Book Title: Trishashtishalakapurushcharitammahakavyam Parva 10
Author(s): Hemchandracharya, Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 177
________________ एकादशः सर्गः] श्रीत्रिषष्टिशलाकापुरुषचरितम् । १५३ ततोऽभयकुमारोऽगात् क्रमाद् राजगृहे पुरे । कथमप्यवतस्थे च कञ्चित् कालं महामतिः ॥२७८।। पागृहीत्वा गणिकापुत्र्यौ रूपवत्यावथाऽभयः । वणिग्वेषोऽगादवन्त्यां राजमार्गेऽग्रहीद् गृहम् ॥२७९।। प्रद्योतेनेक्षिते ते च दारिके पथि गच्छता । ताभ्यां च सविलासाभ्यां प्रद्योतोऽपि निरीक्षितः ॥२८०॥ प्रद्योतेन गृहे गत्वा प्रेषिता रागिणा ततः । दूत्यनुनयन्ती ताभ्यां कुद्धाभ्यामपहस्तिता ॥२८१॥ द्वितीयस्मिन्नपि दिनेऽर्थयमाना नृपाय सा । ताभ्यां शनैः सरोषाभ्यामवामन्यत दूतिका ॥२८२॥ तृतीयेऽप्यहि निर्वेदादेत्य ते याचिते तया । अवोचतां सदाचारो भ्राता नावेष रक्षति ॥२८३।। ततो बहिर्गतेऽमुष्मिन् सप्तमेऽह्नि समागते । इहाऽऽयातु नृपश्छन्नस्ततः सङ्गो भविष्यति ॥२८४|| प[अथाऽभयेन प्रद्योतसदृगेकः पुमान्निजः । उन्मत्तो विदधे तस्य प्रद्योत इति नाम च ॥२८५।। ईदृशोऽयं मम भ्राता भ्राम्यतीतस्ततस्ततः । रक्षितव्यो मया हा किं करोमीत्यवदज्जने ॥२८६।। तं वैद्यसद्मनयनच्छद्मना प्रत्यहं बहिः । रटन्तं मञ्चकारूढं निनायाऽऽर्त इवाऽभयः ॥२८७।। नीयमानश्च तेनोच्चैः स उन्मत्तश्चतुष्पथे । प्रद्योतोऽहं ह्रियेऽनेनेत्युदश्रुवदनोऽरटत् ॥२८८।। सप्तमेऽह्नि नृपोऽप्यागात्तत्र प्रच्छन्नमेककः । कामान्धः सिन्धुर इव बद्धश्चाऽभयपूरुषैः ॥२८९।। नीयतेऽसौ वैद्यवेश्मेत्यभयेनाऽपि भाषिणा । पर्यड्रेन समं जढे परान्तः स रटन दिवा ॥२९०॥ क्रोशे क्रोशे पुरो मुक्तै रथैरथ सुवाजिभिः । पुरे राजगृहेऽनैषीत् प्रद्योतमभयोऽभयः ॥२९१।। ततो निनाय प्रद्योतं श्रेणिकस्य पुरोऽभयः । दधावे खड्गमाकृष्य तं प्रति श्रेणिको नृपः ॥२९२।। अथाऽभयकमारेण बोधितो मगधेश्वरः । संमान्य वस्त्राभरणैः प्रद्योतं व्यसजन्मदा ॥२९३।। प[अन्यदा गणभृदेवसुधर्मस्वामिनोऽन्तिके । प्रव्रज्यामग्रहीत् कोऽपि विरक्तः काष्ठभारिकः ॥२९४|| विहरन् स पुरे पौरैः पूर्वावस्थाऽनुवादिभिः । अभय॑तोपाहस्यताऽगीतापि पदे पदे ॥२९५।। नाऽवज्ञां सोढुमीशोऽत्र ततो विहरताऽन्यतः । इति व्यज्ञपयत् स श्रीसुधर्मस्वामिनं गुरुम् ॥२९६।। सुधर्मस्वामिनाऽन्यत्र विहारक्रमहेतवे । आपृच्छयताऽभयः पृच्छन् ज्ञापितस्तच्च कारणम् ॥२९७|| दिनमेकं प्रतीक्षध्वमूर्ध्वं यत् प्रतिभाति वः । तद्विधत्तेत्ययाचिष्ट प्रणम्य श्रेणिकात्मजः ॥२९८॥ पासोऽथ राजकुलात् कृष्ट्वा रत्नकोटित्रयीं बहि: । दास्याम्येतामेत लोकाः ! पटहेनेत्यघोषयत् ॥२९९।। ततश्चेयुर्जनाः सर्वेऽप्यवोचदभयोऽप्यदः । जलाग्निस्त्रीवर्जको यस्तस्य रत्नोच्चयोऽस्त्वयम् ॥३००।। लोकोत्तरमिदं लोकः स्वामिन् ! किं कर्तुमीश्वरः ? । इति तेष्वाभाषमाणेष्वभयोऽपीत्यभाषत ॥३०१।। यदि वो नेदृशः कश्चिद् रत्नकोटित्रयं ततः । जलाग्निस्त्रीमुचः काष्ठभारिणोऽस्तु महामुनेः ॥३०२॥ सम्यगीदृगयं साधुः पात्रदानस्य युज्यते । मुधाऽसौ हसितोऽस्माभिरिति तैर्जगदेऽभयः ॥३०३।। अस्य भोपहासादि न कर्तव्यमतः परम् । आदिष्टमभयेनैवं प्रतिपद्य ययुर्जनाः ॥३०४|| पाएवं बुद्धिमहाम्भोधिः पितृभक्तिपरोऽभयः । निरीहो धर्मसंसक्तो राज्यमन्वशिषत् पितुः ॥३०५।। वर्तमानः स्वयं धर्मे स प्रजा अप्यवर्तयत् । प्रजानां च पशूनां च गोपायत्ताः प्रवृत्तयः ॥३०६।। १. अपमानपूर्वकं निष्कासिता । २.०प्यन्यनिर्वे० मु., नू. मु. । ३. नौ-आवाम् । ४. निनायार्तमिवा० मु., नू. मु. । ५. ० येनाभि० मु., नू. मु. । ६. पुरा खं. ४ । ७. ०भारकः खं. १ । ८. ततश्चैयु० नू. मु. ।

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280