Book Title: Trishashtishalakapurushcharitammahakavyam Parva 10
Author(s): Hemchandracharya, Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 184
________________ १६० कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं [दशमं पर्व जगाद सा यथा ह्येष द्विजन्मा सम्पदोदयी । तथाऽभवत्तव पिता स्मृत्वा तज्जात ! रोदिमि ॥४७३।। त्वत्पितुः श्री_नेनाऽऽप्ताऽनुपार्जितगुणे त्वयि । पितुः श्रियो न रक्ष्यन्ते तनयैरपि निर्गुणैः ॥४७४।। जजल्प कपिलो मातस्तदधीये गुणार्थ्यहम् । साऽवदन्मत्सरी सर्वोऽप्यत्र कोऽध्यापयिष्यति ? ॥४७५।। यद्येवमपि ते बुद्धिः श्रावस्ती व्रज तत् पुरीम् । तत्रास्ति त्वत्पितुर्मित्रमिन्द्रदत्त इति द्विजः ॥४७६।। विद्यार्थिनं पुत्रमिव त्वामायातं स सर्ववित् । प्रीतः पितृसमं वत्स ! कलापूर्णं करिष्यति ॥४७७।। पागत्वेन्द्रदत्तं कपिलो नत्वा च स्वमजिज्ञपत् । उवाच चाऽध्यापय मां ताताऽन्यः शरणं न मे ॥४७८॥ उपाध्यायोऽप्यभिदधे भ्रातुष्पुत्रोऽसि मे खलु । विद्यामनोरथेनैवं न पिता हेपितस्त्वया ॥४७९।। वच्मि किं त्वहमातिथ्येऽप्यशक्तो निष्परिग्रहः । अध्यस्मच्चाऽऽगतस्येह क्व नु ते नित्यभोजनम् ? ॥४८०॥ अभोजनस्य च व्यर्थ एव पाठमनोरथः । विना हि भोजनं वत्स मुरजोऽपि न गुञ्जति ॥४८१।। कपिलोऽप्यलपत् तात ! भोजनं भावि भिक्षया । भिक्षां देहीति सिद्धं हि मौजीबन्धाद् द्विजन्मनाम् ।।४८२।। हस्त्यारूढोऽप्यग्रजन्मा भिक्षमाणो न लज्जते । भिक्षाचस्श्च राजेव नाऽधीनः कस्यचित् क्वचित् ॥४८३।। इन्द्रदत्तोऽवदद् वत्स ! भिक्षा श्रेष्ठा तपस्यताम् । तवैकदाऽप्यलब्धायां तस्यामध्ययनं कुतः ? ॥४८४॥ इत्युक्त्वा स द्विजो बालं तमालम्ब्य स्वबाहुना । शालिभद्रमहेभ्यस्य सद्यः सदनमासदत् ॥४८५॥ ॐभूर्भुवः स्वरित्यादि गायत्रीमुच्चकैः पठन् । अजिज्ञपद् द्विजन्मानमात्मानं स बहि:स्थितः ॥४८६।। इभ्योऽप्याहूय तं विप्रमूचे किं याचसे ननु ? । स ययाचे बटोरस्य प्रत्यहं देहि भोजनम् ॥४८७।। इभ्योऽपि प्रतिपेदे तद् भुक्त्वा भुक्त्वाऽथ तद्गृहे । उपेन्द्रदत्तं कपिलोऽधिजगे प्रतिवासरम् ॥४८८।। पाशालिभद्रगृहे भोक्तुं कपिलस्य गतस्य तु । सर्वदा युवदास्येका विशिष्टं पर्यवेषयत् ॥४८९॥ युवा च हासशीलश्च स तस्यामन्वरज्यत । स्त्रीसन्निधानं यूनां हि मन्मथद्रुमदोहदः ॥४९०|| साऽपि तस्मिन्नभूद् रक्ता रेमाते च क्रमेण तौ । दास्यप्यन्यमनिच्छन्ती रहस्यूचे तमन्यदा ॥४९१॥ त्वमेव प्राणनाथो मे किं तु निःस्वोऽस्यतो नरम् । प्राणयात्रार्थमपरं भजे सोऽप्यन्वमन्यत ॥४९२।। प[अन्येद्युश्च पुरे तस्मिन् दासीनामुत्सवोऽभवत् । सापि दास्याप निर्वेदं पुष्पपत्रादिचिन्तया ॥४९३।। तां निर्वेदवतीं दृष्ट्वा कपिलः स्माऽऽह सुन्दरि ! । किं दृश्यसे विवर्णास्या हिमालीढेव पद्मिनी ? ॥४९४॥ साऽख्यन्महोऽद्य दासीनां पुष्पपत्रादि नास्ति मे । विगोपिष्यामि मध्ये च दासीनां का गतिर्मम ? ॥४९५।। तदुःखव्यन्तरावेशविवश: कपिलोऽपि हि । अधृत्या मौनमालम्ब्य तस्थौ दास्यप्यदोऽवदत् ॥४९६।। मा विषीद धनोऽत्रास्ति श्रेष्ठी तं च निशात्यये । प्रबोधयति यस्तस्मै स्वर्णमाषौ ददाति सः ॥४९७।। गच्छेस्त्वमविभातायां विभावर्यां तदोकसि । कल्याणिनेय ! कल्याणं पठेरकठिनोक्तिभिः ॥४९८॥ तथेति प्रतिपेदानं कपिलं प्रजिघाय सा । तस्यामेव तमस्विन्यां निशीथे धनसद्मनि ॥४९९।। १. अस्मत्समीपे । २. वाद्यविशेषः । ३. अध्ययनं चकार । ४. ०दोहदम् मु., नू. मु. । ५. खिन्नमुखी । ६. निन्दामाप्स्यामि । ७. काल्याणि० खं. १ । कल्याण्याः पुत्रः ।

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280