्थविर: कारयित्वाऽथ यानपात्रमपूरयत् । भूयसा पथ्यदनेन पुत्रेभ्यस्तु धनं ददौ ॥३४४|| कुमारनन्दिना सार्धं यानारूढोऽब्धिवर्त्मनि । गत्वा स दूरमित्यूचे स्थविरः पश्य नन्वितः ॥३४५।। अब्धिकूले शैलपादजातोऽयं दृश्यते वट: । तदस्मिन् विलगेर्याति यानपात्रमधो यदा ॥३४६।। पञ्चशैलादिहैष्यन्ति भारुण्डास्त्रिपदाः खगाः । तेषु सुप्तेषु चैकस्य कस्याप्यंह्रौ तु मध्यमे ॥३४७|| गाढं बद्ध्वा पटेन स्वं विलगेर्दृढमुष्टिना । प्रातरुड्डीनभारुण्डै: पञ्चशैलं त्वमाप्स्यसि ॥३४८।। (युग्मम्) ततः परं यानपात्रं महावर्ते विनक्ष्यति । अविलग्नो वटे हन्त त्वमप्येवं विनक्ष्यसि ॥३४९॥ पास स्वर्णकृत्तथा चक्रे निन्ये तत्र च पक्षिणा । दृष्टस्ताभ्यां तदृष्ट्या च स विशेषमरज्यत ॥३५०|| ताभ्यां चोचेऽमुनाऽङ्गेन नाऽऽवां भोग्ये तवाऽनघ ! । अग्निप्रवेशादिना तत् पञ्चशैलाधिपो भव ॥३५१॥ किं करोमि ? क्व यामीति भाषमाणः स हेमकृत् । ताभ्यां पाणिपुटे कृत्वा चम्पोद्याने व्यमुच्यत ॥३५२।। पास तूपलक्ष्य लोकेन पृष्ट आख्यन्निजां कथाम् । स्मरन् हासां प्रहासां च प्रारेभेऽथाऽग्निसाधनम् ॥३५३।। स नागिलेन सुहृदा तदैवं प्रत्यबोध्यत । मरणं युज्यते नैवं तव कापुरुषोचितम् ॥३५४|| दुष्प्रापं मानुषं जन्म तुच्छभोगफलार्जनात् । मा नैषीस्तन्मुधा प्रेप्सेत् को रत्नेन वराटिकाम् ? ॥३५५।। भोगार्थ्यवाऽसि चेद्धर्मं तथाप्यार्हतमाश्रयेः । स ह्यर्थ-कामयोः कामधेनुः स्व-र्मोक्षदोऽपि सः ॥३५६।। स एवं वार्यमाणोऽपि नागिलेन निदानतः । इङ्गिनीमरणं कृत्वा पञ्चशैलाधिपोऽभवत् ॥३५७|| पानागिलोऽपि स्वमित्रस्य तेनाऽपण्डितमृत्युना । आसाद्य सद्यो निर्वेदं परिव्रज्यामुपाददे ॥३५८॥ प्रव्रज्यां पालयन्मृत्वा देवोऽभूदच्युते च सः । ददर्शाऽवधिना तं च सुहृदं पञ्चशैलगम् ॥३५९।। श्रीनन्दीश्वरयात्रायां प्रस्थितानां दिवौकसाम् । हासा-प्रहासे चलिते पुरो गातुं तदाज्ञया ॥३६०।। पटहग्रहणे ताभ्यां विद्युन्माली प्रवर्तितः । ऊचे ममापि किं नाम कश्चिदादेशदः प्रभुः ? ॥३६१।। इत्यहङ्कारहङ्कारमुखरास्यस्य तस्य तु । मूर्तं कर्मेवाऽऽभियोग्यं पटहो व्यलद् गगले ॥३६२।। १. मोहं प्राप्तव्यः । २. सुवर्णकारः । ३. पटहोरो० खं. १ । ४. ०यित्वा च मु., नू. मु. । ५. पाथेयेन । ६. समुद्रतीरे। ७. चोपलक्ष्य मु., नू. मु., खं. २ । ८. इच्छेत् । ९. भोगार्थो वा० मु., नू. मु. । १०. शास्त्रवणितः अनशनप्रकारः । ११. किङ्करत्वजनकं कर्म ।

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280